Pramanakshana/Vyakhya/PramaanalakshanaTika
Appearance
प्रमाणलक्षणटीका-न्यायकल्पलता
प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् । पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥
प्रमाणलक्षणटीका-न्यायकल्पलता
प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् ।पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ॥
नारायणस्यैव नमस्कारे को हेतुरित्यत उक्तम् अशेषगुरुमिति ॥ सर्वज्ञं गुरुमिति पाठे सार्वज्ञ्यं गुरूत्वस्योपपादकम् । किं च नारायणस्यैव अतिसमर्थत्वेनेष्ट प्रदानसम्भवात् तन्नतिरिति भावेनोक्तम् ईशेशमिति ॥ अपि च रागादिदोषरहिता हि लोके वन्द्या भवन्ति । नारायणश्चाशेषदोषदूर इति सूचयितुं अनामयमिति ॥ आमयपदं दोषान्तरोपलक्षणम् । प्रवक्ष्यामीति उद्देशविभागपरीक्षाद्युपयोगिसङ्ग्रहायोपसर्गः । न हि तद्विना प्रकृष्टा लक्षणोक्तिः स्यात् ।प्रमाणलक्षणटीका-न्यायकल्पलता
प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । यथार्थं यथावस्थितार्थविषयीकारि । अर्थविषयीकारित्वमात्रस्य संशयविपर्ययसाधारण्याद्विशेषणोपादानम् । अर्थविषयीकारित्वेनैव प्रमेयादिव्युदासः । अर्यत इत्यर्थो ज्ञेयमुच्यते । अतो न गम्यविषयीकारिगतावतिव्याप्तिः ।
प्रमाणलक्षणटीका-न्यायकल्पलता
तिस्त्रो विधा उद्दिशति । न्यूनाधिकसङ्ख््यान्यतमान्तर्भावाभावज्ञापनार्थोऽयं विभागः
प्रमाणलक्षणटीका-न्यायकल्पलता
उपपत्तिदोषो द्विविधः विरोधोऽसङ्गतिश्चेति । अन्वययोग्यताविरहो विरोधः । आकाङ्क्षाभावोऽसङ्गतिः । इमौ चार्थवचनयोरपि सम्भवतः । अर्थासाधुत्वे वचनस्यापि तथात्वादिति । वचनस्यैवासाधुत्वापादको वाचनिकदोषः । तं विभज्य दर्शयति
प्रमाणलक्षणटीका-न्यायकल्पलता
अनुमानस्य साधारणोऽसाधारणश्च सम्भावित इति शेषः ।
प्रमाणलक्षणटीका-न्यायकल्पलता
‘विवादपदं मिथ्या दृश्यत्वात् यत् दृश्यं तत् मिथ्या यथा शुक्तिरजतं तथा चेदं दृश्यं तस्मान्मिथ्या’ इत्येतदनुमानं प्रतिज्ञाविरोधादीनामुदाहरणं ज्ञातव्यमिति ॥
प्रमाणलक्षणटीका-न्यायकल्पलता
सन् घटः इत्यादिप्रत्यक्षेण, विश्वं सत्यमित्याद्यागमेन, विवादपदं सत्यं अर्थक्रियाकारित्वात् इत्याद्यनुमानेन च जगतः सत्यत्वावधारणात् जगन्मिथ्या इति प्रतिज्ञा प्रबलप्रमाणविरुद्धा भवति ॥
प्रमाणलक्षणटीका-न्यायकल्पलता
अप्रसिद्धसाध्यस्य परिशेषादेः साधकत्वे अनुमानस्यैव तदुक्तं स्यात् । परिशेषादिरनुमानमित्यनतिभिन्नार्थत्वात् ।
प्रमाणलक्षणटीका-न्यायकल्पलता
नन्विदं शान्तिके कर्मणि वेतालोत्थानमिव । यावता स्मृत्यादिप्रामाण्यसिद्ध्यर्थं उदाहृतश्रुतौ ऐतिह्यं चतुर्थ प्रमाणमापतितमित्यत आह
प्रमाणलक्षणटीका-न्यायकल्पलता
लक्षणादिनिरूपणेन संशोधितैरेव खलु वेदादिभिर्ब्रह्मज्ञानं भवति । तदिदं न वाद्यन्तरोक्तवदेवेति मन्तव्यम् । परमाप्ततमेन सुरवरावतारेणोक्तत्वादिति भावेनोक्तम् आनन्दतीर्थमुनिनेति ॥ यस्तु स्वप्रभावानभिज्ञः तं प्रत्याह ब्रह्मतर्कोक्तिमार्गत इति ॥ यस्तु अनधिगतब्रह्मतर्कोक्तिमार्गोऽपि तदनुजिवृक्षया आह - इत्युक्तमिति ॥ युक्त्यादियुक्तता प्राक् प्रदर्शितेति इतिशब्देन स्मर्यते । यद्येवं कथं तर्हि स्वल्पेनैव ग्रन्थेन समाप्तं ? इत्यत उक्तम् ॥ सङ्क्षेपादिति ॥ श्रोतृबुद्धिमनुसृत्य शब्दसङ्क्षेपेणोक्तमिति ।
अमरा भ्रमरायन्ते कमला वरटायते । यत्पादाम्भोरुहद्वन्द्वे वन्दे तं पुरुषोत्तमम् ॥
प्रमाणलक्षणटीका-न्यायकल्पलता
अमरा भ्रमरायन्ते कमला वरटायते ।यत्पादाम्भोरुहद्वन्द्वे वन्दे तं पुरुषोत्तमम् ॥
नारायणस्यैव प्रणामे को हेतुः ? इत्यतो यत् उक्तं प्रमाणादि तत् प्रेरकत्वेन नारायणस्यैव ? मुख्यतः तदभिज्ञत्वात् इति भावेनोक्तम् अशेषेति ॥