Anuvyakhyana/Vyakhya/Nyayasudha
Appearance
न्यायसुधा
अध्याय 1
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥
न्यायसुधा
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे ।जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रं असाधुनिबन्धान्धतमसाऽवकुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिना अवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति- नारायणमिति ।न्यायसुधा
नारायणप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिद्ध्यङ्गतया कार्यारम्भे अवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते तमेवेति ।
न्यायसुधा
यदुक्तं नारायणोऽस्य शास्त्रस्य प्रभव इति । तदयुक्तम् । व्यासोपज्ञताप्रसिदि्धविरोधात् । न च नारायण एव व्यासः । जननविरोधात् । कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासंभवाच्च ॥ यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिदि्धरिति । तदप्ययुक्तम् । परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य च अर्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् । किं चेय• परविद्याख्यैतद्विषया इत्यत्रापि न नियामकमस्ती त्यत आह प्रादुर्भूत इति ।
न्यायसुधा
एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्य अधुना अनुमानतोऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति ।
न्यायसुधा
ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद् भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमि ति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरि ति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ॥ तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् ॥ सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वासाध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्य आप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह वक्तृश्रोतृप्रसक्तीनामिति ।
न्यायसुधा
तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमम्, नान्यदेतादृशमस्तीत्युपसंहरति अत इति ।
न्यायसुधा
नन्वेतदनुपपन्नम् । तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् । तथात्वे च प्रथमसूत्रं न्यूनमापद्येत । अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् । तत्प्रतिपादनस्य चावश्यकत्वात् । अन्यथा अधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यात् इत्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति ।
ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् ।स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥
न्यायसुधा
तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ॐ अथातो ब्रह्मजिज्ञासेति ।
न्यायसुधा
सु०- प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।
न्यायसुधा
५सु०- ननु जन्मादिकं वा लक्षणत्वेनात्राभिमतं तत्कारणत्वं वा । नाद्यः तस्य प्रपञ्चधर्मत्वात् । न द्वितीयः ब्रह्मवत्तदीयजगज्जन्मादिकारणत्वस्याप्यप्रसिद्धत्वात् । न च अनुमानात्तत्सिदि्धः उत्तरसूत्रविरोधात् । अतः कथमेतदपि लक्षणम् । इत्यत आह सृष्टिरिति ।
न्यायसुधा
९सु०- ननु कथं जगत्सृष्ट्यादिकारणत्वं हरेरेव स्यात्, यावता हिरण्यगर्भः समवर्तताग्रे , एको रुद्रो न द्वितीयाय तस्थे , इमाल-लोकानीशत ईशनीभिः , ज्ञात्वा शिवं शान्तिमत्यन्तमेति इत्यादिश्रुतिषु हिरण्यगर्भादीनां तत्प्रतीयते; इत्यत आह सृष्टिरिति । आसु श्रुतिषु परेणोदाहृतासु हिरण्यगर्भ इत्याद्यास्वपि विश्वस्य सृष्ट्यादयो हरेरेवोक्ता न तु ब्रह्मरुद्रादिभ्य इति न लक्षणस्यातिव्याप्तिरिति ।
न्यायसुधा
