Jump to content

Padyamala/Vyakhya/Bhavadipika

From Grantha
Revision as of 11:10, 15 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

भावदीपिका

अध्याय 1

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे। सत्याशेषजगज्जन्मपूर्वकर्त्र मुरद्विषे ।। 1 ।।

भावदीपिका
अमन्दान्दसन्दोदेहाहायेन्दीवरत्विषे।इन्दिरास्याब्जपीयूषजुषे कंसद्विषे नमः ।। 1 ।।
अथाऽतो ब्रह्मजिज्ञासेति भगवता सूत्रकृता जिज्ञासाहेतुभूतस्य गुणपूर्णत्वस्य सम्भावकतया जन्माद्यस्य यत इति द्वितीयसूत्रेण जगज्जन्मादिकर्तृत्वं लक्षणमभिहितम्। तच्च जगत्सत्यतामन्तरेण वास्तवं न भवति। सा च न परोदीरितजगन्मिथ्यात्वप्रमाणानामाभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभमाणे भगवाञ्जयतीर्थाचार्य-वर्योऽविगीत शिष्टाचारपरम्पराप्राप्तं प्रारिप्सितपरिमाप्त्यादि प्रयोजनकं सूत्रद्वयोक्तगुणविशिष्टभगवन्नतिरूपं मङ्गलमादावाचरति।। नम इति। मुरद्विषे विष्णवे नम इत्यन्वयः। नमः स्वस्ति स्वाहेत्यादिना चतुर्थी। अगणितैः केनाप्यसङ्ख्यातैः कल्यामगुणैर्ज्ञानानन्दबलैश्वर्यादिभिः पूर्णायेत्यनेन विष्णुवाचकब्रह्मशब्दार्थः कथितः। पूर्णपदेन च प्रत्येकं गुणानां निरवधिकत्वमाह। सत्त्वादीनां श्रुत्यादौ गुणत्वेन प्रसिद्धेर्दुःखद्वेषादीनां मतान्तरे गुणत्वेन परिगणनाच्च तद्व्यदासाय कल्याणेति विशेषणम्। सत्यस्य परमार्थसतोऽशेषजगतो जन्मैव पूर्वं येषां स्थित्यादिनां तेषां कर्त्र इत्यर्थः। ननु जगतो मिथ्यात्वात्कथं तस्य जन्मादीत्यत उक्तं। सत्येति।। तच्च साधयिष्यत इति भावः। एतेनास्य ग्रन्थस्य सूत्रद्वयोक्तार्थसमर्थनार्थत्वेन तदेकदेशत्वात्तद्विषयादिनैव प्रेक्षावत्प्रवृत्त्यङ्गं विषयादिमत्त्वं सिद्धमिति सूचितं भवति। ननु जगज्जन्मपूर्वकर्त्र इत्यत्र कथं जन्मपूर्वाणां कर्तेति षष्ठीसमासः। कर्तृशब्दस्य तृजन्तत्वे तृजकाभ्यां कर्तरीति षष्ठीसमासनिषेधात्। तृन्नन्तत्वे च, न लोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठ्या एव निषेधादिति चेत्। इत्थम्। तृजन्तत्वे याजकादित्वेन वा शेषषष्ठीत्वेन वा षष्ठीसमासः। तृन्नन्तत्वे च श्रितादिषु गमिगम्यादीनामुपसङ्ख्यानमित्युक्तेर्द्वितीयातत्पुरुषो बोध्यः।

मूलम्--ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी। विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजतवदित्यनुमानविरोधादिति। मैवम्। मिथ्यात्वानिरुक्तेः।

भावदीपिका
-सत्याशेषजगदित्यत्रोक्तं जगत्सत्यत्वमसहमानो विष्णोर्विश्वकर्तृत्वं मायिकमति मन्वानो मायावादी प्रत्यवतिष्ठते।। नन्विति ।। कथमित्याक्षेपो न कथमपीत्यर्थः। अङ्गीकाराधिकारिणी अङ्गीकाराधिकारवती। अभ्युपगमयोग्येत्यर्थः। कुत इत्याकाङ्क्षायां श्रुत्यादौ स्पष्टं मिथ्यात्वप्रतिपादनादानन्दबोधोक्तानुमानविरोधं तावदाह।। विमतमिति। परिच्छिन्नत्वादित्यनन्तरं वाशब्दो ध्येयः। तेन नाधिक्यशङ्का कार्या। यद्यपीदमनुमानं स्वग्रन्थे पञ्चावयवात्मकतया प्रयुक्तं तथाऽप्यवयवत्रयेणैवानुमित्युपपत्ताववयवान्तरं व्यर्थमिति ज्ञापयितुं त्र्यवयवात्मकत्वेनोक्तम्। यद्वा भट्टमतानुसारिणा परेणाप्युपनयनिगमनयोरसाधनत्वाङ्गीकारात्पञ्चावयवप्रयोगेऽधिकं निग्रहं सूचयितुं तथोक्तमिति। विमतं सत्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम्। ब्रह्मासत्प्रातिभासिकान्यद्विश्वमित्यर्थः। अत्र वियदादीति पक्षनिर्देशेऽवच्छेद काभावादसङ्कुचितेनादिशब्दे-नात्मशुक्तिरूप्ययोर्ग्रहणापत्त्यांऽशतो बाधसिद्धसाधनते स्याताम्। विश्वमिति पक्षनिर्देशे च विश्वशब्देन वियदाद्यन्यतत्समुदायोक्तौ वियदादिमिथ्यात्वासिद्धेः। वियदादीनामेवोक्ताववच्छेदकाभावेन पूर्वोक्तदोषतादवस्थ्यात्। वियदित्येव पक्षनिर्देशे च घटादौ व्यमिचारात्। तस्य च पक्षतुल्यत्वे निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्यसन्देहेऽपि सन्दिग्धानैकान्त्यात्। अतो विमतमिति विमतिः पक्षतावच्छेदकी कृता।

मूलम्-तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विविक्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्यातत्कार्ययोरन्यरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा। नाद्यः। विकल्पासहत्वात्।।

भावदीपिका
वादावली भावदीपिका ।।अनिरुक्तिमेव सिषाधयिषुः साध्यं विकल्पयति।। तत्किमित्यदिना। अप्रसिद्धेः। पक्षान्तरमाह।। असत्त्वं वेति। मानबाधात्कल्पान्तरमाह।। सद्विविक्तत्वं वेति। सद्भिन्नत्वमित्यर्थः। सतोऽपि सदन्तरविविक्तत्वेनार्थान्तरत्वादाह।। प्रामाणाविषयत्वमिति। व्यवसायद्वाराऽनुव्यवसायरूपप्रमाणविषयत्वस्यैव शुक्तिरूप्यादौ सत्त्वेन साध्यवैकल्यादाह।। अप्रमाणेति। ब्रह्मणो भ्रमाधिष्ठानत्वेनाप्रमाण विषयत्वादाह।। अविद्येति। अविद्यातत्कार्यान्यान्यत्वमित्यर्थः। अनादिजीवब्रह्मविभागादावभावादाह।। स्वेति। स्वस्य योऽत्यन्ता भावस्तत्समानाधिकरणतया तदेकाधिकरणतया प्रतीयमानं तस्य भावस्तत्त्वमित्यर्थः।

अध्याय 2

भावदीपिका
लक्षणप्रमाणाभ्यां वस्तुसिद्धेरनिर्वचनीये च तयोर भावात्तदप्रसिद्धमिति भावेन लक्षणं तावद्दूषयितुं प्रतिजानीते।। तथा हीति। अनिर्वचनीयमित्यत्र नञ्तत्पुरुषबहुव्रीही आश्रित्य निर्वचनरूपाभिलपनाभावो वा निर्वचनयोग्यार्थशून्यत्वं वेति भावेन विकल्पयति।। किमिति ।। स्वेति।। शुक्तिरूप्यं प्रपञ्चोऽनिर्वचनीयमित्यादि व्यवहारविषयत्वस्याभ्युपगमान् मूकोऽहमितिवत्स्वक्रियाविरोध इत्यर्थः। अर्थशून्यत्वमित्यत्रापि द्वेधा विकल्पमाह।। सत्त्वेति। क्रमेण द्वावपि दूषयति।। नाद्य इत्यादिना । उपलक्षणं चैतत्। सदसदुभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति च बोध्यम्। न चासतो निस्स्वरूपत्वाद् ब्रह्मणश्च निर्धर्मकत्वात्कथं तत्र सत्त्वविरहासत्वविरहौ धर्मौ स्यातामिति वाच्यम्। तयोर्निःस्वरूपत्वनिर्धर्मकत्वरूपधर्मवत्त्वयोच्यमानधर्मनिषेधवच्च सत्त्वविरहासत्त्वविरहरूपधर्मयोरप्युपपत्तेः। अन्यथाऽसद्ब्रह्मणोः सत्त्वासत्त्वे स्यातामिति भावः।
भावदीपिका
ननु सत्त्वनिषेधासत्त्वनिषेधयोस्तात्त्विकत्वे स्यादयं दोषो न त्वतात्त्विकत्वे। न हि ह्रदादावारोपितं वह्निमङ्गीकृत्य वन्ह्यभावेऽङ्गीकृते व्याघातोऽस्तीति भावेन शङ्कते।। नन्विति।। निषेधेति।। सत्त्वविरहासत्त्वविरहरूपनिषेधद्वयस्येत्यर्थः।। तात्त्विकत्वानभ्युपगमादिति। न हि केनापि रूपेण दुर्निरूपस्य प्रपञ्चस्य सदसद्विलक्षणत्वादिकं किमपि रूपं वास्तवमस्तीति भावः। नन्वेवं प्रपञ्चे सत्त्वविरहासत्त्वविरहसाधनं किमर्थमित्यत आह।। तत्तदिति। तत्तत्प्रतियोगिनोः सत्त्वविरहासत्त्वविरहप्रतियोगिनोः। सत्त्वासत्त्वयोरित्यर्थः।। मात्रेति।। न तु सत्त्वविरहासत्त्वविरहयोस्तात्त्विकत्वायेत्यर्थः।। तत्तदिति। सदसद्विलक्षणत्वस्येत्यर्थः। निषेधति।। नेति। कुत इत्यत आह।। तथा सतीति। सदसद्वैलक्षण्यस्यातात्त्विकत्वे सति। तस्य सदसद्वैलक्षण्यस्य। प्रपञ्चवदेव केनापि रूपेण निर्वचनायोग्यता स्यात्। न ह्यतात्त्विकस्य किञ्चिदपि रूपं वास्तवमस्तीति त्वयैवोक्तेरित्यर्थः।
भावदीपिका
आत्मनि सत्त्वे आत्मत्वमेव प्रयोजकं न त्वसत्त्वराहित्यम्। एवञ्च विमतं सत् असत्त्वविरहितत्वादित्यनुमानं सोपाधिकमिति स्वहृद्गतमाशयमुद्धाटयति।। तत्रेति। आत्मनीत्यर्थः। तथा च सत्त्वेऽसत्त्वविरहस्याप्रयोजकत्वेनोभयराहित्यं न व्याहतमिति भावः। साध्याव्यापकत्वसाधनव्यापकत्वे वक्तुमात्मत्वं विकल्पयति।। किं तदित्यादिना। अत्र यद्यपि सत्त्वासत्त्वयोः परस्परविरहात्मकत्वाद सत्त्वविरह एव सत्त्वं सत्त्वविरह एवासत्त्वमित्युभयविरहित्वं माता वन्ध्येतिद्व्याहतमित्येव वक्तुं शक्यम्। एवञ्चात्मत्वस्योपाधित्वशङ्काऽपि नोदेतीति महता प्रयत्नेनोपाधिनिरासेन व्याप्तिव्युत्पादनं च न कार्यम्। वक्तव्यं चैवमेव। अन्यथाऽग्रे प्रत्यक्षबाधकथनावसरे आत्यन्तिकनिषेधाप्रतियोगित्व लक्षणाबाध्यत्वरूपसत्त्वस्य प्रत्यक्षग्राह्यतासमर्थनानुपपत्तेः। अनिर्वाच्यत्वानुमानेऽविरुद्धत्वस्योपाधित्त्वोद्भावनानुपपत्तेश्च। अत एव न्यायामृते त्रिकालसर्वदेशीयनिषेधाप्रतियोगिता। सत्तोच्यतेऽध्यस्ततुच्छे तं प्रति प्रतियोगिनी।इत्यसत्त्वविरहित्वमेव सत्त्वमुक्तम्। तथाऽपि सत्त्वप्रयोजकस्यात्मत्वस्य प्रपञ्चेऽभावात्सत्त्वमपि न स्यादिति पराभि (हितं) मतं प्रपञ्चसत्त्वनिषेधकं युक्त्यन्तरमप्यपाकर्तुं परमते आत्मत्वखण्डनार्थं आत्मत्वानाधारत्वरूपजडत्वहेतुखण्डनार्थं विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यग्रे वक्ष्यमाणसिद्धान्तानुमाने हेतोरप्रयोजकत्वशङ्कानिरासाय चैवमुक्तमिति न दोषः।। किं तदिति। त्वया प्रयोजकत्वेनोक्तमित्यर्थः। घटाद्यनात्मन्यविद्यमानाऽऽत्ममात्रवृत्तिर्जातिरित्यर्थः। घटादिव्यावृत्तेति साधनाव्यापकत्वाय।। अबाध्यत्वमिति। बाध्यत्वाभाव इत्यर्थः। ज्ञानाधारत्वं ज्ञानसमवायित्वम् ।। तल्लक्ष्यत्वमिति। आत्मपदलक्ष्यत्वमित्यर्थः।। आत्मन एकत्वेनेति। त्वन्मते जीवात्मपरमात्मनां तत्त्वतो भेदाभावेनात्मन एकव्यक्तित्वान्नित्यमेकमनेकानुगतं सामान्यमिति सामान्यलक्षणस्यात्मत्वेऽभावेन जातित्वायोगात्। अन्यथा व्यक्तेभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिरित्यत्र जातिबाधकत्वेनोक्तव्यक्त्यभेदस्य जातिबाधकताभङ्गात्। तथा च साध्याव्यापकत्वमिति भावः।
भावदीपिका
।। व्यभिचारादिति। प्रसक्तस्यैव बाध्यत्वेनानिर्वचनीयख्याति वादिमतेऽसतोऽप्रसक्त्या तत्र बाध्यत्वाभावे विद्यमानेऽपि सत्त्वाभावाद्व्यभिचार इत्यर्थः। असतो बाध्यत्वाङ्गीकारे स्ववचनविरोधमाह।। तस्यापीति।। पक्षैकदेशाव्यावृत्तेरिति। ज्ञानत्वस्य पक्षभूतप्रपञ्चान्तर्गतवृत्तिरूपज्ञाने सत्त्वेन तदभावरूपोपाध्यभावेन प्रपञ्चे सत्त्वाभावे साधनीये भागासिद्ध्या दूषकताबीजस्य सत्प्रतिपक्षोत्थापकत्वस्यायोगेन सत्त्वे ज्ञानत्वरूपात्मत्वस्योपाधित्वायोगादित्यर्थः।
भावदीपिका
नन्वात्मत्वखण्डनं स्वव्याहतम्। तस्य त्वयाऽप्यङ्गीकृतत्वात्। तथा च त्वया तदात्मत्वं यादृशमङ्गीक्रियते तादृशमेव ममापि सत्त्वे प्रयोजकं भविष्यतीत्याशङ्क्य निषेधति।। न च वाच्यमिति।। आत्मादाविति। आत्मत्वादावित्यर्थः। आदिपदेन सच्चेन्न बाध्येतेत्यत्र किमिदं सत्त्वमित्याद्यग्रे विकल्प्यमानस्यानिर्वचनीयसाधकार्थापत्त्यादिगतसत्त्वादेः परिग्रहः। सत्त्वविकल्पादेरितः पूर्वं ग्रन्थेऽप्रकृतत्वेऽपि ग्रन्थकर्तुर्बुद्धावुपस्थितत्वेनाग्रे वक्ष्यमाणस्यापि सत्त्वादिविकल्पस्य दोषोद्धारायेहादिपदेन गृहीतिरित्याहुः। यद्वा यत्पूर्वं विकल्पितं मिथ्यात्वं तस्य शुक्तिरूप्यादौ सिद्धान्तेऽङ्गीकारात्तस्यादिपदेन ग्रहणमिति। तस्यात्मत्वादेरित्यर्तः। इतिशब्दस्य न च वाच्यमित्यनेनान्वयः।। उक्तप्रकारेति। जातिविशेषादिषु पक्षेष्वस्माभिरन्यतमस्वीकारेऽपि त्वया तदन्यतमस्योक्तरीत्याऽङ्गीकर्तुमशक्यत्वादिति भावः।

