Jump to content

BramhasutraBhashyam/C01/S01/व्याख्या/bhashya

From Grantha
Revision as of 19:18, 10 March 2026 by Chandrashekars (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


‘अथ’ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च । ‘अतः’ शब्दो हेत्वर्थः।
उक्तं च गारुडे –

अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि ।

प्रारभन्ते नियत्यैव तत् किमत्र नियामकम् ॥
कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः । एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥
अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः । परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥
स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः । सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥
ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् । तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥
अकारः सर्ववागात्मा परब्रह्माभिधायकः । तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥
अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः । अथातःशब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥

सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते’ इति॥

अधिकारश्चोक्तो भागवततन्त्रे –

मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।

तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥
मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः । इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः ॥
भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः । अधमः शमादिसंयुक्तो मध्यमः समुदाहृतः ॥
आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् । विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥

स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान् इति ।

‘अध्ययनमात्रवतः’ ,’नाविशेषात्’ इति चोपरि ।
‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’।

“परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।।”

"यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । ”
“ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥”

इत्यादि श्रुतिभ्यश्च ॥
व्योमसंहितायां च –
अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।
स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥
एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।
त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥
आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।
यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपरा ॥ इति ॥
यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं विनाऽत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासाकर्तव्या ।
यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
इति ब्रह्मसंहितायाम् ।
‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’ ॥

‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ ।
‘यमेवैष वृणुते तेन लभ्यः’ ।
‘आत्मावाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’

इत्यादिश्रुतिस्मृतिभ्यः ।
‘कर्मणात्वधमः प्रोक्तः प्रसादः श्रवणादिभिः ।
इति नारदीये ।
ब्रह्मशब्दश्च विष्ण्वावेव –
‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः ।
इति हि शृतिः ॥
‘तन्नो विष्णुः’ इति वचनाद्विष्णुरेव हि तत्रोच्यते ॥
न चेतरशब्दात् तत्प्राप्तिः –
‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
इति भाल्लवेयश्रुतिः ॥
‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’
इत्येवशब्दान्नान्येषां सर्वनामता ।
‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’ इति विष्णोर्हि लिङ्गम् ।
न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते ॥
‘अजस्य नाभाविति यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् ।
इति स्कान्दे ।
‘परो दिवा पर एना पृथिव्या’ इति समाख्याश्रुतौ ॥
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इत्युक्त्वा ‘मम योनिरप्स्वन्तः समुद्रे’ इत्याह ।
उग्रो रुद्रः । समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात् सूचितत्वाच्चास्यार्थस्य । न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तान्यायेन च श्रुतय एतमेव वदन्ति ।
‘वेदे रामायणे चैव पुराणे भारते तथा ।
इति हरिवंशेषु ॥
न चेतरग्रन्थविरोधः .
‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
इति वाराह वचनात् ॥
शैव च स्कान्दे –
‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मखः’ इति ॥
ब्राह्मे च ब्रह्मवैवर्ते –
‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ।
बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः’ इति ॥
न च वैष्णवेषु तथा । तच्च ‘एष मोहम्’ इत्युक्तम् ॥
॥ इति जिज्ञासाधिकरणम् ॥


सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः ।
‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
इति स्कान्दे ।
‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’ इति ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।
‘चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँ वीविपत् ।
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’।
‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’ इत्यादि च ॥02॥
॥ इति जन्माधिकरणम् ॥


‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’ ॥
‘औपनिषदः पुरुषः’ इत्यादिश्रुतिभ्यः ॥
न चानुमानस्य नियतप्रामाण्यम् ॥
‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।
निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥
पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्यादि कौर्मे॥
शक्यत्वाच्चानुमानानां सर्वत्र ।
‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
इति वाराहे ।
‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥’
-इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ।
दर्शनाच्च तप आधिफलस्य ॥
‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम्।
॥इति स्कान्दे ॥
‘साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च’।
इत्यारभ्य, वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरात्रस्यैव प्रामाण्यमुक्तम्, इतरेषां भिन्नमतत्वं प्रदर्श्य मोक्षधर्मेष्वपि । शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ 03 ॥
॥ इति शास्त्रयोनित्वाधिकरणम् ॥ 03 ॥