१०सु०- ननु यथा हिरण्यगर्भादिशब्दान् विष्णुविषयान् व्याख्याय हिरण्यगर्भ इत्यादिश्रुतयो विष्णौ योज्यन्ते तथा विष्ण्वादिशब्दान् हिरण्यगर्भादौ व्याख्याय भाष्योदाहृताः श्रुतयोऽन्यविषयतया कुतो न योज्यन्त इत्यत आह अत इति ।
न्यायसुधा
सु०- युक्त्यन्तरमाह प्रीत्येति ।
न्यायसुधा
ननु प्रयोजनमनुसृत्य वेदस्य प्रतीतविषयपरित्यागेनाप्रतीतविषयान्तराङ्गीकारोऽयमयुक्तः । तथात्वे पुरुषार्थविरोधिनो दुर्गन्धादिग्राहकस्य घ्राणादेस्तदविषयत्वप्रसङ्गात् । सुगन्धादिविषयत्वप्रसङ्गाच्च । इत्यत आह तद्विरोध इति ।
न्यायसुधा
१६सु०- ननु शैवपुराणादीन्यपि श्रुतिमूलानि तत्कथं श्रुतिविरोधेनाप्रमाणानीत्यत
न्यायसुधा
२०सु०- अपि च जगत्कारणेनाज्ञानादिदोषरहितेन भवितव्यम्, दोषिणोऽस्मदादिवज्जगत्कारणत्वानुपपत्तेः । निर्दोषत्वं च भगवतो हरेरेव नान्येषाम् । अतः स एव जगज्जन्मादिकर्ता न रुद्रादिः इत्याह अदोषेति ।
न्यायसुधा
२२सु०- एवं स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये मायावादिनां मते लक्षणसूत्रारम्भ एवानुपपन्न इति वक्तुं यत्तै(परै)रभिहितं जगज्जन्मादिकारणत्वं न लक्ष्यब्रह्मणः स्वरूपान्तर्गतं(त) लक्षणं किन्तु तटस्थमेव । त्रैविध्यमत्र सम्भवति मायाविशिष्टं ब्रह्म कारणमिति वा, मायाशक्तिमत्कारणमिति वा, जगत्कारणं तु मायैव तदाश्रयतया ब्रह्म कारणमिति वेति । सर्वथाऽपि जगत्कारणत्वं बाह्यमेव, न साक्षात्स्वरूपान्तर्गतम् (एव) । इति; तदेतदनुपपन्नम् इति भावेनोक्तं स्वलक्षणम् इति । स्वरूपान्तर्गतमेवेदं ब्रह्मणो जगज्जन्मादिकारणत्वं न मायावाद्युक्तरीत्या तटस्थमित्यर्थः ।
न्यायसुधा
२५सु०- यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणोऽभिधीयते, ततो
न्यायसुधा
सु०- किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते; किन्तु सोऽपि लक्ष्यान्तर्गतः । तथा सति लक्षणस्य जीवेऽतिव्याप्तिमाशङ्क्येतरव्यपदेशादि्धताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् । न हि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्क्यते । कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशयवानाह हिताक्रियेति ।
न्यायसुधा
सु०- स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः । यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते । न चैवं किन्तु तटस्थमेव । न हि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणदि्ध ।।
न्यायसुधा
३४सु०- ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथा हि । तन्निर्गुणं किं सगुणादीश्वरादि्भन्नमुताभिन्नम् (वा) । द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः । आद्ये दोषमाह सदैवेति।
न्यायसुधा
सु०- एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल-लुण्ठमाह निर्गुणत्वमिति ।
न्यायसुधा
सु०- एवमनूद्य निराकर्तुमारभते इति पृष्ट इति।
न्यायसुधा
ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशेषानङ्गीकारेऽनुपपत्तिरेवेति ।
न्यायसुधा
सु०- नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) । यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम्, तयोश्च भेदाभेदान्तराभावेऽपि स्वनिर्वाहकत्वाद्व्यवहारोपपत्तिरि ति चेन्न, विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति ।
न्यायसुधा
सु०- एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्येऽपि तामतिदिशति सत्येति ।
न्यायसुधा
सु०- स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति ।
न्यायसुधा
सु०- नन्वङ्गीकृतेऽपि विशेषे नानुपपत्तिशान्तिः । सोऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादिदोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति ।
न्यायसुधा
सु०- यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषोऽङ्गीकारितस्तदिदानीमाह अत इति ।
