ब्रह्मसूत्रभाष्यम्/C02/S03/A034
Appearance
ज्ञाधिकरणम्
‘नित्यो नित्यानाम्’ इति जीवास्यापि नित्यत्वमुक्तम् ।‘सर्व एते चिदात्मानो व्युच्चरन्ति’इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह –
ॐ ज्ञोऽत एव ॐ ॥ 18-236 ॥
जीवोऽप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव । ‘ते वा एते चिदात्मनोऽविनष्टाः परञ्ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’इति काषायणश्रुतिः ॥ 18 ॥
ॐ युक्तेश्च ॐ ॥ 19-237 ॥
नित्यस्यापि ह जीवस्योपाध्यक्षयोत्पत्तिर्युज्यते।
‘उत्पद्यन्ते चिदात्मानो नित्यान्नित्याः परात्मनः ।
उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयते’
इति व्योमसंहितायाम्॥ 19 ॥