Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S04/A043

From Grantha

प्राणाधिकरणम्

ॐ तथा प्राणाः ॐ ॥ 01-272 ॥


यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥


ॐ गौण्यसम्भवात् ॐ ॥ 02-273 ॥


अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।



ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥


‘इदं सर्वमसृजत’ इति ॥ 03 ॥