न्यायसुधा
सु०- तत्र पूर्वपक्षमारचयति शैवाद्येति ।
न्यायसुधा
सु०- अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् । तथाऽपि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम्, अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते, तथाऽपि न तात्पर्ये प्रमाणमस्ति, यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण
न्यायसुधा
सु०- ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम्, तदेवात्र मण्डूकप्लुत्याऽनुवर्तिष्यते, किं पुनरत्र तद् ग्रहणेन ।
न्यायसुधा
ब्र०सू०- ।। ॐ आनन्दमयोऽभ्यासात् ॐ ।।
न्यायसुधा
८६सु०- स्यादेतत् । यदि आनन्दमयोऽभ्यासादि ति वदतः सूत्रकारस्यैतावानर्थोऽभिमतो भवेत्तर्हि तत एव गतार्थत्वात् अन्तस्तद्धर्मोपदेशादि त्याद्यधिकरणानामनुत्थानमेव स्यात् । पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः ।
न्यायसुधा
स्वयं सूत्रकारः अन्तस्तद्धर्मोपदेशादि ति सूत्रेणान्तःप्रविष्टो विष्णुरेव, समुद्रेऽन्तः कवयः , यस्याण्डकोशशुष्ममाहुः , ब्रह्मा तपसाऽन्वविन्ददि ति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतपोलभ्यत्वादिधर्मोपदेशात्; तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् ।
न्यायसुधा
सु०- एवं अधिदैवविषयशब्दसमन्वयमभिधाय अधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः आकाशस्तल्लिङ्गादिति ।
न्यायसुधा
९३सु०- तत्राभ्यधिकां शङ्कां दर्शयति चेष्टा हीति ।
न्यायसुधा
सु०- नन्वत्राकाशः परमात्मा तलि-लङ्गादित्येतावदुच्यते, न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति ।
न्यायसुधा
सु०- तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् ।।
न्यायसुधा
सु०- अतिदेशार्थमाह लिङ्गमिति।
न्यायसुधा
सु०- अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायत्र्याः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम् छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनमिति ।
न्यायसुधा
सु०- एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति ।
न्यायसुधा
सु०- नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् । ता (वा) एताः शीर्षंच्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न, उक्तोत्तरत्वात् । अभ्यधिकाशङ्कासद्भावान्नेति चेन्न, अदर्शनात् । सद्भावे वा तदनन्तरमेव आरम्भणीयत्वात् इत्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति ।
न्यायसुधा
सु०- पादार्थमुपसंहरति तस्मादिति।
न्यायसुधा
सु०- सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृत्तेन भगवताऽऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात्, तां निराकर्तुमाह वासुदेवादीति ।
न्यायसुधा
अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति ।
न्यायसुधा
एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति ।
न्यायसुधा
सु०- न चैवं सूत्रार्थलेशव्याख्यानपरोऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह ग्रन्थ इति ।
न्यायसुधा
द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति ।
न्यायसुधा
यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्तेऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाऽभिन्नमिति लक्षणसूत्रे प्रतिपादितम् ।
न्यायसुधा
ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किं वा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् । कुतः । द्विवचनात् । न चानन्दमयाधिकरणन्यायेन परिहारः, बाधकाभावात्, कर्मफलभोगानुपपत्तेश्च । जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितत्व
न्यायसुधा
अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम्, तदयुक्तम्, सूत्रे भावस्यैव प्रतिज्ञानात्, क्रियाया अनुक्तेरित्यतोऽन्तरशब्दमुभयार्थतया व्याख्यातिअन्तरिति ।
