Tattvasankhyanam/Vyakhya/Tattvasankhyanam-tika
तत्वसङ्ख्यानविवरणम्
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥1॥
करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ १ ॥
तत्वम् अनारोपितिम् । प्रमितिविषयः इति यावत् । तेन ‘तस्य भावः तत्वम्’ इत्यादिखण्डनानवकाशः। ननु शुक्तरजतादिकं कथं न तत्त्वम् ? न हि धर्मी वा रजतत्त्वं वा न प्रमेयम्, नापि तयोः सम्बन्धः । शुक्तिव्यक्तौ रजतत्त्वस्य स नास्ति इति चेत्, मा भूत् । न हि गृहे देवदत्तो नास्ति इत्येतावता न प्रमेय इति । स्यादिदम् आरोपितस्य अन्यत्र सत्तामभ्युपगच्छतां दूषणम्। अत्यन्तासदेव रजतं दोषवशात् शुक्तिकायाम् आरोप्यत इति वादे तु नायं दोषः। एतेन ‘भाविपाकरागः कुंभः श्यामतादशायां रक्तपित्तिना रक्ततया उपलभ्यमानः तत्त्वं स्यात्’ इत्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्य तथाभावाभावात्, धर्मिणः तथाभावाङ्गीकारादिति। तत् द्विविधम् । स्वतन्त्रमस्वतन्त्रञ्च इति इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रम् अस्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधम् इति प्रतीतिः स्यात् । स्वरूप-प्रमिति-प्रवृत्ति-लक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रम्। परापेक्षं अस्वतन्त्रम्। तदुपपादनायोक्तम्
इष्यत इति ।
प्रामाणिकैः इति शेषः । तथाहि यदि तत्त्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । भ्रान्तिः सा इति चेत् न, बाधकाभावात् । न च निरधिष्ठाना भ्रान्तिरस्ति, नापि निरवधिको बाधः । नास्त्येव तत्त्वम् इत्यस्यार्थस्य प्रमितित्वाप्रमितत्त्वयोर्व्याघातश्च। यदि च एकमेव तत्त्वं तदा भेदोपलम्भविरोधः। तद्भ्रान्तितायाञ्च बाधकं वाच्यम् । तच्च अन्यत्र निरस्तम्।
यदि वा सर्वमेव स्वतन्त्रं स्यात् तदा पारतन्त्र्यादिप्रतीतिविरोधः। नित्यसुखादिप्रसङ्गश्च। यदि वा परतन्त्रमेव तत्त्वं भवेत् तदा अनवस्थितेः असम्भवाच्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च। यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुम् । तथापि अस्य वैय्यर्थ्यात् अयमेव विभागो न्याय्यः । परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्रेयसाय भवति । तथा च प्रकरणान्ते वक्ष्यति । अन्यथा गङ्गावालुकापरिगणनवदिदं तत्त्वं अपार्थकं स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदात् द्विविधं तत्त्वम् ।
स्वतन्त्रेति
।अत्र
भगवानिति
विष्णोः स्वातन्त्र्योपपादकम् ॥ अन्यत् अस्वतन्त्रम् इति शेषः ।
अथवा, द्वे तत्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रम् एका व्यक्तिरेव प्रसज्येत । तथा च प्रमाणविरोधो वक्ष्यमाणविभागविरोधश्च । अतः द्विविधमित्युक्तम् । ततश्च स्वतन्त्रमप्यनेकविधं स्यादित्यत इदमुक्तम् । अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यं अङ्गीकुर्वाणाः साङ्ख्यादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति ।
मित्युक्त्या ‘परतन्त्रतत्त्वमवान्तरभेदवदिति सूचितम् । तत्कथम् ? तत्र आह
भावेति ।इतरत्