अध्याय 3

भावदीपिका
एवमनिर्वाच्यत्वलक्षणं खण्डयित्वा तत्र प्रमाणमपि दूषयितुं प्रतिजानीते।। किञ्चेति। नन्वनिर्वाच्यत्वे कथं मानाभावः। विमतं सदसद्विलक्षणं बाध्यत्वाद्व्यतिरेकेण ब्रह्मवत्। सत्त्वासत्त्वे एकवस्तुनिष्ठत्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदिति वा चित्सुखोक्तानुमानस्य सच्चेन्न बाध्येतासच्चेन्न प्रतीयेतेत्यर्थापत्तेश्च सत्त्वादित्याशङ्क्याद्यानुमाने दूष्यभागं प्रतिज्ञांशानुवादेन दूषयति।। विवादेति। सदसद्विलक्षणं न वेति विवादविषयीभूतं शुक्तिरूप्यादीत्यर्थः। अत्र विवादपदत्वस्य पक्षतावच्छेदकत्वेनोपादाने पूर्वोक्ताशयोऽनुसन्धेयः। सदसद्विलक्षणमित्यत्र किं सत्त्वे सत्यसद्रूपविशिष्टप्रतियोगिकविलक्षणत्वं वाऽभिप्रेतं किं वा सद्वैलक्षण्यासद्वैलक्षण्यरूपं धर्मद्वयं यद्वा सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपं न वेति विकल्प्य नाद्य इत्याह।। पक्षस्येति। सदसदुभयात्मकस्य प्रतियोगिनोऽप्रसिद्ध्या तद्वैलक्षण्यमप्रसिद्धमिति भावः। उपलक्षणमेतत्। मन्मतेऽसदेकस्वभावे शुक्तिरूप्यादौ सदसद्रूप विशिष्टप्रतियोगिकवैलक्षण्यस्य सिद्धत्वेन सिद्धसाधनादिति ज्ञेयम्। विशिष्टवैलक्षण्यस्य विशेषणसद्वैलक्षण्येनाप्युपपत्तेः। द्वितीयेऽपि द्वित्वावच्छिन्नवैलक्षण्यद्वयं साध्यमुतोभयसाहित्यमात्रम्। आद्य आह।। पक्षस्येति।।
भावदीपिका
उक्तदोषपरिहाराय द्वितीयमनुमानमनूद्य दूषयति।। सत्त्वासत्त्वे इति। अत्र सत्त्वासत्त्वयोरन्यतरस्य पक्षत्वे विवक्षितासिद्धेस्सिद्ध साधनतापत्तेश्चोभयोः पक्षता। एकं यद्वस्तु तन्निष्ठौ यावत्यन्ताभावौ तयोः प्रतियोगिनी। अत्रात्यन्ताभावप्रतियोगिनी इत्येवोक्तौ सदसन्निष्ठात्यन्ताभावप्रतियोगित्वमसत्त्वसत्त्वयोरुभयोरस्तीति सिद्धसाधनता स्यात्तद्वारणायैकवस्तुनिष्ठेति विशेषणम्। ऐकाधिकरण्यावच्छेदकावच्छिन्नेत्यर्थः। एकात्यन्ताभावप्रतियोगिनी इत्येवोक्ते एकसत्त्वेऽपि द्वयं नास्तीति प्रतीत्या सत्त्वासत्त्वयोरन्यतरसत्त्वेऽपि द्वित्वावच्छिन्नोभया भावमेकमादायार्थान्तरता स्यात्तद्वारणायैकेति वस्तुविशेषणम्। अनेन सत्त्वासत्त्वरहितं किञ्चित्सामान्यतः सिध्यतीति भावः। रूपरसवदिति। तयोर्वाय्वादिनिष्ठात्यन्ताभावप्रतियोगित्वादित्यर्थः। रूपवदित्येवोक्तावेकवस्तुनिष्ठात्यन्ताभावद्वयप्रतियोगित्वमेकस्य रूपस्य नास्तीत्युभयोपादानम्। अनुमान इति भावे ल्युट्। एवमनिर्वाच्यसाधन इत्यर्थः। सत्त्वंशे प्रतिज्ञासाध्ययोर्व्याघातेन दूषयति।। वस्त्विति। तथा च तदंशे बाध इति भावः। इतिशब्दः प्रभृतिवचनः तथा च सत्त्वासत्त्वयोः परस्परविरहात्मकयोः परस्पर विरहव्याप्ययोर्वाऽन्यतरस्यान्यतराभाव सामानाधिकरण्यनियमेनोभयोरप्येकवस्तुनिष्ठात्यन्ताभावप्रतियोगित्वं व्याहतमित्यर्थः।
भावदीपिका
आभाससाम्यं चाह।। किञ्चेति। तथा चानेन घटत्वाघटत्वरहितं किञ्चित्सिध्यतीति भावः।