न्यायसुधा
नन्वेतदनन्तरातीतेनैव गतार्थम् । अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् । एतदेव अन्तर उपपत्तेरित्युक्तम् । न च तत्र नियामकत्वं न विवक्षितम्, तथा सत्यनवस्थितेरसंभवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह रमणमिति।
न्यायसुधा
अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते, तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतम्; तदभ्यधिकाशङ्कया आक्षिपति गुणेति।
न्यायसुधा
भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति।
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।श्रुतिर्वक्त्यखिलेशत्वात् .............॥
न्यायसुधा
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।
...............भूमा विष्णुः सुखाधिकः ॥2॥
न्यायसुधा
इदं कश्चिद्व्याख्याति । भूमा परमात्मा । कुतः । संप्रसीदत्यत्रेति संप्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति ।
न्यायसुधा
एतद्वै तदक्षरं गार्गीत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम्-
न्यायसुधा
अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति, परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम्, तदुभयसिद्ध््यर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति-लिङ्गमिति।
न्यायसुधा
एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकारे(र इति) इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम्ॐ भावं तु बादरायणोऽस्ति हीति।
न्यायसुधा
सु अन्यत्रैवप्रसिशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात् परिशेषाद्वा सिम् ।
न्यायसुधा
एतदेव विवृणोति स्वातन्त्र्यमिति ।
न्यायसुधा
अतो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ॥
न्यायसुधा
एवं योगवृत्त्या पदसमन्वयेऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति ।
न्यायसुधा
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ॥
न्यायसुधा
सु ननु नैतेऽपि यौगिकाः किं नाम रूढा एव । कृत्ततिसमासकरणं तु व्युत्पत्तिमात्रा(र्थे)र्थम् । यथोक्तम्, वृक्षादिवदमी रूढा इ(ति)त्यादि, मैवम्, शब्दार्थविभागस्यावापोाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति
न्यायसुधा
यदुक्तम् उभयं दृश्यते विष्णौ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति ।
न्यायसुधा
एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां
न्यायसुधा
अत्र दूषणमाह अजामिति ।
न्यायसुधा
अस्तु परस्यैवम्, भवतां तु कथं न दोष इत्यत आह अस्माकमिति ।
न्यायसुधा
विशेषवदित्यस्य विवरणम् पञ्चभिरिति ।
न्यायसुधा
कुतो नेति चेत् । अत्र पित्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्त, पित्रादिचेतनः पुत्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा; पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति । तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति ।
न्यायसुधा
ङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
न्यायसुधा
सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।
न्यायसुधा
अपव्याख्यानान्तरं दूषयितुमनुवदति यच्चेति ।
न्यायसुधा
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ॥
न्यायसुधा
विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः ।
न्यायसुधा
सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
न्यायसुधा
द्वितीये त्वाह तत्प्रामाण्यमिति ।
न्यायसुधा
तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमतेऽर्थेऽनुपपत्तिमाह
न्यायसुधा
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ।