स्वतन्त्रात् अस्वतन्त्रतत्वं द्विधा। कथम् । भावः अभावः च इति। अभावप्रतीतिः भावप्रतीत्यधीना नियमेन, इति प्राधान्यात् प्रथमं भावस्य उद्देशः। प्रथमप्रतीतौ ‘अस्ति’ इति उपलभ्यते यः सः भावः। यश्च प्रथमोपाब्धौ ‘नास्ति’ इति प्रतीयते सः अभावः। कुत एतत् ? स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ, रूपान्तरेण तु निषेधविधिरूपौ। तत्र आपातजायां संविदि स्वरूपमेव भासते, द्वितीयादिप्रतीतौ रूपान्तरम्, कार्यगम्यत्वात् सामग्रीभेदस्य। तथाच प्रतीतिः— अस्त्यत्र घटः स न शुक्ल इति । एवं नास्ति घटः अस्ति घटाभाव इति॥ ननु स्वतन्त्रतत्वं भावोऽभावोऽन्यद्वा, नाद्यद्वितीयौ । भावाभावयोः परतन्त्रप्रभेदत्वात्, न तृतीयः व्याघातात्। मैवम् । भावलक्षणाऽऽक्रान्तत्वात्। ‘‘परतन्त्रं भावाभावतया द्विधा एव, न पुनरेकविधम्, नापि त्रिविधम् ’ इत्येवं परो विभागः, न पुनः ‘परतन्त्रमेव भावाभावात्मकमिति। यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियताम् इति चेत्, नैवम् शङ्क्यम् । तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यम्। अन्यथा ‘‘द्विविधं तत्वं भावोऽभावश्च, भावोऽपि द्विविधः नित्योऽनित्यश्च, नित्योऽपि द्विविधः चेतनोऽचेतनश्च, चेतनोऽपि द्विविधः स्वतन्त्रोऽस्वतन्त्रश्च’’ इति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिः स्यात्, भगवद्व्यतिरिक्तस्य सर्वस्यापि अस्वातन्त्र्यप्रतीतिः न स्यात् । ‘अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यात्, इति सममेव’ इति चेत् न, पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात्। अभावादीनां नित्यत्वाद्यनुक्तिश्च समैव। तस्मात् यथान्यासमेवास्तु । अथ अस्वतन्त्रं चेतनत्वादिना एव विभज्यताम् । किं चेतनत्वादिना विभज्य भावाभावतया विभागः कर्तव्य उताऽयं न कर्तव्यः एव । नाद्यः । विशेषाभावात् । अभावस्य अचेतनत्वं एवं सति न उक्तं स्यात् इति चेत्, तथा सति चेतनस्य भावत्वमप्युक्तं स्यादिति समम् । तर्हि केन विशेषेणास्य प्राधान्यम् ? इति चेत्, वादिविप्रतिपत्तिभावाभावाभ्यां विशेषात् । अत एव न द्वितीयोऽपीति । ‘अभाव एव नास्तीति केचित् । तदसत्, ‘नास्ति’ इति प्रतीतेः दुरपह्नवत्वात् । ‘‘ ‘घटो नास्ति इति प्रतीतिः भूतलमात्रविषया’’ इति चेत्, ‘मात्र’ इति किम् ? भूतलमेव उच्यते उत अतिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रसङ्गः। अतिरिक्तोऽपि घटः चेत्, उक्तो दोषः । भावानन्तरं चेत् रूपवति घटे ‘गन्धो नास्ती’ति प्रतीतिप्रसङ्गः। ननु घटाभावः घटाभाववति भूतले सम्बध्यते उत घटवति । नाद्यः । आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः । विरोधात् । अतो वक्तव्यं ‘भूतलमात्रे’ति। तदेवास्तु ‘नास्तीति प्रतीतिविषय’ इति चेत् न । प्रश्न एव अयं विविच्यताम् । यदि अभावसम्बन्धात् प्राक् कीदृशं भूतलम् ? इति, यदि वा सम्बन्धसमये कीदृशं भूतलम् ? इति, यद्वा यदि अभावात् इदं विविच्येत तदा कादृशं नाम स्यात् इति । आद्ये ‘सघटम्’ इत्येव उत्तरम् । द्वितीये ‘घटाभाववत्’ इति । तृतीये यदि विवेको वस्तुकृतः तदा अभावस्य नष्टत्वात् । ‘घटवत्’ इति । यदि बुद्धिकृतः तदा ‘बुद्ध्या एव घटप्रसक्तिमत्’ इति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यात्। इति आस्तां विस्तरः । द्विधा