अध्याय 4

भावदीपिका
अत्रार्थापत्तौ व्याप्त्यादिविघटयितुं तन्मूलव्याप्ति ग्रहौपयिकतर्कशरीरप्रविष्टसच्छाब्दार्थं पृच्छति।। सच्चेदिति। ।। सत्तेति। सत्ताजातियुक्तमित्यर्थः।। सत्तायुक्तस्येति। आत्मनो निर्धर्मकत्वेन सत्ताया अभावादनात्मन्येव सत्ताङ्गीकारेण तस्य च बाध्यत्वादिति भावः। एतेनार्थक्रियाकारि सदिति निरस्तम्। अर्थक्रियाकारिणो बाध्यत्वेन व्याप्त्यसिद्धेः। न च व्यवहारदशायां न बाध्यतेत्युच्यतेऽतो न दोष इति वाच्यम्। व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शनात्। व्यवहारदशायां प्रत्यक्षेण न बाध्येतेत्युक्तावपि परोक्षाध्यस्तेऽपरोक्षाध्यस्ते नभोनैल्यादौ च बाधाभावेन विपर्यये पर्यवसानायोगेन तत्र सद्वैलक्षण्यासिद्धेः। उपलक्षणमेतत्। बाध्यतेऽतो न सत्त्वाद्युक्तमिति विपर्यये पर्यवसानेन सत्ताराहित्यसिद्धावपि ब्रह्मवन्निर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरत्वं च बोध्यम्।।
भावदीपिका
एवं न बाध्येतेत्यत्रासच्चेदित्यत्र च बाधासतोरुक्तन्यायेन विकल्पदूषणे स्वयमेवोहितुं शक्ये इत्युपेक्ष्य न प्रतीयेत इत्यत्र प्रतीतिं दूषयितुं पृच्छति।। असदिति। सत्त्वासत्त्वौदासीन्येन ज्ञानासम्भवादिति भावः। उक्तं हि न हि विधिनिषेधाववधूय प्रत्ययो नामास्तीति। असदिति व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वेनासतोऽज्ञाने शशशृङ्गम सदित्यसत्पदप्रयोगरूपव्यवहारो न स्यात्। शुक्तिरूप्यम सद्विलक्षणमित्यसतः प्रतीतिर्नास्तीत्यादिव्यवहारश्च न स्यादित्यर्थः।
भावदीपिका
तत्र हेत्वाकाङ्क्षायां यद्रूप्यात्मकत्वमनिर्वचनीयमित्युक्तं तदप्यनिर्वचनीयत्वरूपेण प्रतीयते उत व्यावहारिकत्वरूपसत्त्वेनेति दूषयितुं विकल्पयति।। तदपीति। शुक्तौ प्रतीयमानमनिर्वचनीयभूतं रूप्यात्मकत्वमपीत्यर्थः।। प्रकृतेनेति। अनिर्वचनीयत्वेनान्याकारेण व्यावहारिकत्वरूपसत्त्वेनेत्यर्थः।। भ्रान्तिव्यवहारेति। अनिर्वचनीयम् निर्वचनीयत्वेन विषयीकुर्वतो ज्ञानस्य भ्रान्तित्वायोगादिति भावः। द्वितीये व्यावहारिकत्वरूपमपि सत्त्वं, सदुतासदथानिर्वचनीयम्। नाद्यः। शुक्तिरूप्यतादात्म्ये भ्रान्तौ प्रतीयमानस्य सत्त्वस्य सत्यत्वे भ्रान्तिव्यवहारलोपप्रसङ्गात्। विसंवादायोगाच्च। द्वितीयेऽसदपि शुक्तिरूप्यतादात्म्यगतं सत्त्वमसत्त्वेन भात्युत सत्त्वेन। आद्ये भ्रान्तिव्यवहारलोपः स्यात् द्वितीयेऽसतः सत्त्वेन भानं स्यादित्याह।। द्वितीय इति। असतः शुक्तिरूप्यतादात्म्यगतसत्त्वस्य। तृतीयमाशङ्कते।। अथेति।। तस्यापीति। सत्त्वस्यापीत्यर्थः। न केवलं रजततादात्म्यस्येत्यपेरर्थः।। अनवस्थेति। अनिर्वाच्यमपि सत्त्वं प्रकृतेनैव रूपेण प्रतीयते उत सत्त्वादिनाऽन्याकारेण। आद्ये भ्रान्तिप्रवृत्त्योरनुपपत्तिः। द्वितीयेऽन्याकारः सन्वाऽसन्वाऽनिर्वचनीयो वा। आद्ये भ्रान्तिविसंवादयोरनुपपत्तिः। द्वितीयेऽसत्त्वेनैव भाति सत्त्वेन वा। आद्ये भ्रान्तिप्रवृत्त्योरनुपपत्तिः। द्वितीयेऽसतः प्रतीतिरनिवार्या। तृतीये तदपि किं प्रकृतेनैव रूपेणोतान्याकारेणेत्येवं रूपेणापर्यवसितानिर्वाच्यव्यक्तिपरम्पराङ्गीकारादनवस्थेत्यर्थः।
भावदीपिका
एवमियता प्रबन्धेनानिर्वाच्यत्वं मिथ्यात्वमित्याद्यपक्षं प्रतिक्षिप्यासत्त्वं मिथ्यात्वमिति कल्पमपाकरोति।। न द्वितीय इति।। अपदर्शनत्वादिति। प्रपञ्चे सदसद्वैलक्षण्यस्यैव तेन कक्षीकृतत्वादसत्त्वेऽङ्गीक्रियमाणेऽपसिद्धान्त इत्यर्थः। उपलक्षणमेतत्। व्याप्त्यादीनां जगदन्तर्गतत्वेनासत्यत्वापत्त्याऽनुमानत्वव्याघातादित्यपि बोध्यम्। सद्विविक्तत्वं वेति कल्पं निराचष्टे।। न तृतीय इति। तस्येति शेषः।। परजातीति। सत्ताजातिराहित्यमित्यर्थः। अब्रह्मत्वं ब्रह्मान्यत्वं ब्रह्मत्वाबावो वा।। तेनापीति। मिथ्यात्ववादिनाऽपि। जगति सत्ताजातेरङ्गीकारेण जगत्सत्तारहितमिति साधनेऽपसिद्धान्त इति भावः। न केवलं सत्यत्ववादिभिस्तार्किकादिभिरपि तु तेनापीत्यपेरर्थः।। सिद्धसाधनत्वादिति। विमतं ब्रह्मान्यदिति वा ब्रह्मत्वाभाववदिति वा प्रतिज्ञार्थः स्यात्तथा च जगति तद्‌द्वयस्यास्माभिरङ्गीकारात्सिद्धसाधनतेत्यर्थः। अबाध्येतरत्वं नामाबाध्यब्रह्मान्यत्वं वा बाध्येतरत्त्वाभावो वेत्यर्थः स्यात्तथा च बाध्यत्वमेवेत्यभिप्रेत्याद्यं निराह।। ब्रह्मेति।। द्वितीयमाशङ्क्य दूषयति।। अबाध्येति।
भावदीपिका
।। अन्यथेति। वस्तु येन प्रकारेण वर्तते ततोऽन्येन प्रकारेम रजतत्वादिना ज्ञातस्य सम्यक् तेनैव वस्तुगतप्रकारेण शुक्तित्वादिना ज्ञातत्वमित्यर्थः। प्रतिपन्नेति। प्रतिपन्नः प्रतीतो य उपाधिराश्रय आश्रयत्वेन यः प्रतीयत इत्यर्थः। तस्मिन्नित्यधिकरणसप्तमी। प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वमित्यर्थः।। सिद्धसाधनत्वादिति। विमतं मिथ्येत्यस्यान्यथाज्ञातत्वे सति सम्यग्विज्ञातमित्यर्थः स्यात्तथा च सिद्धसाधनमित्यर्थ। तदेवाह।। अस्माभिरिति। न केवलं त्वयैव किन्त्वस्माभिरप्येवंविधबाध्यत्वस्याङ्गीकारादित्यपेरर्थः। सर्वस्यानिर्वचनीयत्वादिरूपवतः प्रपञ्चस्यानिर्वचनीयत्वक्षणिकत्व ब्रह्माकार्यत्वादिना पूर्वं ज्ञातस्य विशेषदर्शनानन्तरं सत्यत्वध्रुवत्व ब्रह्मकार्यत्वादिना विज्ञातत्वाङ्गीकारादित्यर्थः।
भावदीपिका
द्वितीयमपि दूषयितुं पृच्छति।। किमिति। एकस्मिन्देशे एकस्मिन्काले प्रतिपन्नवस्तुनो देशान्तरे कालान्तरे विद्यमाननिषेध प्रतियोगित्वमित्यर्थः। कालन्तरादावित्यादिपदेन देशपरिग्रहः। तेन यथायोगं सम्बन्धः।। त्रिकालेति। निषेधशब्दस्य त्रैकालिकनिषेधपरत्वे प्रतिपन्नोपाधेरन्यत्रासतः प्रतिपन्नोपाधावपि निषेधविवक्षायां त्रिकालाखिलदेशनिषेधप्रतियोगित्वं पर्यवस्यतीत्यभिप्रेत्येदमभिधानमिति बोध्यम्। अंश इत्युक्तमेवोपपादयति।।
भावदीपिका
किञ्च प्रतिपन्नोपाधावित्यत्र प्रतिपन्नत्वं नाम यद्यदधिष्ठानकत्वेन प्रमितं तस्य तन्निष्ठनिषेधप्रतियोगित्वं यद्यदधिष्ठानकत्वेन भ्रान्तिविषयीभूतं तस्य तन्निष्ठनिषेधप्रतियोगित्वं वेति विकल्प्य दूषयितुं पृच्छति।। का चेति। किञ्चेति चार्थः। आद्ये यदधिष्ठानकत्वेन यत्प्रमितमित्यस्य क्वचिदधिष्ठाने प्रमितस्येत्यर्थं पर्यवसन्नं बुद्ध्वा दूषयति।। नाद्य इति।। प्रमाणप्रतिपन्नस्येति। क्वचिदधिष्ठान ति शेषः।। अतिप्रसङ्गादिति। शुक्तिरूप्यं नास्ति सत्यरूप्यमस्तीत्यादिसर्वव्यवहारोच्छेदः स्यादित्यर्थः। द्वितीयेऽपि निषेधशब्देन स्वरूपेण त्रिकालाखिलदेशस्थनिषेधप्रतियोगित्वमुत सत्त्वेनोक्तनिषेधप्रतियोगित्वं विवक्षितमिति विकल्प्य क्रमेण पक्षद्वयं प्रतिक्षिपति।। कोऽयमिति। आभाववेदनमिति स्वरूपेण निषेधबुद्धिः, सद्विविक्ततावेदनं सत्त्वेनोक्तनिषेधबुद्धिर्वेत्यर्थः। तवेति शेषः। किमभावं बुद्ध्यस उत सद्विविक्तत्वं बुद्ध्यस इति यावत्।।
भावदीपिका
।। प्रमाणमात्रेति। मात्रशब्दः कार्त्स्न्यपरः। प्रमाणसामान्याविषयत्वमित्यर्थः।। सिद्धसाधनत्वादिति। ऐन्द्रियकपदार्थस्य प्रत्यक्षादिप्रमाणत्रयवेद्यत्वसम्भवेऽपि घ्राणरसनत्वगादीन्द्रियनियतविषयाणां गन्धरसस्पर्शादीनां श्रोत्रत्वक् चक्षुराद्यविषयत्वस्य सिद्धत्वेनातीन्द्रियपदार्थेष्वीशादिप्रत्यक्षविषयत्व सम्भवेऽप्यस्मदादिप्रत्यक्षाविषयत्वस्य सिद्धत्वेन यत्किञ्चित्प्रमाणाविषयत्वं पक्षतावच्छेदकावच्छिन्ने सर्वत्रास्तीति सिद्धसाधनमित्यर्थः।। मिथ्यात्वापातादिति। त्वन्मते ब्रह्मणोऽवेद्यत्वरूपस्वप्रकाशत्वाङ्गीकारेण तस्य सर्वप्रमाणाविषयत्वादित्यर्थः। उपलक्षणमेतत्। शुक्तिरूप्यादौ भ्रमद्वाराऽनुव्यवसायरूपप्रमाणविषयत्वात्साध्यवैकल्यम्। साक्षादिति विशेषणेऽपि बाधकप्रमाणं प्रति निषेध्यत्वेन साक्षाद्विषयत्वात् साक्षात्सत्त्वेनेति विशेषणे लाघवेन सतत्वाभावस्यैव मिथ्यात्वौचित्यात् तस्य च सद्विविक्तत्वदूषणेन निरासादित्यपि बोध्यम्।
भावदीपिका
दूषणान्तरमाह।। किञ्चिति। अतत्त्वावेदकं मिथ्यात्वग्राह्कम्।। प्रमाणं चेति। सत्यार्थग्राहकमित्यर्थः।
भावदीपिका
अविद्यायां लक्षणप्रमाणयोरभावेनाविद्यास्वरूपमेवालीकायितमिति वक्तुं लक्षणं तावद्दुदूषयिषुः पृच्छति।। केयमिति। कीदृग्लक्षणोपेतेत्यर्थः। तत्र परोक्तानि लक्षणान्यनुवदति।। अनादीति। अनादित्वे सत्यनिर्वाच्येत्यर्थः। अत्राविद्याकार्ये घटादावतिव्याप्तिवारणायानादीति। ब्रह्मण्यतिव्याप्तिवारणायानिर्वाच्येति। अत्रानादौ प्रागभावादावतिव्याप्तेरुच्या लक्षमान्तरमुट्टङ्कयति।। अनादिभावेति। विज्ञानविलाप्या विज्ञाननिवर्त्येत्यर्थः। अत्र सतिसप्तमीपहिम्नाऽनादि भावरूपत्वविज्ञानविलाप्यत्वयोः सामानाधिकरण्यादनादित्व भावरूपत्वोभयसमानाधिकरणं विज्ञानविलाप्यत्वं वाऽविद्यालक्षणमित्यर्थः। अत्र भ्रमप्रागभावयोरतिव्याप्तिवारणाय सत्यन्तम्। ब्रह्मणि तद्वारणाय विज्ञानविलाप्येति। अत्रानादिभावत्वे सतीति वक्तव्ये भावरूपत्वे सतीत्युक्तिर्वस्तुतस्तस्याभावत्वमपि नेति ख्यापनाय। अत्र साक्षाद्विज्ञानविलाप्यत्वं विवक्षितम्। तेन न जीवब्रह्मविभागादावतिव्याप्तिः। तस्याज्ञानद्वारा ज्ञाननिवर्त्यत्वात्। यद्वैतदस्वरसादाह।। भ्रमेति। भ्रमं प्रति परिणाम्युपादानमित्यर्थः। तेन विवर्तोपादाने ब्रह्मणि नातिव्याप्तिः। अत्र भ्रमेति मृत्पिण्डादावतिव्याप्तिवारणायेति। अप्रसिद्धेति। पक्षस्येति शेषः। विमतमनाद्यनिर्वाच्यतत्कार्यान्यतरदिति प्रतिज्ञार्थः स्यात्तथा चानिर्वाच्यस्योक्तरीत्याऽप्रसिद्ध्याऽप्रसिद्धविशेषणत्वं पक्षस्येत्यर्थः।। आकाशादाविति। आदिपदेन कालजीवब्रह्मविभागादेः परिग्रहः। आकाशदेर्ब्रह्मभिन्नत्वेनानिर्वाच्यत्वादनादित्वाच्चेत्यर्थः।। अनभ्युपगमादिति। मिथ्याभूतस्य तत्त्वतोऽनादित्वायोगादिति भावः।।
भावदीपिका
।। असम्भवित्वादिति। उक्तरीत्या वा विमतं नानादि भावत्वे सति विज्ञानविलाप्यत्वाच्छुक्तिरूप्यवदित्यनुमानेन वाऽनादित्वाभावेन विशेषणाभावेन विशिष्टस्यासम्भवित्वादित्यर्थः। उपलक्षणमेतत्। जीवब्रह्मविभागादावतिव्याप्तिश्च बोध्या। न च साक्षादिति विशेषणाददोष इति वाच्यम्। तथा सत्यनादिपदवैय्यर्थ्यात्। अज्ञानातिरिक्तस्य सर्वस्याप्यज्ञानद्वारेण ज्ञाननिवर्त्यत्वात्। तावत एवोक्तौ चाभावारोपोपादानाज्ञाने भावत्वाभावेन चरमसाक्षात्कारनन्तरभाविनि जीवन्मुक्त्युनुवृत्तेऽज्ञाने च ज्ञाननिवर्त्यत्वाभावेनाव्याप्तेः। जीवन्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वे स्वकार्यैः प्रारब्धकर्मभिः सह पूर्णेणैव साक्षात्कारेण निवृत्तिः स्यान्न तूत्तरेणेति सद्यः शरीरपातापत्त्या जीवन्मुक्तिवार्ता लुप्येतेत्यलम्।
भावदीपिका
परमते इदमंशावच्छिन्नचैतन्यावरकाज्ञानं रूप्यात्माना ज्ञानात्मना च परिणमत इत्युभयोर्भ्रमत्वाभ्युपगमेन भ्रमोपादानमित्यत्र भ्रमशब्देन किं विवक्षितमिति विकल्प्य दूषयति।। भ्रमेति। भ्रमविषयो वा भ्रमज्ञानं वेत्यर्थः।। असत्त्वेनेति। पूर्वोक्तरीत्या भ्रमविषयस्यासत्त्वेन नृशृङ्गादिवन्निरुपादानकत्वेन भ्रमविषयोपादानकत्वमसम्भवीत्यर्थः। ।। अतिव्याप्तेरिति। कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एवेति श्रुत्या ज्ञानं प्रत्यन्तःकरणस्योपादानत्वेन भ्रमोपादानत्वं तत्रातिव्याप्तमित्यर्थः।
भावदीपिका
असिद्धिमेवोपपादयति।। तत्त्वावेदकस्यापीति। शुद्धचैतन्यविषयकस्यवेदान्ततात्पर्यजन्यचरमसाक्षात्कारादेरित्यर्थः।। आविद्यकत्वेति। मिथ्यात्वेत्यर्थः। अपिरनुक्तसमुच्चयार्थः। तेन परोक्षज्ञानव्यवहारयोः सत्यत्वेऽपि तद्विषयस्य खपुष्पादेरसत्त्वस्य साक्षिवेद्यज्ञानसुखादेर्मिथ्यात्वस्याभ्युपगमादित्यन्वयव्यभिचारोऽपि बोध्यः। एवं व्याप्त्यभावमुपपाद्य ज्ञानासत्त्वस्य सत्त्वानुभवबाधितत्वान्न विपर्यये पर्यवसानमित्याह।। एतावन्तमिति ।। रजतमभाद्रजतज्ञानमासीदित्यर्थः। न चायमनुभावो भ्रमः बाधकाभावादिति भावः। ज्ञाने सत्त्वानुभवस्यान्यथा सिद्धिमाशङ्क्याह।। अनिर्वचनीयस्यापीति। सदसद्विलक्षणस्यापीत्यर्थः।। अभावविलक्षणतयेति। असद्विलक्षणतयेत्यर्थः तथात्वेन सत्त्वेन।। नेति। आसीदिति स्वरूपसत्त्वस्यैव प्रतीतेर्नासद्वैलक्षण्येनोपपत्तिरिति भावः। अन्यथा सदसद्विलक्षणत्वेनासीदित्यनुसन्धानापातात्। तस्मात्सत्त्वानुसन्धाने सत्त्वमेव प्रयोजकं नासद्वैलक्षण्यमिति भावः।