अध्याय 2
न्यायसुधा
॥ अथ द्वितीयाध्यायः ॥
न्यायसुधा
६सु०- युक्तिविरोधपरिहारलक्षणेऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्योऽसङ्गतत्वात्, कर्तव्यतायां वा प्राथम्यं कुतः; इत्यत आह तस्या इति ।
न्यायसुधा
९सु०- एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तः सङ्क्षेपेणाह आप्ततेत्यादिना ।
न्यायसुधा
किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्टमेव, वासुदेवार्चनादिपरतया सावकाशताऽपि तेन सम्भाव्येत, साम्यापादनमात्रेऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वात् इत्यतो निर्दलं पूर्वपक्षं तावदुज्जीवयतिआप्तैरिति ।
न्यायसुधा
१४सु०- एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाह इति चेदिति ।
न्यायसुधा
२८सु०- ननु यथाऽधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलविसंवादेन पाशुपतादीनामप्रामाण्यम्, किन्नाम परस्परविसंवादेनापीत्याह अधिकारमिति ।
न्यायसुधा
२९सु०- परिहृतः स्मृतिविरोधः । सम्प्रति युक्तिविरोधः परिह्रियते । तथा हि । श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् । तत्र श्रुतेरेव प्रामाण्यं तावद् दुर्लभम् ।
न्यायसुधा
३३सु०- यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोति पिपीलिकेति ।
न्यायसुधा
॥ अथ असदधिकरणम् ॥
न्यायसुधा
५८सु०- अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया
न्यायसुधा
६४सु०- प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्तेर्थे विरोधो निरस्तः । बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।
न्यायसुधा
१०६सु०- अतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयति अनंशस्यापीति ।
न्यायसुधा
नन्वेतत्सर्वं जीवसामर्थ्यादिनाऽशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आह तस्य त्विति ।
न्यायसुधा
१२२सु०- ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद् दूषणमुद्भाव्यत इति । मैवम्, बाधादेरुद्भावनादि त्याशयवान् द्वितीयसूत्रस्य तात्पर्यमाहसदेति ।
न्यायसुधा
१४१सु०- प्राणिनां विविधान्देहेन्द्रिय•दि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा । आद्ये तस्य स्वातन्त्र्यप्रच्युतिः । द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात्, कांश्चिद् दुःखयन्निर्घृणः स्यात् । इत्युभयथा न तस्य सर्वकर्तृत्वमि त्येव पूर्वपक्षोऽत्राधिकरणे निरा
न्यायसुधा
१४२सु०- सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टाः, तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूर्णगुणत्वं दोषित्वं च स्यादि ति पूर्वपक्षोऽत्राधिकरणे निरस्यते । तदिदमस्पष्टं भाष्ये, चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात्, युक्तेरव्युत्पादनात् । ततः
न्यायसुधा
॥ रचनानुपपत्त्यधिकरणम् ॥
न्यायसुधा
६सु०- ननु च श्रुतयस्तावदपौरुषेयतयाऽनाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च । तत्कथं तत्समन्वयसिद्धेऽर्थेऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात्, अतिप्रसङ्गात् । नन्वत एवोक्तं मन्द इति ; मैवम्, प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रेऽनधिकारात् इत्यतः अभियोगतो दर्शनानां प्रवृत्तत्वादि त्युक्तशङ्काकारणां विवृणोति अनादीति ।
न्यायसुधा
८सु०- नन्वेतदशक्यम्, तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकयतर्कादेर्निरस्तत्वात्; इत्यत आह तर्कैरिति ।
न्यायसुधा
१०सु०- यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वात् व्यर्थेयं निराकृतिरित्यत आह तथापीति ।
न्यायसुधा
तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयति चेतनेति ।
न्यायसुधा
११५सु०- तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टे सन्निधानादिति ।
