Jump to content

ब्रह्मसूत्रभाष्यम्/C01/S02

From Grantha
Revision as of 00:00, 1 March 2026 by BS>ImportBot (Initial import)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

द्वितीयः पादः

प्रास्ताविकम्

लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन् पादे प्राधान्येन ।’ब्रह्म ततमम्’इति सर्वगतत्वमुक्तं विष्णोः । तच्च’तस्यैतस्यासावादित्यो रसः’ इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।


सर्वगतत्वाधिकरणम्

ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ 01-32 ॥


‘स यश्चायमशरीरः प्रज्ञात्मा’इत्यादिना सर्वत्रोच्यमानो नारायण एव ।


‘तदेव ब्रह्म परमं कवीनाम्’

‘परमं यो महद्ब्रह्म’ ।

‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् ।

स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ ॥


इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ 01 ॥


ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ 02-33 ॥


‘स योऽतोऽश्रुतः’ इत्यादि ।


स हि ‘न ते विष्णो जायमानः’ इत्यादिनाऽश्रुतत्वादिगुणकः ।


‘स सविता स वायुः स इन्द्रः, सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्तः’ इत्यादि चतुर्वेदशिखायाम् ॥02॥


न चादित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्यम् ।


ॐ अनुपपत्तेस्तुन शारीरः ॐ ॥ 03-34 ॥


एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ 03 ॥


ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ 04-35 ॥


‘आत्मानां परस्मैशंसति’ इत्यादि ॥04॥


ॐ शब्दविशेषात् ॐ ॥ 05-36 ॥


‘एतमेव ब्रह्मेत्याचक्षते’ इति । न हि जीवमेव ब्रह्मेत्याचक्षते ।


‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः’ इति चेन्द्रद्युम्नशाखायाम् ॥ 05 ॥


ॐ स्मृतेश्च ॐ ॥ 06-37 ॥


‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’


‘गामाविश्य च भूतानि धारयाम्यहमोजसा’ इत्यादि ।


न चा प्रामाणिकं कल्प्यम् ॥ 06 ॥


ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥07-38 ॥


सर्वेषु भूतेष्वित्यल्पौकस्त्वाच्चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न । अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात् । सर्वगतत्वेऽप्यल्पौकस्त्वं च युज्यते व्योमवत् ।

‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’

इति स्कान्दे ॥ 07 ॥


ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ 08-39 ॥



‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः । स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति च ॥08॥


अत्तृत्वाधिकरणम्

‘जन्माद्यस्य यतः’ इत्युक्तम् । तत्रात्तृत्वं,


ॐ अत्ताचराचरग्रहणात् ॐ ॥ 09-40 ॥


न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।




ॐ प्रकरणाच्च ॐ ॥ 10-41 ॥


अप्संवत्सरसृष्ट्यादिना तत्प्रकरणाच्च ।


‘नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा । सो त्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥


शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् । तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥


तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह । थं तं कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।



गुहाधिकरणम्

सर्वात्रैकः परः उक्तः ।


ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ 11-42 ॥


गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।


‘घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम’ इत्यादिना तद्दर्शनात् ।




‘यो वेद निहितं गुहायाम्’ इत्यादिना प्रसिद्धं हिशब्देन दर्शयति ॥ 11 ॥


ॐ विशेषणाच्च ॐ ॥ 12-43 ॥


‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’ इति ।


‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥


एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’ ॥ इति पाद्मे ।


न च जीवे समन्वयोऽभिधीयते ।


‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इति भाल्लवेयश्रुतिः ।


‘आत्मा हि परमः स्वतन्त्रोऽधिगुणो ऽऽल्पशक्तिरस्वातन्त्रोऽवरः’ इति च भाल्लवेयश्रुतिः ।


‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् । एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥


‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् । तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’


इत्यदेर्नासत्यो भेदः ॥ 12 ॥


इत्यन्तराधिकरणम्

आदित्ये विष्णुरित्युक्तम् ।


ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥


चक्षुरन्तस्थो विष्णुरेव।‘त्रिपादस्यामृतं दिवि’इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।ब्रह्मशब्दाद्युपपत्तेश्च ।


‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया ।



ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥


‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ इत्यादिस्थानशक्तिः वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते ।


तस्य ह्येत्यल्लिङ्गम् ।‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’ इति चतुर्वेदशिखायाम् ।



ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥


‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति,‘विज्ञानमानन्दं ब्रह्म’ ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्यादेस्तस्यैव हि लक्षणम् ।



न च मुख्ये सत्यमुख्यं युज्यते ॥ 15 ॥


ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥


‘स एनान् ब्रह्म गमयति’ इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥


ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥


जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात् । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥


इत्यन्तर्याम्यधिकरणम्

‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’ इत्याद्यन्तर्याम्युच्यते ।


ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ 18-49 ॥


‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तरः’, इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी ।


स हि ‘न ते विष्णो चायमानो न जातः’ ‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतामन्तरपुरुष’ इत्यादिनाऽविदितोऽन्तरश्च ॥ 18 ॥


ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ॥ 19-50 ॥


त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि ॥19॥


ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ 20-51 ॥


‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा


शरीरं य आत्मानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’


‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं’


इत्युभयेऽपि हि शाखिनो भेदेनैनं जीवमधीयते ।


‘शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।

रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत्’ ॥

इति वचनान्न शरीरत्वविरोधः ॥20॥


अदृश्यत्वाधिकरणम्

अदृश्यत्वादिगुणा विष्णोरुक्ताः । तत्र –


ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ 21-52 ॥


पृथिव्यादि दृष्टान्तमुक्त्वा‘अक्षरात् सम्भवतीह विश्वम्’ इत्यतः परं तत्परतः पराभिधानात्,‘कूटस्थोऽक्षर उच्यते’ इति स्मृतेश्च प्रकृतेः प्राप्तिः ।


ब्रह्मशब्दात् तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य ।


‘तमेवं विद्वानमृत इह भवति’ ।


‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’


‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च’। तत्र यो वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’इत्यादिना तद्धर्मत्वेनावगतपरविद्या¬विषयत्वोक्तेर्विष्णुरेवादृश्यत्वादि गुणकः ॥ 21 ॥


ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ 22-53 ॥


‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप’ इति विशेषणान्न प्रकृतिः ।’ तस्मातेतत्ब्रह्म नाम रूपमन्नं च जायते’ इति भेदव्यपदेशान्न विरिञ्चः ।



इति स्कान्दे त्र्यक्षराभिधानात्’ अक्षरात् परतः परः’ इत्यपि विशेषणमेव ।


‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ 22 ॥


ॐ रूपोपन्यासाच्च ॐ ॥ 23 ॥


‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति


“एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः” इति ।


तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्यचीक्लृपत् । विमिश्राणि व्यमिश्रयत् । अत एतादृगेतद्रूपमिति तस्यैव हि रूपाण्यभिधीयन्ते ॥ 32 ॥


अदृश्यत्वाधिकरणम्

अदृश्यत्वादिगुणेषु सर्वगतत्वं


ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ 24-55॥


अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्म शब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ 24 ॥


ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥25-56॥


‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’


इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । इतिशब्दः समाख्याप्रदर्शकः ॥ 25 ॥


ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ ॥ 26-57 ॥


‘अयमग्निर्वैश्वानरः’‘वैश्वानरमृत आजातमग्निम्’ इत्यादिशब्दः ।


‘वैश्वानरे तद्दुतं भवति’ ‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ इत्याद्यग्निलिङ्गमादिशब्दोक्तम्।


‘येनेदमन्नं पच्यते’’तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ इत्यादिना पाचकत्वेनान्तः प्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न ।


‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीतेति । सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप इति’।


‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषुवेदेषु कामचारो भवति’


इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि ॥


अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः । अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’ ॥


इत्यादिना ‘को न आत्मा किं ब्रह्म’ इत्यारम्भाच्च अन्येषामसम्भवाद्विष्णुरेव वैश्वानरः ।


‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’ इत्यादिना यः पुरुषाख्यो विष्णुरभहितस्तद्विधमेवात्र ‘मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’


इत्यादिनैनं वैश्वानरमधीयते । चशब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति ।तथा च ब्राह्मे –


‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् । तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’ इति ॥


चतुर्वेदशिखायां च –



‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् । न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ इत्यादि ॥



ॐ अत एव न देवता भूतं च ॐ ॥ 27-58॥


अग्निवैश्वानरादिशब्दस्तेजसि भूते अग्निदेवतायां च प्रसिद्धोऽप्यतः पूर्वोक्तहेतुत एवात्र न सा तच्चाभिधीयते ॥ 27 ॥


ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ 28-59 ॥


नाग्न्यादयः शब्दा अग्न्यादिवाचकास्तथापि साक्षादेवानन्ययोगेन ब्रह्मवाचकैश्यब्दैः व्यवहारार्थमनभिज्ञानाच्चान्यत्र व्यवहारन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति ।


‘व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् । अन्ये व्ववहरन्त्येतान्यूरीकृत्य गृहादिवत्’ ॥


इति स्कान्दवचनान्न मतानां परस्परविरोधः ॥ 28 ॥


ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ 29-60 ॥


तत्र तत्र प्रसिद्धावप्यग्न्यादिषु ब्रह्मणोऽभिव्यक्तेरग्न्यादिसूक्तनियम इत्याश्मरथ्यः ॥ 29 ॥


ॐ अनुस्मृतेर्बादरिः ॐ ॥ 30-61 ॥


तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात् तन्नियमः इति बादरिः ॥ 30 ॥


ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ॥ 31-62 ॥


साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियममग्न्यादि सम्प्राप्त्या मन्यते।


‘तं यथा यथोपासते तदेव भवति’ इति दर्शयति ॥ 31 ॥


ॐ आमनन्ति चैनमस्मिन् ॐ ॥ 32-63 ॥


न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह –


एनं विष्णुमस्मिन्नग्न्यादावामनन्ति । ‘योऽग्नौ तिष्ठन्’‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः’ इत्यादिना ॥ 32 ॥