अध्याय 5

भावदीपिका
एवमविद्यालक्षणानि निरस्य प्रमाणमपि व्युदसितुं पृच्छति।। अविद्यायामिति। एवंविधायामुक्तलक्षणविशिष्टायाम्। अनेनाविद्याया भवद्भिरङ्गीकारात्तत्र प्रमाणखण्डनादि व्याहतमिति निरस्तम्। पराङ्गीकृतायामेव तस्यां प्रमाणादिनिराकरणात्। तथा च वक्ष्यति स्वयमेव। किमित्याक्षेपे न किमपीत्यर्थः। चित्सुखोक्तमनुमानमाशङ्कते।। देवदत्तेति। तत्स्थो देवदत्तगतो यो देवदत्तप्रमाप्रमाप्रागभावस्तदतिरिक्तस्येत्यर्थः। अनेनानादिभावरूपज्ञाननिवर्त्यज्ञानसिद्धिः।। अविगीतप्रमेति। मैत्रप्रमा यथेत्यर्थः। दृष्टान्ते मैत्रप्रमायां देवदत्तगतप्रमाप्रागभावातिरिक्तस्या नादेर्मैत्रप्रमाप्रागभावस्य ध्वंसकत्वमादाय साध्यं बोध्यम्। अत्र मैत्रादिप्रमायां तत्तत्प्रागबावध्वंसित्वमादायांशे सिद्धसाधनतावारणाय देवदत्तेति पक्षविशेषणम्। पक्षविशेषणाभावे पक्षतावच्छेदकहेत्वोरभेदेन व्याप्तिग्रहदशायामेव पक्षतावच्छेदकसामानाधिकरण्येन विवक्षितसाध्यसिद्धेः सिद्धसाधनमेव दोषः। दृष्टान्तासिद्धिश्चेत्यप्याहुः। साध्ये पूर्वज्ञानध्वंसित्वेनार्थान्तरवारणायानादेरिति। प्रमाप्रागभावमादाय तद्‌व्यावृत्तये प्रमाप्रागभावातिरेकिण इति। साध्याप्रसिद्धिवारणाय तत्स्थेति विशेषणम्। एवमाशङ्कितमनुमानमाभाससाम्येन दूषयति।। नेति। अन्यथा तत्राप्यनादिभावरूपत्वे सति घटनिवर्त्यः कश्चन पदार्थः सिध्येदिति भावः।

अध्याय 6

भावदीपिका
विवरणोक्तमनुमानमाशङ्कते।। अथेति। साध्ये स्वपदेन प्रमाणज्ञानं गृह्यते। विशेषणचतुष्टयमपि वस्त्वन्तरविशेषणम्। अत्र प्रमाणेति विशेषणं भ्रान्तावंशतो बाधवारणाय। ज्ञानमिति तु प्रमाणशब्दस्य भावसाधनत्वज्ञापनाय। तेन करणमादाय न बाधः शङ्कनीयः।
भावदीपिका
एवमनूदितमनुमानं दूषयति।। नेति। अत्र प्रमाणज्ञानमित्यनेन चैतव्यं पक्षीक्रियते उत वृत्तिर्वा। आद्ये दोषमाह।। जड इति। "आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचर" इति विवरणोक्तेर्जड विषयकाज्ञानानभ्युपगमेनेत्यर्थः।। ज्ञानानामिति। जडविषयकाणामिति शेषः।। तथाविधेति। स्वप्रागभावेत्यादि विशेषणविशिष्टेत्यर्थः। इदं तु साध्याभावोपपादनाय। अनैकान्तिकत्वादित्युपलक्षणम्। सुखादिविषयकचैतन्ये बाधोऽपि बोध्यः। द्वितीयेऽपि परोक्षवृत्तिर्वाऽपरोक्षवृत्तिर्वा। आद्येऽप्याह।। जड इति। ज्ञानानां परोक्षज्ञानानामित्यर्थः। द्वितीयेऽप्याह।। जड इति। ज्ञानानामपरोक्षज्ञानानाम्। पक्षद्वये बाधोऽपि बोध्यः। स्वविषयावरणवस्त्वन्तरस्याभावात्। साध्ये विशेषणवैय्यर्थ्यं चाह।। व्यर्थं चेति।। तर्हि प्रागभावव्युदासः कथमित्यत आह।। स्वेति। तदेवोपपादयति।। न हीति।
भावदीपिका
किञ्च वस्त्वन्तरपूर्वकत्वमित्यत्र सत्यवस्त्वन्तरपूर्वकत्वं, साध्यमुतानिर्वचनीयवस्त्वन्तरपूर्वकत्वमाहोस्वित्सत्यानिर्वचनीय साधारणवस्त्वन्तरपूर्वकत्वमिति त्रेधा विकल्पं हृदि कृत्वा क्रमेण निरस्यति।। किञ्चिति।। तथाविधेति।। उक्तविशेषणविशिष्टेत्यर्थः।। सिद्धसाधनमिति। सत्यभावरूपाज्ञानस्यास्माभिरङ्गीकारादिति भावः।।
भावदीपिका
एवं प्रतिज्ञांशं निरस्याप्रकाशितार्थप्रकाशकत्वादिति हेतुं च दूषयितुं पृच्छति।।