न्यायसुधा
१२१ सु०- प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतम् अत्र निराक्रियते ।
न्यायसुधा
॥ अथ वैशेषिकाधिकरणम् ॥
न्यायसुधा
॥ अथ समुदायाधिकरणम् ॥
न्यायसुधा
॥ अथ असदधिकरणम् ॥
न्यायसुधा
॥ अथ अनुपलब्ध्यधिकरणम् ॥
न्यायसुधा
॥ अथ नैकस्मिन्नधिकरणम् ॥
न्यायसुधा
॥ अथ पत्युरधिकरणम् ॥
न्यायसुधा
॥ अथ उत्पत्त्य(शक्त्य)धिकरणम् ॥
न्यायसुधा
॥ अथ वियदधिकरणम् ॥
न्यायसुधा
४सु०-
न्यायसुधा
ब्र०सू०- ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥
न्यायसुधा
ब्र०सू०-ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥
न्यायसुधा
१९सु०- केचिदिदं सूत्रमन्यथा व्याचक्षते प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता, इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते, सतो गुणादेरसम्भवो नोपपद्यते प्रतिज्ञाहान्यादिनाऽनुपपत्तेरि ति ।
न्यायसुधा
ब्र०सू०-ॐ पृथगुपदेशात् ॐ ॥
न्यायसुधा
ब्र०सू०- ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥
न्यायसुधा
द्वितीयाध्यायस्य चतुर्थः पादः
अध्याय 3
न्यायसुधा
अथ तृतीयाध्यायः
न्यायसुधा
अथ तृतीयाध्यायस्य द्वितीयः पादः
न्यायसुधा
२सु०- योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वप्नाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमा भगवतोऽत्राधिकरणे निर्णीयते । तथा हि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत् स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमेऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । न हि विद्यमाना अपि उपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते च उपरतेष्विति सम्भवति । न चान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मध्यमपरिमाणाश्चैते दृश्यन्ते । न च तथाविधमनादिनित्यं किमपि दृष्टम् ।
न्यायसुधा
।। अथ पराभिध्यानाधिकरणम् ।।
न्यायसुधा
।। अथ सुषुप्तिबोधमोहाधिकरणानि ।।
न्यायसुधा
।। अथ कर्मानुस्मृत्यधिकरणम् ।।
न्यायसुधा
।। अथ स्थान(तोऽप्य)भेदाधिकरणम् ।।
न्यायसुधा
।। अथ उपमाधिकरणम् ।।
न्यायसुधा
।। अथ अरूपाधिकरणम् ।।
न्यायसुधा
।। अथ वृदि्धह्रासाधिकरणम् ।।
न्यायसुधा
।। अथ स्थानविशेषाधिकरणम् ।।
न्यायसुधा
।। अथ पालकत्वाधिकरणम् ।।
न्यायसुधा
।। अथ अव्यक्ताधिकरणम् ।।
न्यायसुधा
।। अथ उभयव्यपदेशाधिकरणम् ।।
न्यायसुधा
।। अथ परानन्दा(परमता)धिकरणम् ।।
न्यायसुधा
।। फलदानाधिकरणम् ।।
न्यायसुधा
अथ तृतीयाध्यायस्य तृतीयः पादः
न्यायसुधा
।। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।।
न्यायसुधा
।। अथ उपसंहाराधिकरणम् ।।
न्यायसुधा
।। अथ अनुबन्धाद्यधिकरणम् ।।
न्यायसुधा
।। अथ यावदधिकाराधिकरणम् ।।
न्यायसुधा
।। अथ इयदामननाधिकरणम् ।।
न्यायसुधा
।। अथ दर्शनभेदाधिकरणम् ।।
न्यायसुधा
।। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।।
न्यायसुधा
।। अथ पूर्वविकल्पाधिकरणम् ।।
न्यायसुधा
।। अथ ताद्विद्याधिकरणम् ।।
न्यायसुधा
।। अथ पुरुषार्थाधिकरणम् ।।
न्यायसुधा
।। अथ कामचाराधिकरणम् ।।
न्यायसुधा
।। अथ उभयलिङ्ग-आधिकारिकाधिकरणे ।।
न्यायसुधा
।। अथ फलश्रुत्यधिकरणम् ।।
न्यायसुधा
।। अथ अनाविष्काराधिकरणम् ।।
न्यायसुधा
।। ऐहिकाधिकरणमुक्तिफलाधिकरणे ।।
अध्याय 1
न्यायसुधा
।। अथ विद्याधिकरणम् ।।
अध्याय 4
न्यायसुधा
अथ चतुर्थाध्यायः
न्यायसुधा
।। अथ आत्मोपगमाधिकरणम् ।।
न्यायसुधा
।। अथ प्रतीकाधिकरणम् ।।
न्यायसुधा
।। अथ ब्रह्मदृष्ट्यधिकरणम् ।।
न्यायसुधा
।। अथ तदधिगमाधिकरणम् ।।
न्यायसुधा
अथ चतुर्थाध्यायस्य द्वितीयः पादः
न्यायसुधा
।। अथ अनेकलयाधिकरणम् ।।
न्यायसुधा
।। अथ परा(लया)धिकरणम् ।।
न्यायसुधा
अथ चतुर्थाध्यायस्य तृतीयः पादः
न्यायसुधा
अथ चतुर्थाध्यायस्य चतुर्थः पादः