Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S01/A016

From Grantha

तत्स्वाभाव्याधिकरणम्

‘धूमो भूत्वाऽभ्रं भवति’ इत्याद्यन्यभावः श्रूयते । स कथमित्यतो ब्रवीति-


ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ 24-318 ॥


धूमादिषु प्रविश्य तद्गतौ गतिः स्थितौ स्थितिरित्यादिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः । गारुडे च-


धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु । स्थितौ स्थितिः प्रवशश्च लघुत्वादिस्तथैव च ॥


न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते । विद्यागम्यं पदं यस्मात् न तत्प्राप्यं हि कर्मणा॥


एकदेशस्वभावेन वागभेदाऽपि युज्यते । यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि’ इति ॥ 24 ॥