अन्वय उपपत्यादि लिङ्गम् ।
उक्तं च बृहत्संहितायाम् –
‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इति ॥
‘उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् ।
‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
इति भागवते ॥ 04 ॥
॥ इति समन्वयाधिकरणम् ॥ 04 ॥


‘स एतस्माज्चीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’,

‘आत्मन्येवात्मनं पश्येत्’ ‘विज्ञाय प्रज्ञां कुर्वीत’

इत्यादिवचनैरीक्षणीयत्वाद्वाच्यमेव । औपनिषदत्वान्नावचनेनेक्षणम् ॥
‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ ॥
‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्’
इत्यादिशृतिस्मृतिभ्यश्च ॥
अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ॥
‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
इति गारुडे ॥
न चाशब्दत्वमितरसिद्धम् ॥05॥


न च गौण आत्मा दृश्यो वाच्यश्च न निर्गुण इति युक्तम् । आत्मशब्दात्॥
‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः ।
इति वामने ॥
‘द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह योऽनीदृशः सोऽनात्मा’ इति तलवकारब्राह्मणम् ।
न च मुख्ये सत्यमुख्यं युज्यते ॥ 06 ॥


न हि गौणात्मनिष्ठस्य मोक्षः ।
‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्दोहे गहने प्रविष्टः ।

स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’

इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
‘अयमात्मा ब्रह्म’॥
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’।
‘दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान्’॥
‘चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥
इतरेष्वात्मशब्दस्तु सोपचारोऽभिधीयते ॥
तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
इति पाद्मे ॥ 07 ॥


‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’
इत्यन्येषां हेयत्ववचनादस्याहेयत्ववचनान्न गौण आत्मा ॥ 08 ॥


‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’॥
‘स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्यथात्मैव भवति’।
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः।
एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्’
इति स्वस्यैव स्वस्मिन्नप्ययवचनात् ।
न हि गौणात्मनि निर्दोषस्य लयः ॥ 09 ॥


‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव ।
इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥ 10 ॥


‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूतादिवासः साक्षी चेता केवलो निर्गुणश्च’ इति ॥
न ह्यशब्दः श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ 11 ॥
॥ इति ईक्षत्यधिकरणम् ॥


आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा । ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिः शतानन्दनाम्ना च । अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य । एनमन्येषामपि।’मम योनिर्महद्ब्रह्म’ इति ब्रह्मशब्दाद्बहुभावाच्च प्रकृतेः । ‘बृह जातिजीवकमलासनशब्दराशिषु’ इति ब्रह्मशब्दादेव सर्वजीवानाम्।अन्नमयत्वादेश्च ।
तथाऽपि न त आनन्दमयशब्देनोच्यन्ते । किन्तु विष्णुरेव ।
’तदेव ब्रह्म परमं कवीनाम्’
‘एतमेव ब्रह्मेत्याचक्षते’
‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
असम्पूर्णाः परे यस्मादुपचारेण वा भवेत्’ ॥
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’।
‘वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः’॥
इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ॥ 12 ॥


विकारात्मकत्वात्तदभिमानित्वाच्च युज्यते प्रकृत्यादीनां मयट् शब्दः न तु परमात्मन इति मा भूत् । प्रचुरानन्दत्वाद्द्यानन्दमयः । न तु तद्विकारत्वात् । अन्नादीनां च प्राचुर्यमेव ॥ ‘अद्यतेऽत्ति च’ इति व्याखानात् तत्प्राचुर्यं च युज्यते ॥
उपजीव्यत्वमेवाद्यत्वम् ॥ ‘स वा एषः’ इत्यन्यप्रारम्भात् ॥ ‘योऽन्नं ब्रह्मोपासते’ इत्यादिब्रह्मशब्दाद्बहुरूपत्त्वाच्च न विकारित्वमविरोधश्च । न च पृथक्कल्पना युक्ता । स्वरूपे च युज्यते प्रचुरप्रकाशो रविरितिवत् ॥13॥


‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ इति ॥14॥


‘ब्रह्मविदाप्नोति परम्’ इति सूचयित्वा‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति मन्त्रवर्णलक्षितं परमेव ब्रह्मशब्दानुसन्धानाद्गीयते । न चावयवत्वविरोधः ॥
‘स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छम्’
इति तस्यैवावयवत्वोक्तेश्चतुर्वेदशिखायाम्
शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।
प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥
नारायणोऽथ सन्दोहो वासुदेवः शिरोऽपि वा ।
पुच्छं सङ्कर्षणः प्रोक्त एक एव तु पञ्चधा ॥
अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ।
इति बृहत्संहितायाम् ॥
रसशब्देन विशेषणात् तत्सारभूतं चिन्मात्रमेवोच्यते । इदमिति च दृश्यमानसन्निहितत्वात् ।
‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान् विष्णुरैश्वर्यात् पुरुषोत्तमः’॥ इति ब्रह्माण्डे ।
न चोक्तप्राप्त्या विरिञ्चादिरुच्यते ॥ 15 ॥


न ह्यन्यज्ञानान्मोक्ष उपपद्यते । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ इति ह्युक्तम् ॥16॥


‘ते ये शतं प्रजापतेरानन्दाः’

‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते’
‘अथ सोऽभयं गतो भवति’ ।

‘स यश्चायं पुरुषे’ इत्यादिभेदव्यपदेशात् ।
न च’तत्त्वमसि’’अहं ब्रह्मास्मि’ इत्यादिश्रुतिविरोधः ॥ ‘नामानि सर्वाणि यमाविशन्ति’ इति तत्तच्छब्दवाच्यत्वोक्तेः ॥
‘इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः’,

‘असर्वः सर्व इत्यपि’,
’विद्याऽऽत्मनि भिदाभोधः’,

‘भेददृष्ट्वाऽभिमानेन निस्सङ्गेनापि कर्मणा’ ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
‘असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ् पराङ् वैक ईयते बहुधेयते’ स पुरुषः स ईश्वरः स ब्रह्म’ ।
‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयते ।
एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः’ ॥
‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह’ इत्यादेश्च’ ।
उक्ता च प्राप्तिः ।’ब्रह्मैव सन्’ इत्यपि जीव एव ब्रह्मशब्दः ।
उपपद्यते च विरोधे । प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यते ।
‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’ इति हि भागवते ॥17॥


यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथगनुमानमपेक्ष्यते । उक्तं च स्कान्दे –
‘यथाकामाऽनुमा यस्मात् तस्मात् साऽनपगा श्रुतेः ।
पूर्वापराविरोधाय चेष्यते नान्यथा क्वचित्’ इति ॥
‘नैषा तर्केण मतिरापनेया’ इति च ॥ 18 ॥


अस्य जीवस्य । युक्तिसमुच्चये चशब्दः ।
‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ ,

‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’ ,

‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादि ॥19॥
॥इति आनन्दमयाधिकरणम् ॥ 06 ॥


अन्तः श्रूयमाणो विष्णुरेव ।
‘अन्तः स्समुद्रे मनसा चरन्तम् । ब्रह्मान्वनिन्दद्दशहोतारमर्णे’ ।
‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’
यस्याण्डकोशं शुष्ममाहुः’ इत्यादि तद्धर्मोपदेशात् ।
स हि क्षीरसमुद्रशायी । तस्य च वीर्यमण्डकोशः ।
‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
इति व्यासस्मृतेः ।
‘अहं तत्तेजो रश्मीन्नारायणम् पुरुषं जातमग्रतः । ‘पुरुषात् प्रकृतिर्जगदण्डम्’ इति चतुर्वेदशिखायाम् ॥ 20 ॥


‘इन्द्रस्यात्मानिहितः पञ्च होता’ ,

‘वायोरात्मानं कवयो निचिक्युः’,

‘‘अन्तरादित्ये मनसा चरन्तम्, देवानां हृदयं ब्रह्मान्वविन्दत्’ इत्यादिभेदव्यपदेशात् ॥ 21 ॥
॥इति अन्तःस्तत्थ्वाधिकरणम् ॥ 07 ॥


‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’ इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु विष्णुरेव ।
‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ इत्यादि तल्लिङ्गात् ।
‘विष्णोर्नु कं वीर्याणि प्रोवोचं यः पार्थिवानि विममे रजांसि,
परो मात्रया तन्वा वृधान’ इत्यादिना तस्यैव हि तल्लिङ्गम् ।
‘अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
इति ब्राह्मे ।
‘नामानि सर्वाणि यमाविशन्ति’ इति चोक्तम् ॥ 22 ॥
॥ इति आकाशाधिकरणम् ॥


‘तद्वैत्वं प्राणो अभवः महान् भोगः प्रजापतेः ।

भुजः करिष्यमाणः यद्देवान् प्राणयो न वा ॥
इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् । स च प्राणः प्रसिद्धेर्वायुरित्यापतति । न चैवं यतो विष्णुरेव प्राणः ।

अत एव ‘श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे’ इत्यादि तल्लिङ्गादेव ॥ 23 ॥
॥ इति प्राणाधिकरणम् ॥ 9 ॥


विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् । स हि ‘परो मात्रया तन्वावृधान’ इत्यादिना कर्णादिविदूरः ॥ 24 ॥
॥ इति ज्योतिरधिकरणम् ॥ 10 ॥


‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इत्युक्तस्य ज्योतिषो’गायत्री वा इदं सर्वम्’ इति गायत्र्या समारम्भः कृतः । तस्मान्न विष्णुरिति चेन्न ।
तथा चेताऽर्पणार्थं हि निगद्यते अग्नि गायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते ।
तथा हि दर्शनं’गायति त्रायति च’ इत्यादि ।
‘सर्वच्छन्दोऽभिधो ह्येषः सर्वदेवाभिधो ह्यसौ ।
इति वामने ॥ 25 ॥


‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति ।
‘सुवर्णं कोशं रजसा परीवृतम् देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां विचक्षते पादं षड्ढोतुर्न किलाविवित्स’ इति श्रुतेः । पाद इति एकदेशपरिमितं चतुर्भागबल इतिवद्भिन्नं च शब्दात् । स हि पुरुषसूक्ताभिधेयः’यज्ञेन यज्ञमयजन्त’ इति यज्ञशब्दात् ।
‘यज्ञो विष्णुर्देवता’ इति हि श्रुतिः ।


इति च स्कान्दे ॥ 26 ॥


त्रिपादस्यामृतं दिवि इति पूर्वोपदेशः ।
‘परो दिवः’ इति पञ्चम्यन्तः पश्चिमः । तस्मान्नैकं वस्त्वत्रोच्यत इति चेन्न ।
त्रिसप्तलोकापेक्षयोभयस्मिन्नप्यविरोधात् ॥ 27 ॥
॥इति गायत्र्यधिकरणम् ॥ 11 ॥


‘तं देवाः प्राणयन्त’ ‘स एषोऽसुः स एष प्राणः’ ‘प्राण ऋच इत्येव विद्यात्’ ,’तदयं प्राणोऽधिष्ठति’ इत्याद्यनुगमात्, अत्रापि प्राणो विष्णुरेव ।
‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
इति स्कान्दे । ब्रह्मशब्दानुगमाच्च ॥ 28 ॥


‘प्राणो वा अहमस्मृषे’ इति वक्तरात्मोपदेशादिन्द्र एवेति चेन्न,’प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इति बह्वध्यात्मसम्भन्धो ह्यत्र विद्यते ॥ 29 ॥


शास्त्रमन्तर्यामि ।‘संविच्छास्त्रं परं पदम्’ इति हि भागवते ।
‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
इति पाद्मे ।
‘अहं मनुरभवं सूर्यश्च’ इत्यादिवत् ॥ 30 ॥


तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’ इति जीवलिङ्गम् । प्राणसंवादादि मुख्यप्राणलिङ्गम् । तस्मान्नेति चेन्न । अन्तर्बहिः सर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रितत्वाच्च ।
‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’

‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः’ इत्यादिना ।
‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
इति ब्रह्माण्डे ।
तत्तदुपासनायोग्यतया च पुरुषाणाम् ।
‘केषाञ्चित् सर्वगत्वेन केषाञ्चिद्धृदये हरिः ।
इति ब्राह्मे ॥
‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’ इति च ॥ 31 ॥
॥ इति पादान्त्यप्राणाधिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥01-01 ॥