इत्युक्त्या भावाभावतयोरवान्तरभेदोऽस्तीति सूचितम् ।
प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥2॥
प्राक्त्वेन, प्रध्वंसत्वेन, सदात्वेन च उपलक्षितोऽभावः
त्रिविध
इष्यते । ‘प्रामाणिकै’रिति शेषः। उत्तरैकावधिरभावः प्रागभागः । प्रतियोग्युत्पत्तेः प्रागेवास्ति, उत्पन्ने तु नास्ति इति कृत्वा ॥ पूर्वैकावधिरभावः प्रध्वंसाभावः । प्रतियोगिप्रध्वंसानन्तरमेव अभावः, न तु प्राक् अस्तीति ॥ न चैवम् । ‘‘प्रागभावप्रध्वंसः, प्रध्वंसप्रागभाव’’ इति प्रवाहौ प्रसज्ज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन च अङ्गीकृतत्वात् । तर्हि घटप्रध्वंसो नाम ‘प्रागभावनिवृतेर्निवृत्तिः’ इति प्रागभावोन्मज्जनप्रसङ्ग इति चेत् न । घटवत् तद्ध्वंसस्यापि तद्विरोधित्वात् ॥ निरवधिकोऽभावः सदाऽभावः । सदा अभावः अस्ति इति कृत्वा । अथ ‘अत्यन्ताभावः’ इति प्रसिद्धसंज्ञाऽतिक्रमेण ‘सदाऽभावः’ इति संज्ञान्तरकरणं किमर्थम् । लक्षणस्यापि उद्देशेनैव सूचनार्थम्। यच्च अन्यैः अत्यन्ताभावस्वरूपम् उक्तम्— ‘संसर्गप्रतियोगिकाभावः अत्यन्ताभावः इति । यथा एतद्घटे एतद्भूतलसंसर्गाभाव’’ इति तदपि निराकर्तुं एतत्, तस्य निरवधिकत्वाभावात् ।तर्हि उदाहृतः चतुर्थः स्यात् इति चेत्, न । तस्यापि यथासम्भवं प्रागभावादिषु अन्तर्भावात् । एके ब्रुवते—‘संसर्गाभावः अन्योन्याभावश्चेति द्विविध एवाभाव इति । अन्ये तु ‘प्राक्प्रध्वंसात्यन्तान्योन्याभावात्मना चतुर्विध’ इति । तदुभयं निराकर्तुं
इष्यत
इत्युक्तम् । अन्योन्याभावो हि भेद एव । ‘स च स्वरूपमेव’ इति अन्यत्र उपपादितम् । कार्यकारणयोः संसर्गस्य अन्यत्र निराकृतत्वेन, प्रागभावप्रध्वंसाभावयोः संसर्गाभावत्वानुपपत्तेश्चेति ।
चेतन
इति ।न केवलमभावोऽपि भेदवान्, किन्तु भावोऽपि इति
अपि
शब्दः । चेतयत इति चेतनः । अनेवंविध अचेतनः । तेन विष्णोः चेतनत्वम्, अभवस्य अचेतनत्वञ्च ज्ञातव्यम् ॥
सर्वमचेतनं चेतनार्थम् इति चेतनस्य प्राधान्यात् पूर्वमुद्देशः । ‘ मृदब्रवीत्’ इत्यादिवचनात् सर्वं चेतनमेव’ इति मतनिरासाय मत इत्युक्तम् । तच्च अभिमान्यधिकरणे निरस्तम् ॥ चेतनादिविभागस्य नित्यादिविभागात् अभ्यर्हितत्वात् स एव आदौ उदाहृतः ।
दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । नित्यादुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥3॥
कदाचिद्दुःखसंबद्धम् एव दुःखस्पृष्टम् । कदाऽपि दुःखासंबद्धं तदस्पृष्टम् ॥ ‘कल्पितत्वात् दुःखादीनां न किञ्चित् दुःखस्पृष्टम्’ इत्येके । ‘ईश्वरातिरिक्तं सर्वमपि दुःखस्पृष्टमेव’ इत्यन्ये ॥ तदुभयनिरासाय
एव
कारः । आद्यस्य प्रत्यक्षविरुद्धत्वात्, द्वितीयस्य आगमविरुद्धत्वात् । परमेश्वरस्य दुःखास्पृष्टत्वं स्वातन्त्र्येणैव सिद्धम् । यद्यपि अनयोः दुःखास्पृष्टं चेतनं प्रधानम् । तथापि अभावस्य भावनिरूप्यत्वात् दुःखस्पृष्टस्य प्रथममुद्देशः ।
अन्ये