अध्याय 7

भावदीपिका
एवं सौषुप्तिकानुभवस्य ज्ञानाभावविषयकत्वेनान्यथासिद्धिमुक्त्वाकेनचिदुक्तमज्ञानसाधकं न्यायमपाकर्तुमनुवदिति।। यत्त्विति। यदाह तदसदित्यन्वयः। न किञ्चिदवेदिषमित्यादिना सिद्धमज्ञानं पक्षः। न ज्ञानाभाव इति साध्यम्। अभावमानागम्यत्वादुपलब्ध्यभावागम्यत्वात्प्रमाणगम्यत्वाच्चेत्यर्थः।। सम्प्रतिपन्नवदिति। हेतुसाध्यवत्तया सम्मतपटादिवदित्यर्थः। द्वितीये व्यतिरेकदृष्टान्त इति भावः। नन्वभावस्याप्यनुपलब्धिमानागम्यत्वे कथं ताभ्यां हेतुभ्यां ज्ञानाभावरूपत्वाभावसाधनं विरुद्धत्वादित्यत आह।। अभाव इति। घटपटादिप्रमेयाभाव इत्यर्थः।। अभावस्येति। प्रतियोग्युपलब्ध्यभावस्येत्यर्थः। अभावस्यानुपलब्धिमानगम्यत्वं प्रसिद्धमिति हिशब्देनाह। अभावममानागम्यत्वादिति हेत्वोरसिद्धिं परिहर्तुमज्ञानस्य प्रमाणमात्राविषयत्वं समर्थयते। अज्ञानं चेति।। सम्प्रतिपन्नवदिति। शुक्तितरूप्यवदित्यर्थः। अविद्याया अविद्यात्वे इदमेवहि लक्षणम्। मिनाधातासहिष्णुत्वमसाधारणमिष्यत इति सुरेश्वरोक्तेरिति भावः।।
भावदीपिका
व्यवहारस्य ज्ञानाभावविषयत्वेनान्यथोपपत्तिं वक्तुं त्वदुक्तमर्थं न जानमीत्यनुवादः केन प्रकारेणेति पृच्छति।। किमत्रेति। त्वदुक्तमर्थं न जानामीत्यत्रेत्यर्थः।। सर्वेति। इदं न जानामीदं न जानामीति विशिष्ट प्रातिस्विकरूपेणेत्यर्थः।। सामान्यत इति। अर्थत्वेन रूपेण न तु तत्तद्विशेषेणेत्यर्थः।। तादृशेति। प्रातिस्विकरूपेण न जानामीत्येवंरूपेत्यर्थः ।। भावे वेति।। तादृशव्यवहरस्येति सम्बन्धः।। न प्रमाणत इति। तथा च परोक्तवाक्याभासावगतं तं तं विशेषं प्रातिस्विकरूपेणानूद्य तत्तद्विशेषविषयकप्रमाणवृत्त्यभावो व्यवहर्तुं शक्य एवेति भावः। सुप्रसिद्धं चैतदित्याह ।। प्रतिवादीति।। अनुवादेति। प्रातिस्विकरूपेणेति। शेषः। त्वदुक्तं न प्रमाणतो जानामीत्यत्र व्याहतिमाशङ्कते।। न चेति। त्वदुक्त इति विषयसमप्तमी। त्वदुक्तार्थविषयकमित्यर्थः।। विशिष्टेति। अर्थावच्छिन्न प्रमाणज्ञानाभावविषयज्ञानस्येत्यर्थः।। तद्विशेषणतयेति। निषेधप्रतियोगिप्रमाणज्ञानावच्छेदकतयेत्यर्थः।। व्याघात इति। मेयं न मानोपक्षमितिवत्स्वक्रियाविरोध इति भावः। निषेध्यप्रमाणज्ञानविशेषणतया प्रमाणविषयत्वेऽपि न साक्षात्प्रमाणज्ञानविषयत्वं साक्षात्प्रमाणज्ञानाभावविषयत्वेन च न जानामीति व्यवहारोपपत्तिर्युक्तेति भावेन परिहरति।। एतदिति। प्रमाणनिषेधविषयकप्रमाणज्ञानस्येत्यर्थः।। प्रमाणेति। साक्षात्प्रमाण सामान्याभावविषयकत्वेऽपीत्यर्थः। तदर्थस्य निषेध्यप्रमाणज्ञानावच्छेदकार्थस्य।। अनेतदिति। साक्षात्तद्विषयत्वाभावादित्यर्थः। परसम्परया प्रमाणविषयकस्यापि प्रामामिकत्वेन व्याघातकीर्तनेऽतिप्रसङ्गमाह।। अन्यथेति।। विशिष्टेति। विषेषणविशेष्यभावापन्नेत्यर्थः।
भावदीपिका
सामान्यानुवादेन न जानामीति व्यवहार इति द्वितीयं निराह।। नेति।। विशेषेति।। तत्तदर्थविशेषविषयकज्ञानाभावविषयकतया त्वदुक्तमर्थं न जानामिति व्यवहारोपपत्तेर्न भावरूपाज्ञानकल्पकत्वमित्यर्थः।

अध्याय 8

भावदीपिका
नन्वज्ञानस्य भवद्भिरप्यङ्गीकारात्तन्निराकरणं व्याहतमिति शङ्कते।। न चेति। परमत एवैते दोषा नास्मन्मत इत्याह।। परेति। स्वमते तु स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदित्यादौ शास्त्रे तद्व्युत्पादनं व्यक्तमिति भावः। स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पक्षं प्रतिक्षिपति।। न सप्तम इति।। असत्त्वेति। स्वरूपेणात्यन्ताभावास्यासत्त्वे पर्यवसानादिति भावः।।

अध्याय 9

भावदीपिका
एवं प्रतिज्ञांशं दूषयित्वा हेत्वंशमपि दूषयति।। नापीति। निरुक्तिरिति सम्बध्यते। न केवलं मिथ्यात्वस्येत्यपेरर्थः।। अनैकान्त्यादिति। ब्रह्मणि वृत्तिविषयत्वे सत्यपि मिथ्यात्वाभावादिति भावः। हेतोरभावान्न व्यभिचार इत्याशङ्क्याह।। तस्येति। अन्यथा ब्रह्मपराणां वेदान्तानां ब्रह्मज्ञानार्थं श्रवणादिविधेश्च वैय्यर्थं स्यात्। ब्रह्मविचारवतोर्गुरुशिष्ययोः क्रमेण मौनं मौढ्यं च स्यादिति भावः। यत्तु विपक्षे धर्मिसमसत्त्वस्य हेतोस्सत्त्वे व्यभिचारः। न त्वारोपितस्यानुमानमात्रोच्छेदात्। दृश्यत्वं च व्याहारिके जगतीव पारमार्थिके ब्रह्मण्यपि व्यावहारिकमेवेति न व्यभिचार इति। तत्तुच्छम्। ब्रह्मजगतोः पारमार्थिकत्वव्यावहारिकत्वविभागस्य मिथ्यात्वसिद्ध्युत्तरकालीनत्वात्। यदपि धर्मिसमसत्त्वं हेतुविशेषणमिति तदपि न चारु। ब्रह्मणि धर्ममात्रस्याप्यभावेन धर्मिसमसत्त्वं हेतुविशेषणमिति तदपि न चारु। ब्रह्मणि धर्ममात्रस्याप्यभावेन धर्मिसमसत्त्वविषयत्वमात्रस्य हेतुत्वसम्भवेन शेषवैय्यर्थ्यादित्यलम्।
भावदीपिका
पररीत्या च दूषयति।। अतीतेति। नन्वतीतानागतयोरपि कदाचिज्ज्ञातताधारत्वादित्यरुच्याऽऽह।। नित्यानुमेयेष्विति। तत्र कदाऽप्यभावादिति भावः। एतेन वृत्तिप्रतिफलितं चैतन्यं फलमिति नवीनमतमपि प्रत्युक्तम्। अस्मन्मते घटादावप्यबावेनासिद्धेः। त्वन्मते चातीतानागतयोरभावात्। तयोः कदाचित्तत्सम्भवेऽपि नित्यानुमेये कटाऽप्यभावेन भागासिद्धेः।
भावदीपिका
।। स्वव्यवहार इति। स्वगोचरव्यवहार इत्यर्थः।। स्वतिरिक्तेति। स्वाभिन्नेत्यर्थः। ब्रह्मणः स्वप्रकाशत्वेन स्वव्यवहारे न ज्ञानान्तरापेक्षाघटादेरस्वप्रकाशत्वेन स्वव्यवहारेऽन्यापेक्षत्वमिति भावः। स्वव्यवहार इति व्यवहारपदेन सविकल्पव्यवहारो वा निर्विकल्पकव्यवहारो वा विवक्षित इति विकल्प्याद्ये दोषमाह।। तर्हीति। एकमेवाद्वितीयमित्यादिवेदान्तवाक्यजन्यवृत्तिमपेक्ष्यैवाद्वितीयं स्वप्रकाशमित्यादिविशिष्टव्यवहारविषयत्वाद्ब्रह्मणि व्यभिचार इति भावः। द्वितीयं शङ्कते।। निर्विकल्पकेति। अद्वितीयत्वादिधर्मशून्यात्मस्वरूपमात्रगोचरव्यवहार इत्यर्थः।। तथैवेति। निर्विकल्पके स्वव्यवहारे ज्ञानान्तरानवेक्ष इत्यर्थः।। असिद्धिरिति। उक्तरूपदृश्यत्वस्येति शेषः। मानाभावेन घटादौ तता व्यवहार एव नास्तियेनासिद्धिः स्यादिति शङ्कते।। घट इति। नास्त्येवेति।। तथा च व्यभिचार इति भावः। सुप्तावात्मनि तथा व्यवहारोऽस्तीति शङ्कते।। सुषुप्ताविति।। तस्यापीति। सौषुप्तिकव्यवहारस्यापीत्यर्थः।। विवादादिति। एतावन्तं कालं सुखमहमस्वाप्समिति परामर्शेन तस्य विशिष्टत्वेनैव सिद्धेरिति भावः। चित्सुखोक्तमाशङ्कते।। अवेद्यत्व इति। घटादावतिव्याप्तिवारणाय विशेषणम्। नित्यातीन्द्रियेऽतिव्याप्तिवारणाय विशेष्यमित्याहुः। अत एव तदभावरूपदृश्यत्वं च घटादौ विशेषणाभावेन नित्यातीन्द्रिये विशेष्याभावेनेति विशिष्टाभावरूपमनुगतमिति भावः। अत्रापरोक्षव्यवहारपदेन तद्विषयापरोक्षज्ञानजन्यव्यवहारो विवक्षित उत व्यवह्रियतेऽनेनेति व्युत्पत्त्याऽपरोक्षज्ञानं वा। पक्षद्वयमपि न सम्भवतीत्याह।। व्याहतत्वेनेति। अवेद्यत्वे सतीति ज्ञानसामान्याविषयत्वाभ्युपगमेन विशिष्टं व्याहतमिति तदभावरूपदृश्यत्वमसिद्धमिति भावः। नन्ववेद्यत्वं चिदविषयत्वं वृत्तिप्रतिफलितचिदविषयत्वं वा। न तु वृत्त्यविषत्वं येन व्याघातः स्यादित्याशङ्क्याह।। कथञ्चिदिति। अपिशब्देनात्राप्यरुचिमाह।। तद्बीजं तु चित एव चिद्विषयापरोक्षव्यवहारहेतुत्वेन स्वस्य स्वाविषयत्वमङ्गीकृत्य स्वगोचरव्यवहारे हेतुत्वाभ्युपगमे व्याहतिरिति। तथाऽपि तुष्यतु दुर्जन इति न्यायेन दोषान्तरमाह।। विशेषणेति।। किं विशेष्येणेति। आद्ये वेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं दृश्यत्वमिति हेत्वर्थः स्यात्। तत्र विशेष्यभागस्य ब्रह्मण्यपि सत्त्वेन वेद्यत्वादित्यस्य व्यभिचारावारकत्वाद्व्यर्थविशेष्यकत्वमित्यर्थः।

