Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S03/A041

From Grantha

अंशाधिकरणम्

‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः । स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥ इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।


ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ 43-261 ॥


‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ ।


‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ ।


‘यस्तद्वेद स पितुष्टिताऽसत्’ ।


‘यस्ताविजानात् स पितुष्पिताऽसत्’।


‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’इत्यादिना नावाव्यपदेशादंशो जीवः ।


तथा च पाराशर्यायणश्रुतिः-


‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति’ च इति ।


‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः ।


‘ब्रह्मा दाशा ब्रह्म कितवाः, ब्रह्मैवेमे दाशा’इत्यभेदेनाप्येकेऽधीयते ।


तथा चाग्निवेश्यश्रुतिः-


‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिरे’ इति ॥


वाराहे च-


‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥


यतो भेदेन तस्यायमभेदेन च गीयते । अतश्चांशत्वमुद्धिष्टं भेदाभेदौ न मुख्यतः’ इति ॥ 43 ॥


ॐ मन्त्रवर्णात् ॐ ॥ 44-262 ॥


‘पादोऽस्य विश्वा भूतानि’ इति ॥ 44 ॥


ॐ अपि स्मर्यते ॐ ॥ 45-263 ॥


‘ममैवांशो जीवलोके जीवभूतः सनातन’ इति ॥ 45 ॥


अनंशत्वश्रुतेर्गतिं चाह –


ॐ प्रकाशादिवन्नैवं परः ॐ ॥ 46-264 ॥


अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः।यथा तेजोऽम्शस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता। यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ॥ 46 ॥


ॐ स्मरन्ति च ॐ ॥ 47-265 ॥


‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’ ।


‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः’ ॥


‘स्वांशश्चाथो विभिन्नांश इति द्वेधाऽम्श इष्यते । अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥



‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति च ॥ 47 ॥


ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ 48-266 ॥


परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि देहसम्बन्धात् ।’य आत्मानमन्तरो यमयति’ । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिना । न तु परस्य।


‘वासुदेव सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्तधाऽहमितेऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञान बन्धो न मुक्तितो सर्व एव ह्येते पूर्णा अजरा अमृताः परमाः परानन्दाः’ इति चतुर्वेदशिखायाम् ।


युज्यते च ज्योतिरादिवत् यथाऽऽदित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च ।


मोक्षधर्मे च –


‘यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥


ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।

भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥

भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति ।


वाराहे च-


‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः । अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥


अदेहबन्धयोग्यत्वाद्यथासूर्यप्रभाऽक्षिणी । यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥


अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम्’ इति ॥ 48 ॥


ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ 49-267 ॥


अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम्-


‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि, कृष्णो रामः कपिलः इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि। तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णाः सर्वे एव बध्यन्तेऽथ मुच्यन्ते च केचन’ इति ॥ 49 ॥


ॐ आभास एव च ॐ ॥ 50-268 ॥


‘रूपं रूपं प्रतिरूपो बभूव’ इति प्रतिबिम्बत्वाच्च न साम्यम् ।


वाराहे च–


‘द्विरूपूवंशकौ तस्य परमस्य हरेर्विभोः । प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥


प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः । प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु’ इति ॥



‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’ इति च श्रुतिः ॥ 50 ॥