चेतनाः । एके तु व्यष्टिसमष्टिभेदेन जीवान् परिकल्प्य गरुडानन्तविष्वक्सेनादीन् समष्टिजीवानपि नित्यादुःखान् आचक्षते । तन्निरासाय समस्तश इत्युक्तम् । अत्र च आगमानां प्रामाण्यम्। अत एव दुःखास्पृष्टे प्रभेदाभावात्, दुःखस्पृष्टापेक्षया एव ‘धा’ प्रत्ययः पूर्वोक्तो ज्ञातव्यः ।
स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥4॥
विमुक्ताः
दुःखात्।
दुःखसंस्थाः
वर्तमानदुःखाः । चशब्दः
दुःखसंस्थाः
इत्यतःपरं योज्यः । अत्र प्राधान्यक्रमेण उद्देशः ।
अयोग्याः
मुक्तेः ।
अयोग्याः
इत्यतः परं च शब्दो ज्ञातव्यः । अत्रापि तदेव उद्देशक्रमे निमित्तम् ।
ननु च प्राधान्यात् विमुक्तभेदः प्रथमं वक्तव्यः । सत्यम् । योग्यायोग्यभेदस्य दुःखसंस्थेषु एव भावात्, तदभिधानानन्तरं मुक्तियोग्यभेदकथनस्य सौकर्यात् क्रमोल्लङ्घनम्।
देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥5॥
पान्तीति
पाः
चक्रवर्तिनः ।
नराः
मनुष्योत्तमाः ।
तु
शब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं निराचष्टे । गन्धर्वादीनां, केषाञ्चित् एषु एव अन्तर्भावात्, केषाञ्चित् अविवक्षितत्वात् न ग्रन्थान्तरविरोधः ।
एवमिति
।‘देवर्ष्यादिभेदेन पञ्चधा’ इत्यस्यानुकर्षणार्थश्चकारः ।
तमोगाः
तमोयोग्याः । न तु प्राप्ततमसः, वक्ष्यमाणविभागविरोधात् ।
सृतिसंस्थिताः
नित्यसंसारिणः । अयोग्यताऽतिशयानुसारेणोद्देशः ।
इति द्विधा मुक्त्ययोग्या दैत्यरक्षपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिताः ॥6॥
दैत्येति
।मर्त्याधमाः इत्यतःपरम् इतिशब्दोऽध्याहार्यः । अप्रसिद्धत्वात् अस्य भेदस्य अश्रद्धेयत्वं निवारयितुम्
एव
शब्दः । प्रकार्तिता
इत्यत्र आगमसम्मतिमाचष्टे। स च अन्यत्रोदाहृतः द्रष्टव्यः ।
ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥7॥
ते च चतुर्विधा अपि।
सृतिसंस्थिताः
संसारे वर्तमानाः, न अधुनाऽपि तमःप्राप्ताः । योग्यतायाः चैतन्यस्वभावत्वेन, तमोयोग्यानाम् अयं विभागः न अनुपपन्नः ।
अत्रापि ‘अचेतनम् एव एवंविभागवत्’ इति अर्थानभ्युपगमात्, पूर्वोक्तत्वानामपि प्रमाणान्तरेण नित्यत्वादि ग्रहणं न विरुद्धम् । नित्यानित्यविभागेन
इत्यस्य नित्यानित्यत्वेन तद्विभागेन च इत्यर्थः। तथा च नित्यानित्यं, नित्यम् अनित्यं च इति अचेतनं त्रिविधमित्युक्तं भवति । केचित् सर्वं क्षणिकं मन्यमानाः नित्यं न मन्यन्ते, अपरे तु सत्कार्यवादिनः अनित्यं न अंगीकुर्वन्ति, सर्वे अपि नित्यानित्यं विरोधात् न अभ्युपगच्छन्ति । तन्निरासाय एवकारः । न प्रतिज्ञामात्रेणार्थसिद्धिः इति प्रामाणिकत्वम् उक्तविभागस्य सूचयति
मतमिति ।
तच्च लेशतो दर्शयिष्यामः ।
यद्यपि नित्यं, नित्यानित्यम्, अनित्यम् इत्युद्देशः कार्यः । प्राधान्यात् । तथापि उक्तिलाघवाय क्रमोल्लङ्घनम् ।
नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं स्मृतम् ॥8॥
अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां ‘‘नित्या वेदाः समस्ताश्च’’ इत्यादि प्रमाणसिद्धम् । अत्र
वेदा
इत्युपलक्षणम् । पञ्चाशद्वर्णानां अव्याकृताकाशस्य च तथाभावात् ।
पुराणाद्या इति
।पुराणाद्याः
पौरुषेयग्रन्थाः एका विधा ।
कालः
अपरा ।
प्रकृतिः