अध्याय 10

भावदीपिका
किञ्च दृश्यत्वमित्यत्र दृक्शब्देन प्रमोच्यते भ्रमो वेति विकल्प्याद्ये तवासिद्धिः। अन्त्येऽस्माकमसिद्धिरित्याह।। दृश्यत्वमिति।
भावदीपिका
।। नन्वेवमपि रूप्ये दृगुल्लेखित्वेनापि दृस्यत्वमागतमिति शङ्कते। नन्विति। तर्ह्यपि दृग्विषयत्वाभावेऽपीत्यर्थः। कथञ्चिदृगुल्लेखित्वेन दृश्यताऽस्तीत्यन्वयः।। दृश्यत्वाभासत्वादिति । रजते दृश्यत्वस्य कल्पितत्वादित्यर्थः। रजतं दृष्टमिति भ्रममात्रत्वादिति भगवत्पादोक्तेरिति भावः।
भावदीपिका
ननु नात्मनो दृश्यत्वं न च व्याहतिः स्वप्रकाशत्वेन स्वतःसिद्धे वृत्त्या दृश्यत्वनिषेधसम्भवात्। अत एवानुमा न मानम्। विपक्षे बाधकाभावात्। श्रुतयोऽपि यत्तदद्रेश्यमित्यादिविरोधाद्विशिष्टपरा इत्यतो बाधकान्तरमाह।। किञ्चेति। आत्मन इति शेषः। आत्मनो वृत्तिव्याप्यत्वाभावे तदाच्छादकमूलाज्ञाननिवृत्तिर्न स्यात्। ज्ञानस्याज्ञाननिवर्तकत्वे समानविषयत्वस्य तन्त्रत्वात्। न चेष्टापत्तिः। अज्ञाननिवृत्तेरेव त्वन्मते मोक्षत्वेन तदभावप्रसङ्गेन मोक्षसास्त्रवैय्यर्थ्यप्रसङ्गादित्यर्थः। नन्वात्मज्ञानेन तदज्ञाननिवृत्तिः। आत्मज्ञानं च नात्मविषयकं किन्तु तदन्याविषयकम्। तदज्ञाननिवर्तकत्वे ज्ञानस्य तदन्याविषयकत्वस्य तन्त्रत्वात्। तथा च न कोऽपि दोष इत्यत आह।। न चेति। त्वत्पक्ष इति परसम्मत्यर्थमुक्तम्।
भावदीपिका
।। आत्माकार एवेति। आत्मनो योऽयमाकारः स एवाकारो यस्येत्यर्थः। आत्माकार इवेति मध्यमपदलोपीसमासः। आत्मैवाकारो धर्मो यस्येति तृतीयकल्पार्थः। आत्मनोऽपि ज्ञानानन्दाद्यपरिच्छेद रूपासाधारणाकारोऽभिमत उत सत्तारूपसाधारणाकार इति विकल्प्याद्ये दोषमाह।। ज्ञानज्ञेययोरिति। द्वितीयमाशङ्कते।। एकैवेति।। अनुगतेति। अस्माभिरिति शेषः। अतिप्रसङ्गं चाह।। सत्तयेति।। अत्यन्तसादृश्यस्येति। ज्ञानान्दाद्यपरिच्छेदरूपस्येत्यर्थः।। किञ्चिदिति। सत्तयेत्यर्थः।। प्रागिवेति। वेदान्तज्ञानस्य घटाकारत्वं स्यादित्यर्थः।। आधारेति। आकारो ह्याकारिणि वर्तते। न ह्यात्मा वृत्तिज्ञानमाश्रित्य तिष्ठति। येनात्मा ज्ञानस्याकारः स्यादित्यर्थः। तदाकारत्वखण्डनस्य प्रकृतोपयोगं दर्शयति।। अत इति। तस्यैव विवरणं परिशेषादिति।
भावदीपिका
आत्मनि व्यभिचारपरिजिहीर्षया प्राङ्निराकृतमपि दूषणान्तरं वक्तुं पुनराङ्कते।। नन्विति। इदमनैकान्त्यादि।। स्वप्रतिबद्धेति। स्वोल्लेखीत्यर्थः। आत्मन्यद्वितीयत्वादिविशिष्टव्यवहारे विशेषणोपनायकापेक्षया स्वातिरिक्तसंविदपेक्षत्वेऽपि निर्विकल्पकस्वव्यवहारे तदपेक्षाभावेन तत्र व्यभिचारवारणायैव नियतिपदम्।। कथितेति। असिद्धविरुद्धानैकान्तिकादिषूषणगणस्पृष्टा कथं न कथमपीत्यर्थः।। तवेति। त्वया पारमार्थिकबेदस्यानङ्गीकारादित्यर्थः।। ममेति। अनिर्वचनीयभेदस्य मयाऽनङ्गीकारादिति भावः। नन्वाविद्यकपारमार्थिकसाधारणभेदवत्त्वं विवक्षितमित्यत आह।। सामान्यत इति।। प्रागेवेति। न हि जलनभोनलिनयोर्नलिनत्वसामान्यमस्तीत्यादिनेत्यर्थः। अनिर्वचनीयभेदश्च नभोनलिनायित इति भावः।

अध्याय 11

भावदीपिका
ननु माऽस्तु दृश्यत्वं हेतुः। जडत्वं हेतुर्भविष्यतीत्यतस्तदप्युक्तदूषणेनैव निरस्तमित्याह।। न च जडत्वेति। जङ्घालो जङ्घावान्। प्राणिस्थादातो लजन्यतरस्यामिति मत्वर्थे लच्। तदप्युक्तदूषणानि नातिक्रामेदित्यर्थः। न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतस्तान्युपपादयितुं प्रतिजानीते।। तथा हीति।। ज्ञानानाधारत्वमिति। ज्ञातृत्वाभाव इत्यर्थः। अज्ञानरूपत्वं ज्ञानरूपत्वाभावः। अस्वप्रकाशत्वं स्वप्रकाशत्वाभावः।।
भावदीपिका
आत्मत्वानाधारत्वं जडत्वमिति द्वितीयस्य द्वितीयं निराह।। न द्वितीय इति। तत्र हेतुमाह।। आत्मत्वस्येति।। प्रागुक्तेति। सत्त्वविरहेऽसत्त्वमसत्त्वविरहे सत्त्वमित्यत्रासत्त्वविरहसत्त्वविरहयोर्व्याप्ति समर्थनप्रस्तावोक्तात्मविकल्पेष्वन्यतमाङ्गीकारे साध्यविशिष्टतादिदोषाः प्रादुष्युरित्यर्थः। तथा हि। किमात्मत्वानाधारत्वम्मात्मत्वरूपजात्यनाधारत्वं वा सत्त्वानाधारत्वं वाऽबाध्यत्वानाधारत्वं वा ज्ञानत्वानाधारत्वं वा ज्ञानाधारत्वानाधारत्वं वा स्वप्रकाशत्वानाधारत्वं वाऽऽत्मपदवाच्यत्वानाधारत्वं तल्लक्ष्यत्वानाधारत्वं वा। आद्ये आत्मनि व्यभिचारः। तस्यैकव्यक्तित्वेन तत्रात्मत्वरूपजातेरयोगात्। विशिष्टात्मनां भेदेऽपि तेषां पक्षनिक्षिप्ततया भागासिद्धेः। न द्वितीयतृतीयौ। साध्याविशिष्टतापत्तेः। न चतुर्थपञ्चमौ। यथाक्रमं वृत्तिज्ञाने विशिष्टात्मसु च भागासिद्धेः। शुद्धात्मनो ज्ञानत्वस्य निरसिष्यमाणत्वेन निर्धर्मकत्वेन ज्ञानाधारत्वाभावेन चानैकान्त्यात्। न षष्ठः। अस्वप्रकाशत्वरूपहेतुखण्डन प्रस्तावोक्तरीत्याऽनैकान्त्यापत्तेः। न सप्तमः। अवाच्ये आत्मन्यनैकान्त्यात्। आत्मपदवाच्ये देहादावसिद्धेश्च। नाष्टमः। इन्द्रियादावात्मपदलक्ष्ये भागासिद्धेरिति। अत्रासिद्धिपदं भागासिद्धिपरम्। अतो न कश्चिद्दोषः।
भावदीपिका
आत्मनि ज्ञानरूपत्वाभावहेतोर्व्यभिचारं च वक्तुमात्मनो ज्ञानत्वनिरासाय प्रस्तावं करोति।। आत्मन इति। त्वन्मत इति शेषः।। तज्ज्ञानमिति। आत्मरूपं ज्ञानमित्यर्थः।। स्ववृत्तीति। स्वस्यैव स्वाकारवृत्तिरूपत्वायोगात्। विषयत्वं हि पराक्त्वम्। विषयित्वं तु प्रत्युक्त्वं तदुभयमेकत्र विरुद्धम्। न हि स्वनखाग्रेण स्वनखाग्रमेव छेद्यमुपलब्धमिति त्वयाऽङ्गीकारादिति भावः।
भावदीपिका
अस्वप्रकाशत्वं जडत्वमिति पक्षं निराचष्टे।। न चतुर्थं इति। अस्य प्राङ्निराकरणेऽपि प्रकारान्तरेणात्मनि व्यभिचारेण दुदूषयिषुस्तत्र हेतुसत्त्वं वस्तुमाह।। स्वेति।। स्वप्रकाशान्तरस्येति। पराभिमतस्यावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वादिरूपस्येत्यर्थः। उत्तरत्रेति। विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यनुमाने हेतोर्दृष्टान्ते साधनवैकल्यनिरासप्रस्ताव इत्यर्थः। तथा च व्यभिचार इति शेषः।

अध्याय 12

भावदीपिका
ननु माऽस्तु जडत्वं, परिच्छिन्नत्वं तु हेतुः स्यादित्यत आह।। परिच्छिन्नत्वेति। न केवलं दृश्यत्वजडत्वे इत्यपेरर्थः। प्रतिज्ञातं परिच्छिन्नत्वस्य साधकत्वाभावमुपपादयितुं पृच्छति।। परिच्छिन्नत्वमिति।। कालतो वेति। परिच्छिन्नत्वमिति सम्बन्धः। वस्तुतः परिच्छिन्नत्वं तृतीयकोटिस्तदभिप्रायकथनमन्योन्येति।। कालाकाशादीति। कालशब्देनात्रांशी कालो गृह्यते। न तु क्षणलवाद्यंशः। आकाशशब्देन चाव्याकृताकाशः। न तु भूताकाशः। येन तयोर्जन्यत्वेन यथायोगं देशकालपरिच्छिन्नत्वेनासिद्धिर्नस्यात्। आदिपदेनाज्ञानं पराभिमतो रूप्यादेर्जगतश्च प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधश्च गृह्यते। न च कालादिव्यतिरिक्तस्य पक्षतेति वाच्यम्। तत्र मिथ्यात्वासिद्ध्यापत्तेः। दृश्यत्वादेर्दूषितत्वादिति भावः। कालादौ भागासिद्धेरेव द्वितीयोऽप्यपास्त इत्याह।। अत एवेति। पक्षद्वयेऽपि नासिद्धिरिति शङ्कते।। ब्रह्मेति।। सर्वस्य देशकालाभ्यां परिच्छेदे उक्तं व्याघातं प्रतिपिपादयिषुर्देशतः परिच्छेदं तावदुपपादयितुं देशतः परिच्छिन्नत्वं निर्धारयति।। देशत इति। अस्त्वेवं प्रकृते किमित्यत आह।। तथा चेति। अत्र हेतुमाह।। अभावस्येति। तथा च सुस्थो व्याघात इत्याह।। तथा चेति। इदमुक्तं भवति। सर्वस्य देशतः परिच्छेदे हि सर्वं कस्मिंश्चिद्देशेऽस्ति कस्मिंश्चिद्देशे नास्तीति वक्तव्यम्। तथा च सर्वाभावाधिष्ठानत्वेन देशशब्दितमाकाशमङ्गीकृत्य पुनस्तस्याप्यभावाभिधाने माता वन्ध्येतिवद्व्याघात इति।
भावदीपिका
एवं व्याघातेन कालाकाशयोर्देशकालाभ्यां परिच्छिन्नत्वं नेति व्युत्पाद्य प्रमाणाभावाच्च तयोर्न देशकालाभ्यां परिच्छिन्नत्वमित्याह।। कुतश्चेति। किञ्चेति चार्थः। न कस्मादपि प्रमाणादित्याक्षेपार्थः किंशब्दः। आदिपदेन कालाज्ञानादेर्ग्रहणम्।

