Jump to content

BramhasutraBhashyam/C02/S02/व्याख्या/bhashya

From Grantha
Revision as of 11:39, 10 March 2026 by BramhasutraBhashyam>ShastraImport (Imported from BS.xml via ShastraEditor)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । चशब्देन प्रमाणाभावं दर्शयति ॥ 01 ॥


चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ 02 ॥


पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्युज्यत इति न युक्तम् ।
‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते , याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां य दिशमनु’
‘एतेन ह वाव पयो मण्डं भवति’ इत्यादिना तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥ 03 ॥


‘न ऋते त्वत्क्रियते किञ्चनारे’ इति तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेरनपेक्षितमेवाचेतनवादिमतम् ॥ 04 ॥


‘यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’
‘ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मण्येव लयमभ्येति ।
ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्ठाद्ब्रह्म मध्यतो ब्रह्म सर्वतः’ ॥
‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावात् तृणादीनां पर्जन्यवन्नानुग्राहकत्वमात्रमीश्वरस्य ।
‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
इति भागवते ।


यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किं प्रयोजनम् । अतः स्वव्याहतेरेवोपेक्ष्यः ॥ 06 ॥


यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्चति, एवमचेतनाऽपि प्रकृतिः पुरषसम्बन्धात् प्रवर्तत इति चेन्न । ‘न ऋते त्वत्क्रियते’ इति तत्रापि तथात्वे दृष्टान्ताभावात् ॥ 07 ॥


शरीरप्रवृत्तौपुरषस्याङ्गित्वात् ।
‘अङ्गमङ्गी समादाय यथाकार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्न ॥ 08 ॥


शरीरसम्बन्धात् पुरुषः प्रवर्तत इत्यङ्गीकारेऽपि स्वतस्तस्यासामर्थ्याच्चरीरसम्बन्ध एवायुक्तः ॥ 09 ॥


सकलश्रुतिस्मृतियुक्तिविरुद्धत्वाच्चानीश्वरमतमसमञ्जसम् ।
‘श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् ।
वदन्ति तद्विरुद्धं यो वदेत् तस्मान्न चाधमः’ इति पाद्मे ॥ 10 ॥


महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वाद् पारिमण्डल्याच्चोत्पद्येत । वाशब्दादन्यथैतयोरपि न स्यात्, विशेषकारणाभावात् ॥ 11 ॥


ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावान्नेदानीमपि स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभावात् तत्कार्याभावः । वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपपद्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ 12 ॥


कार्यकारणादीनां समवायसम्बन्दाङ्गीकारात् तस्य च भिन्नत्वसाम्यात् समवायान्तरापेक्षायामनवस्थितिः। न च तत्प्रमाणम् । प्रथमसम्बन्धा सिद्धैव च तदसिद्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ 13 ॥


नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनित्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदाचित् ॥ 14 ॥


रूपादिमत्त्वाच्च परमाणूनामनित्यत्वम् । तथा दृष्टत्वाल्लोके ॥ 15 ॥


नित्यत्वे परमाणूनां तद्वत् सर्वनित्यत्वं स्यात् । विशेषप्रमाणाभावात् अनित्यत्वे कारणाभावात् तदुत्पत्त्यभावः ॥ 16 ॥


सकलश्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेनानपेक्षता ।
‘आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकम्’ इति मोक्षधर्मे ॥ 17 ॥


समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात् तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ॥ 18 ॥


सर्वदा विद्यमानोऽपि समुदाय परस्परापेक्षया व्यवह्रियत इति चेन्न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात् परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ॥ 19 ॥


कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्योत्पत्तिः ॥ 20 ॥


कारणे विनष्टे कार्यमुत्पद्यते चेत् तत्कार्यमिति प्रतिज्ञाहानिः । तत्काले कारणमस्ति चेद्विनाशकारणाभावद्यौगपद्यं सर्वकार्याणाम् ॥ 21 ॥


कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः ससन्तानश्च विनाशो न युज्यते ॥ 22 ॥


कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभावान्न कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥ 23 ॥


दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्यत्रापि तदनुमीयते ॥ 24 ॥


तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाय ब्रान्तित्वे विशेषदर्शनस्यापि ब्रान्तित्वम् ॥ 25 ॥


अदृष्टत्वादसतः कारणत्वं न युज्यते ॥ 26 ॥


असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जितानां खपुष्पादीनामपि सकाशात् कार्यसिद्धिः । चशब्दान्न चेदन्यत्रापि न स्यादविशेषात् ॥ 27 ॥


न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥28॥


न च दृष्टस्यापि स्वप्नादिवदभावः। तस्योत्तरकाले’स्वप्नोयं’,’नायं सर्पः’ इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति ॥ 29 ॥


न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ॥ 30 ॥


ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । आतश्च नैक्यम् ॥ 31 ॥


प्रमाणाभावात् सर्वश्रुतिस्मृतिर्युक्तिविरुद्धत्वाच्च नैते पक्षा ग्राह्याः ॥ 32 ॥


सत् स्यादसत् स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादित्येतन्नैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ 33 ॥


जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्तादिशरीरेऽकार्त्स्न्यं स्यात् ॥34॥


तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ 35 ॥


परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥ 36 ॥


‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’
‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’।
‘अस्य देवस्य मील्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’।
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’
इत्यादि श्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पशुपतीरीश्वरो जगत्कर्ता ॥ 37 ॥


अशरीरत्वात् तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् ॥38॥


पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । न चास्य तदस्ति ॥ 39 ॥


इदमेव जगत् तस्य करणवदधिष्ठानादिरूपम् । नित्यस्यापि कस्यचिद्भावाद्युज्यत इति चेन्न भोगादिप्राप्तेः। उत्पत्तिविनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ॥ 40 ॥


देहवत्वेऽन्तवत्वम् । अन्यथा ज्ञानाभावः । शरीरिण एव हि ज्ञानोत्पत्तिर्दृष्टा । विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः ।
‘यदात्मको भगवांस्तदात्मिका व्यक्तिः ।
किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’इति ।
‘बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान् मनोवानङ्गप्रत्यङ्गवान्’ इति
‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’ ॥ इत्यादिकया ॥ 41 ॥


न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ 42 ॥


यदि पुरुषोऽङ्गीक्रियेत तस्यापि करणाभावादनुपपत्तिः ॥ 43 ॥


यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वरवादान्तर्भावः ॥ 44 ॥


सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ 45 ॥