अन्या । ननु च त्रिधा इति प्रकारत्रैविध्यमुक्तम्, न च अत्र कश्चित् प्रकारः दर्शितः । किन्तु वस्तुनिर्देश एव कृतः । नैष दोषः । यत् न सर्वथा कूटस्थम्, नापि अनित्यमेव । तदुच्यते
नित्यानित्यमिति ।
तस्य तिस्रः विधाः सम्भवन्ति — उत्पत्तिमत्वे सति विनाशाभावः, एकदेशैः उत्पत्तिविनाशौ एकदेशिनः तदभावः, स्वरूपेण उत्पत्त्याद्यभावेऽपि अवस्थाऽऽगमापायवत्त्वम् च इति । तदेतत् विधात्रयमुक्तवस्तुत्रये अस्ति इति तस्यैव ग्रहणं कृतम्। ननु अत्र यस्य उत्पत्त्यादिकं तत् अनित्यमेव यस्य तु तत् नास्ति । तत् नित्यमेव, नित्यानित्यं क्वास्ति ? इति । मैवम् । स्यात् एतत् एवं यदि अंशांशिनोः विकारविकारिणोः वा अत्यन्तभेदः स्यात् । ‘न च एवम्’ इति अन्यत्र उपपादितम्॥
सम्यस्कृष्टं
संसृष्टम्
। अतथाभूतम्
असंसृष्टम्
। सम्यक्तायाः इयत्ताऽभावात् । त्रैविध्याद्यपि किं न स्यात् इत्यतः
मतम्
इत्युक्तम् । तद्वक्ष्यामः ।
असंसृष्टं च संसृष्टमसंसृष्टं महानहम् । बुद्धिर्मनःखानि दश मात्रा भूतानि पञ्च च ॥9॥
असंसृष्टमिति
।
संसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितम् । सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥10॥
ननु एषां चतुर्विंशतितत्वानामसंसृष्टत्त्वं नाम यदि एकदेशेन उत्पत्तिः तर्हि अनुत्पन्नस्य असत्वात् उत्पन्नमेव तत्त्वम् । तच्च संसृष्टमेव, इति न द्वैविध्यम् । न च प्रकारान्तरम् अस्ति इति । मैवम् । सूक्ष्मरूपेण नित्यानां महदादीनां प्राकृताद्यंशैः उपचयमात्रं क्रियते इति तानि असंसृष्टानि । नच एवं ब्रह्मांडं तदन्तर्गतानि इति संसृष्टानि । ‘तेषामपि मूलरूपं नित्यम्’ इति चेत् , न । साक्षान्मूलरूपस्य विवक्षितत्वात् । एवंसति महदादीनां नित्यानित्यत्वं कथं न स्यात् ? इति चेत्, स्यादेवम् । यदि सूक्ष्मरूपे महदादिव्यवहारः स्यात्, किन्तु प्रकृतिरेव सा उच्यते । केचित् महदादिस्वरूपमेव न अभ्युपगच्छन्ति । दूरेण उक्तं विशेषम् । तेषामतिबहुतराऽऽगमविरोधं दर्शयितुं
सम्प्रकीर्तितम्
इत्युक्तम् ॥ आगमाश्च अन्यत्र द्रष्टव्याः । विस्तरभिया नेह उदाह्रियन्ते॥
सृष्टिरिति
।नियमः
व्यापारेषु प्रेरणम् ।
बन्धो मोक्षः सुखं दुःखमावृत्तिर्ज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥11॥
बन्धः
प्रकृतेः।
मोक्षः
बन्धात् ।
आवृतिज्योतिषी
बाह्यतमःप्रकाशौ ।
एव
कारः
विष्णुना
इत्यनेन सम्बध्यते ।
अस्य समस्तस्य
अस्वतन्त्रस्य भवन्ति इति शेषः ।
समासः
सङ्क्षेपः ।
व्यासो
विस्तरः । तौ एव योगौ उपायौ उक्तार्थघटनायाम् ततः । इदमुक्तं भवति— उक्तधर्मेषु यत्र तत्त्वे अल्पीयांसः सम्भवन्ति तत्र तावन्तः विष्ण्वधीनाः ज्ञातव्याः । यत्र तु बहवः तत्र तावन्तः सर्वथा स्वरूपस्वभावौ अस्य तदधीनौ इति । तत्र स्थितिनियमौ सर्वस्य, सृष्टिसंहृती नित्यानित्यस्य अनित्यस्य च, अज्ञानम् भावरूपं दुःखस्पृष्टस्य, ज्ञानाभावस्तु सर्वस्य, बोधनं चेतनस्य, सुखं प्राप्ततमसो विना, दुःखम् दुःखास्पृष्टं विना इत्यादि द्रष्टव्यम् । पदार्थानां सृष्ट्यादि अन्यतः अपि प्रतीयते । अतः
एव
इति उक्तम् । सकलसत्तादेः तदधीनत्वात् तत्तद्वस्तु निमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेव अस्य ईश्वर इति ।