अध्याय 13

भावदीपिका
एवं दृश्यत्वादिहेतून् प्रातिस्विकरूपेणासिद्धविरुद्धानैकान्तिकत्वैर्निराकृत्याधुना सर्वसाधारण्येन बाधितविषयत्वरूपदोषेणापि दुष्टतां वक्तुमाह।। सन्निति। आदिपदात्सन्पटः सत्सुखमित्यादि गृह्यते।
भावदीपिका
निषेधति।। मैवमिति। किमक्षस्य प्रामाण्येऽपि त्रिकालाबाध्यत्व ग्रहणाक्षमतेत्यभिप्राय उत तस्य गन्धर्वनगरप्रत्यक्षवत्प्रामाण्यमेव नेति विकल्प्याद्ये यदनुमाननिषेध्यमाबाध्यत्वं तदेव प्रत्यक्षग्राह्यं तथा च ग्राह्या भावावगाहित्वेनाक्षस्यानुमानबाधकत्वं युक्तमिति भावेनाह।। अबाध्यताया इति। नन्वाबाध्यत्वं कालत्रये बाधाभावः। एवञ्च वर्तमानमात्रग्राहिप्रत्यक्षं कालान्तरीयबाधाभावं कथं गृह्णीयादित्याशङ्क्य निषेधति।। न चेति। प्रत्यक्षस्य वर्तमानसत्त्वग्राहित्वेऽपि स्वकाले स्वविषयसत्त्वं गृह्णत्प्रत्यक्षं त्रिकालासत्त्वं प्रतिबध्नात्येवेति भावेनाह।। तदानीमति। स्वयं यदा विषयं गृह्णाति तदानीमित्यर्थः। तत्सिद्धेस्त्रिकालबाधाभावरूपाबाध्यत्वग्रहणसिद्धेरित्यर्थः। अयमाशयः। त्रिकालासत्त्वाभावो हि द्वेधा। कदाचित्सत्त्वेन वा कालत्रयेऽपि सत्त्वेन वा। तत्र कालत्रयसत्त्वग्रहणे सामर्थ्याभावेऽपि कदाचित्सत्त्वग्रहणसमर्थेनाक्षेण कथं कालत्रयासत्त्वं न प्रतिबध्यमिति।
भावदीपिका
ननु घटादिसत्त्वग्राहिणो बाधकादर्शनादित्युक्तमयुक्तम्। मिथ्यात्त्वानुमानस्य जागरूकत्वादिति द्वितीयं शङ्कते।। अस्त्विति।। प्रत्यक्षस्य घटादिसत्त्वग्राहिण इत्यर्थः। नानुमानं प्रत्यक्षबाधकम्।। तस्यानुमानाद्यगृहीतदरेखोपरेखादिविशेषविषयकत्वेन तदनिवर्तितदिङ्मोहादिनिवर्तकत्वेन जात्याऽनुमानापेक्षितपक्षलिङ्गव्याप्त्यादिग्राहित्वेन तज्ज्ञानानां प्रामाण्यग्राहित्वेन विशेषदर्शनजन्यसमानविषयकज्ञानान्तररूपसजातीयसंवादादिरूप परिक्षासध्रीचीनत्वेन च प्रबलतया तद्बाधितस्य मिथ्यात्वानुमानस्य कुतस्तन्निरोधकत्वं कुतस्तरां च तद्बाधकत्वं कुतस्तमां च प्रत्यक्षस्याप्रामाण्यमित्याशयेन परिहरति।। नेति। विरोधेन बाधेनेत्यर्थः।। प्राप्तेति। निश्चितप्रमेयापहाररूपाप्रामाण्यस्येत्यर्थः। बाधकत्वं दूरापेतमिति भावः। स्यादेतत्। अनुमानस्य प्रत्यक्षापेक्षया स्वतो दौर्बल्येऽपि व्यावहारिकसत्त्वविषयकप्रत्यक्षापेक्षया तात्त्विकमिथ्यात्वविषयकत्वेन प्राबल्यसम्भवात्। अत एव पूर्वतन्त्रे आद्यस्य तृतीये शिष्टाकोपाधिकरणे वेदं कृत्वा वेदिं कुर्यादिति दर्भमुष्टिवेदिकरणयोः क्रमप्रतिपादकश्रुतिविरुद्धाया अपि क्षुत आचमेदिति वेदवेदिकरणयोर्मध्ये क्षुतनिमित्ताचमनप्रतिपादकस्मृतेः पदार्थधर्मभूतक्रमप्रतिपादकश्रुत्यपेक्षयाऽऽचमनरूपपदार्थविषयकत्वेन प्राबल्यमुक्तमित्याशङ्क्योपजीव्यप्रत्यक्षविरोधेन तस्य तात्त्विकार्थविषयकत्वमेव न सम्भवत्यन्यथा दहानानौष्ण्यानुमानस्यापि व्यावहारिकोष्णत्वग्राहिप्रत्यक्षापेक्षया तात्त्विकानौष्ण्यग्राहित्वेन प्राबल्यप्रसक्त्या कालात्ययापदिष्टमात्रोच्छेदप्रसङ्ग इति भावेनोत्तरमाह। अन्यथेति। तात्त्विकविषयकत्वेनानुमानस्यैव बाधकत्व इत्यर्थः। अत्र केनचित्प्रलपितं दहनानौष्ण्यानुमानं न श्रुत्यनुगृहीतम्। मिथ्यात्वानुमानं तु नेह नानेत्यादिश्रुत्यनुगृहीतमिति बाधकमिति। तन्न। अनुमानप्राप्तातात्त्विकमिथ्यात्वानुवादित्वेनापि श्रुतेरुपपत्त्या दुर्बलत्वेनाननुग्राहकत्वात्। यदपि मिथ्यात्वानुमानं तर्कानुगृहीतं न शैत्यानुमानमिति तदपि न। अक्षबाधेन तर्काणामप्याभासतयाऽननुग्राहकत्वात्। उक्तं च त्वयैव सुरेश्वरवार्तिके स्थायित्वप्रत्यभिज्ञानेन क्षणिकतर्काणामाभासत्वं
भावदीपिका
कालान्तरे किमपि बाधकमस्य भविष्यतीति तृतीयपक्षमाशङ्कते।। प्रत्यक्षत्वादिति।। विप्रतिपन्नमिति। सत्त्वग्राहिप्रत्यक्षमित्यर्थः।। भ्रान्तमिति। अत्रापि कालान्तरे बाधसम्भवादिति भावः। यदि क्वचित्प्रत्यक्षं बाधितमुपलब्धमित्येतावता सर्वत्रापि बाधशङ्कया प्रामाण्येऽविश्वासस्तदा वाक्याभासे प्रामाण्यादर्शनेनात्माद्वैतादिबोधकवाक्येऽपि तच्छङ्कया त्वदभिमतात्मादिसिद्धिरपि न स्यादित्याह।। तर्हीति। क्वचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वास इत्यर्थः।। जरद्गवेति।

अध्याय 14

भावदीपिका
तदेवं प्रत्यक्षे स्वतः प्राप्तप्रामाण्यस्य बाधकाभावेन निश्चितप्रामाण्यकेन प्रबलेन प्रत्यक्षेण मिथ्यात्वानुमानस्य बाधमुक्त्वाऽऽगमबाधं चाह ।। विश्वमिति। विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वामिति श्रुतेरयमर्थः। हे मघवानौ धनवन्तौ धनवन्तौ युवयोः सम्बन्धीदं विश्वं सङ्कोचकाभावात्प्रत्यक्षादिसिद्धं सर्वं सत्यं ब्रह्मवदबाध्यम्। अत एव तादृशविश्वान्तर्गतत्वादेव वां व्रतं तदर्थं कर्मविशेषम्। आपश्चनाबभिमानिन्यो देवता अपि प्रमिनन्ति प्रतीत्या विषयीकुर्वत इति। आदिपदेन यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता। याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः। सत्यःसो अस्य महिमा अथैनमाहुः सत्यकर्मेति। सत्यं ह्येवेदं विश्वमसौ सृजते। कथमसतः सज्जायेतेत्यादिश्रुतयः। विरोधो बाध इत्यर्थः।
भावदीपिका
सत्त्ववाक्यस्य निषेध्यार्थकत्वे जगद्विषयकवाक्येऽतिप्रसङ्गमभिधाय ब्रह्मविषयकवाक्येऽपि तमाह।। किञ्चेति। केचित्तु निषेधशास्त्रस्य निषेधप्रतियोग्यनपेक्षकं प्रति तत्समर्पकत्वमयुक्तम्। सत्यत्वं च न सप्रतियोगिकमिति तथैवातिप्रसङ्गान्तरमाह। किञ्चेतीत्यापाततः पूर्वफक्विकार्थं गृहीत्वाऽवतारयन्ति। इदमग्रेऽस्य जगतः पुरा। असदासीत्सदभाव आसीदित्यर्थः। तथा च तत्र प्रतियोग्यर्पकं सत्यज्ञानादिवाक्यमिति भावः। नन्वसदिति वाक्यं सृष्टेः प्रागव्याकृतनामरूपत्वमिदंशब्दार्थस्य प्रपञ्चस्याह न तु ब्रह्मसत्त्वाभावम्। तथा चेदं जगदसदासीदिति सामानाधिकरण्योपपत्तौ न तस्य शब्दार्थताकल्पनमपीति चेन्न। असदित्यस्याव्याकृतनामरूपत्वार्थकत्वेऽमुख्यत्वप्रसङ्गात्। किञ्च। अथ तस्यायमादेशो नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञं नाप्रज्ञं न प्रज्ञानघनमलक्षणमचिन्त्यमव्यपदेश्यमित्यत्रालक्षणमिति साक्षादेव सत्त्वादिरूपब्रह्मलक्षणनिषेधावगमाच्च। तथा तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसत्तस्मात्तमः सञ्जायत इत्यादि सुबालोपनिषदि स्पष्टं तन्निषेधाच्चेति न कोऽपि दोषः। अत एवाकरे आदिपदप्रयोगः।

अध्याय 15

भावदीपिका
एवं श्रुतिविरोधमुक्त्वा विश्वमिथ्यात्वस्य स्मृत्या निन्दनाच्च न तद्बाध्यमित्याह।। असत्यमिति। त आसुराः स्वयं नष्टा जगतः क्षयकारिण इत्युत्तरार्धेन तेषां निन्दनादिति भावः।।

अध्याय 16

भावदीपिका
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमविरोधमभिधायाधुनाऽनुमानविरोधं चाह।। विप्रतिपन्नमिति। अत्र यद्यपि प्रत्यक्षविरोधकथनानन्तरं क्रमप्राप्तानुमानविरोधमुक्त्वा पश्चादागमविरोधकथनमुचितम्। तथाऽप्यनुमानस्य स्वातन्त्र्येण साधकबाधकत्वान्यतराशक्तत्वात्प्रत्यक्षागमान्यतरमूलकस्यैव तच्छक्तत्वेन तदुभयनिरूपणान्तरमेतन्निरूपणमिति ध्येयम्। विप्रतिपन्नं स्त्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम्। असत्प्रातिभासिकब्रह्मान्यजगदित्यर्थः। सत्यमबाध्यम्। प्रमाणदृष्टत्वात्प्रमाणजन्यज्ञानं प्रत्यनिषेध्यत्वेनसाक्षाद्विषयत्वादित्यर्थः। दृष्टत्वाज्ज्ञानविषयत्वादित्युक्तौ शुक्तिरूप्ये व्यभिचारः। अतः प्रमाणेति। प्रमितिविषयत्वादित्यर्थः। तावत्युक्तेऽपि रूप्यज्ञानवानहमिति व्यवसायद्वारा शुक्तिरूप्यस्यापि साक्ष्यादिरूपप्रमाविषयत्वाद्व्यभिचार एव। अतः साक्षादिति। अव्यवधानेनेत्यर्थः। तावत्युक्तेऽप्यसद्रजतमिति बाधरूपप्रमां प्रति साक्षाद्विषयत्वेन पुनर्व्यभिचारः। अतो निषेध्यत्वेनेति विशेषणम्।। ब्रह्मवदिति। शुद्धब्रह्मवदित्यर्थः। ब्रह्मणो वृत्तिव्याप्यत्वमतेनेदं दृष्टान्तकथनमतो न साधनवैकल्यम्। अत्र व्याप्त्यनाभिधानं तदभिधाननियमाभाववसूचनाय।
भावदीपिका
आद्यपक्षमभ्युपेत्य तत्रासिद्धिमुद्वरति।। प्रत्यक्षादीति। यथायथं घटपटादिप्रपञ्चग्राहकप्रत्यक्षादिप्रमाणानामित्यर्थः।। मानाभावादिति। न च विश्वमिथ्यात्वमेव तन्मानमिति वाच्यम्। मिथ्यात्वसिद्धौ प्रत्यक्षादेरतत्त्वावेदकत्वसिद्धिरतत्त्वावेदकत्वसिद्धौ मिथ्यात्वसिद्धिरित्यन्योन्याश्रय इति भावः।
भावदीपिका
ननु यद्येवं हेतुस्तदा वादिनो व्यर्थविशेषणत्वं व्यावर्त्याभावादित्यनुशयेनाह।। किञ्चेति। असिद्धिमुद्धृत्य प्रमाणदृष्टत्वमात्रस्य व्यभिचारं चोद्धरति।। न हीति। नन्ववेद्ये ब्रह्मणि प्रमाणविषयत्वाभाव इत्याशङ्क्य तदभ्युगन्तृमतेनेदमभिधानमित्याह ।। वृत्तीति। अन्तःकरणपरिणामरूपज्ञानविषयताया इत्यर्थः। एवमसिद्धिव्यभिचारसाधनवैकल्यानामुद्धारेऽप्यधुना साध्यावौशिष्ट्यं शङ्कते।। तथाऽपीति। स्वरूपासिद्ध्याद्यत्वाभावेऽपीत्यर्थः। प्रमाणदृष्टत्वादित्यस्य प्रामाणिकत्वं पर्यवसितमित्यभिप्रेत्योक्तं प्रामाणिकत्वेति। प्रामाणिकत्वमेव सत्यत्वमिति वादिप्रतिवादिनोरन्यतरस्यापि न सम्मतमित्युक्तम्। तत्क्रमेणोपपादयति।। न तावदित्यादिना वृत्त्ययोगादित्यन्तेन।। प्रमाणविषयस्येति। वृत्यवेद्यत्ववादिमतेनेदं बोध्यम्।। प्रमाणिकत्वातिरिक्तस्येति। असति प्रमाणाप्रवृत्त्या तद्विषयत्त्वात्प्राक् तद्विषयत्वप्रयोजकस्यान्यस्यैवाबाध्यत्त्वादि रूपस्य वक्तव्यत्वादिति भावः।।
भावदीपिका
अनुत्तरत्वमेव विशदयति।। सिद्धीति।। दत्तोत्तरत्वादिति। दृश्यत्वहेतुदूषणावसरे स्वप्रकाशताया दूषितत्वादित्यर्थः। यद्वा स्वप्रकाशमिति स्वेनैव स्वयं प्रकाशत इत्यर्थ उत प्रमाणं विनेति। आद्ये स्वस्मिन्स्वस्य कारकताऽनभ्युपगमात्। द्वितीयेऽनुत्तरत्वादित्युक्तरीत्या दत्तोत्तरत्वादित्यर्थः। एवं प्रमाणदृष्टत्वेन जगतः सत्यत्वं प्रसाद्यानुमानान्तरेणापि तत्साधयति।। अर्थक्रियेति। अयमत्र प्रयोगः। विप्रतिपन्नं सत्यमर्थक्रियाकारित्वादात्मवदिति। अत्र साध्यं पूर्ववद्व्याख्येयम्।
भावदीपिका
ननु सर्पादिज्ञानस्य भयादिजनकत्वेऽप्यर्थानवच्छिन्नस्य केवलज्ञानस्य वा तज्जनकत्वमुतार्थावच्छिन्नस्य विशिष्टस्य वा। आद्यस्यातिप्रसङ्गदुष्टतया द्वितीयेऽङ्गीकार्ये आगतमसतोऽप्यर्थक्रियाकारित्वमिति भावेन शङ्कते।। नन्विति।। ज्ञानमात्रमिति। न त्वर्थविशेषितमित्यर्थः।। सकलेति। घटादिज्ञानानामपीत्यर्थः।। सर्पस्यापीति। विशेषणानन्वयिनो विशिष्टान्वयायोगादिति भावः। अर्थावच्छिन्नं ज्ञानं भयादिजनकमेवमपि न सर्पस्यार्थक्रियाकारितेति भावेन परिहरति।। नेति। रज्जोरेवाधिष्ठानभूताया इति शेषः। सर्पज्ञानं प्रति तस्या एव विषयत्वेन विषयस्यैव व्यावर्तकत्वात्तस्य च सत्यत्वेन न काचिदनुपपत्तिरित्यर्थः। इदं चार्थावच्छिन्नं ज्ञानं हेतुरित्यभ्युपेत्योक्तम्। वस्तुतस्त्वर्थानवच्छिन्नं सर्पादिज्ञानमेव भयादिहेतुः। न चासर्पज्ञानस्यापि हेतुताप्रसङ्गः। विषयावच्छेदमन्तरेण धर्मान्तरेणासर्पज्ञानाव्यावृत्तेः। तथा हि। सर्पज्ञानमसर्पज्ञानव्यावर्तकधर्मेपेतं ततो व्यावृत्तत्वात्सम्मतवदित्यनुमानात्तत्सिद्धिः। न च विषयेणार्थान्तरता। तस्यातद्धर्मत्वात्। नापि विषयसम्बन्धेन। ज्ञानज्ञेययोः संयोगादेरभावात्। स्वरूपप्रत्यासत्तेश्च ज्ञानस्वरूपानतिरिक्तत्वेन तद्व्यावर्तकत्वायोगात्।
भावदीपिका
ननु सविशषणे हीति न्यायेनातिरिक्तत्वरूपविशेषणमात्रमेव मिथ्या न तु विशेष्यमपि तत्सत्त्वबोधकानेकागमविरोधात्। तथा च न दोष इत्यनुशयेनाह।। किञ्चिति।। आत्मांशस्येति। विशिष्टान्वयिनो विशेष्यान्वयस्य नियतत्वात्।। स्वर्गी ध्वस्तो, लोहितोष्णीषा, ऋत्विजः प्रचरन्ति, न जीर्णमलवद्वासाः स्नातकः स्यादित्यादौ विशेष्यान्वयेन न विशिष्टान्वयोऽपि तु विशेषणमात्रान्वयित्वमेवेति ध्येयम्।

अध्याय 17

भावदीपिका
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमानुमानैर्बाधितविषयत्वमभिधायाधुनोपाधिं चाह।। दोषेति। चशब्दो दूषणसमुच्चयार्थः। दोषेण गम्यत्वं दोषगम्यत्वं दोषजन्यज्ञानविषयत्वमित्यर्थः। मिथ्यात्वेन सम्मते शुक्तिरूप्यादौ तस्य सत्त्वेन साध्यव्यापकत्वात् साधनवति पक्षे क्लृप्तातिदूरस्थत्वातिसामीप्यसौक्ष्म्यसमानद्रव्यभिघातादिदोषाणामभावस्य निश्चितत्वेन दोषगम्यत्वस्याभावात्साधनाव्यापकत्वमिति भावः।

अध्याय 18

भावदीपिका
एवं मिथ्यात्वहेतूनां सोपाधिकत्वमुक्त्वा दृष्टन्ते साध्यवैकल्यं चाह।। अनिर्वचनीयत्वेति। निदर्शनस्य शुक्तिरूप्यस्यासत्त्वसद्विविक्तत्वादिरूपमिथ्यात्वे विवक्षिते तस्य शुक्तिरूप्यादौ सिद्धान्तेऽपि सत्त्वान्न साध्यहीनतेत्यत उक्तमनिर्वचनीयत्वेति। तथा चानिर्वचनीयत्वस्याविद्यात्कार्ययोरन्यतरत्वस्य वा मिथ्यात्वस्य विवक्षायां साध्यहीनतेत्यर्थः। तयोः सिद्धान्ते तत्राङ्गीकारादिति।

अध्याय 19

भावदीपिका
मिथ्यात्वहेतूनां प्रतिकूलपराहतिं चाह।। किञ्चेति।। कल्प्यमानेति। कल्प्यमानं यज्जगत्तत्सदृशं सत्यभूतं यदधिष्ठानं यच्च प्रधानं तत्पूर्वकं स्यादित्यर्थः। यद्भ्रान्तिकल्पितं तत्तादृशसत्यवस्तुद्वयपूर्वकं यथा शुक्तिरूप्यमिति व्याप्तेरिति भावः। आपाद्यस्यानिष्टत्वमाह।। न चेति। कुतो न युक्तमित्यतो दृष्टान्तपूर्वं हेतुमाह।। पिण्याकेति। कश्चित्कञ्चित्पुरुषं पिण्याकं भक्षयितुं ययाचे। तदा स एनं बद्ध्वा खारीपरिमाणकं तैलं मह्यं दत्वा गच्छेत्युक्ते तर्हि दास्यामीति प्रतिज्ञा यथाऽधिका तद्वदेकस्य मिथ्यात्वं वक्तुमागतस्य तव सत्यवस्तुद्वयाङ्गीकारापातोऽधिक इत्यर्थः। विपर्यये पर्यवसानमाह।। तत इति। सत्यद्वयाङ्गीकारस्यायोगादित्यर्थः।
भावदीपिका
उक्तानुमाने च निरधिष्ठानत्वहेतोर्व्याप्तिहीनतामाशङ्कते।। नन्विति ।।व्यभिचारादिति। तत्र भ्रान्तिकल्पितत्वसत्त्वेऽपि साधिष्ठानत्वाभावादिति भावः।
भावदीपिका
पूर्वोक्तदूषणान्युद्धर्तुं शङ्कामुपक्षिपति।। नन्विति। उपादानानुपलम्भं समर्थयिष्यमाणस्तदनुगुणमुपादानमाह।। वासनेति। संस्कारेत्यर्थः। तत्र निमित्तकारणकर्तृजिज्ञासायामाह।। निमित्तेति। आदिपदार्थः कर्ता।
भावदीपिका
नन्वस्तु भ्रान्तिदृष्टस्य साधिष्ठानत्वनियमः। इहापि प्रपञ्चाध्यासे आत्मरूपाधिष्ठानमस्त्येव। स हि सर्वस्योपादानतया श्रुयते न चापरिणामिनः सा सम्भवति। अतोऽविद्योपादानके प्रपञ्चारोपेऽधिष्ठानमेव सिध्यतीति निरधिष्ठानत्वमसिद्धमिति शङ्कते।। निराधिष्ठानत्वमिति।। अविषयत्वादिति। घटादिप्रतीताविति शेषः अध्यस्तसम्भिन्नत्वेन प्रतीतस्यैवाधिष्ठानत्वात्। न हि शुद्धस्वरूपं घट इति प्रतीयत इति भावः।
भावदीपिका
युक्तन्तरेणापि जगत आत्मन्यारोपितत्वं निषेधति।। किञ्चेति। द्वितीय आह।। न चेदिति। अन्यत्र सत्त्वं न चेदित्यर्थः। रूप्यस्याप्यन्यत्र सत एव शुक्तिकादावारोपो दृष्ट इति भावः। तदेवोपपादयति।। न हीति। प्रधानस्यान्यत्र सत्त्वाभावे आरोप एव न सम्भवतीत्येतदभिप्रायकत्वं किञ्चेति ग्रन्थस्य बुद्‌ध्वाऽन्यत्र सत एवान्यत्रारोप इत्यभिप्रायं बुद्‌ध्वा चोदयति।। नास्माभिरिति। किन्त्वित्यादिनोक्तस्याभिप्रायं त्रेधा विकल्प्य दूषयति।। अनात्मेति।। किमिति। नञस्तदन्यतद्विरुद्धतदभावार्थकत्वादिति भावः।।
भावदीपिका
व्याप्तिमुपपाद्यानुमानमाह।। विमत इति। तस्मान्निरधिष्ठानत्वान्न भ्रान्तिकल्पितमित्यनुमानं सुस्थमित्याखण्डलकतात्पर्यार्थः।

अध्याय 20

भावदीपिका
यदि जगद्भ्रान्तिकल्पितमित्याद्यवान्तरप्रमेयस्योपयोगं दर्शयन्परमतमुपसंहरति।। एवमिति।। एवमुक्तप्रकारेण। त्रिविधमनुमानमिति शेषः।। छ ।।

अध्याय 21

भावदीपिका
एवं मिथ्यात्वहेतूनां बाधादिदोषानभिधायाधुनाऽनुकूलतर्काभावान्मिथ्यात्वहेतवः सर्वेऽप्रयोजका इति वक्तुं प्रतिजानीते।। किञ्चेति। दृशत्वमस्तु मिथात्वं मास्तु एवं सति न किञ्चिद्बाधकं पश्याम इत्यर्थः।
भावदीपिका
वृत्तिर्वेति द्वितीयं पक्षं निराह।। न द्वितीय इति। आध्यासिकसम्बन्धाभावेऽपि विषयविषयिभावरूपसम्बन्धेनैव वृत्तेरर्थप्रकाशकत्वोपपत्तेरित्यर्थः। नन्वान्तरस्य वृत्तिरूपस्य बाह्यघटादिसम्बन्धः कथं स्यात्। तथात्वे सर्वेणापि सम्बन्धः स्यादविशेषादित्यत उक्तं करणसामर्थ्यादिति। त्वयाऽपि प्रतिकर्मव्यवस्थासिद्ध्यर्थं तत्तत्सन्निकृष्टकरणजन्यतदाकारवृत्तिद्वारकसम्बन्धस्यावश्यं वक्तव्यत्वादिति भावः। कर्णसन्निकर्षादिकं नियामकं त्वयाऽप्यवश्यं वाच्यम्। अन्यथाऽतिप्रसङ्गः स्यादिति भावेनाध्यासिकसम्बन्धपक्षे बाधकमाह।। किञ्चिति। ऐक्यवादिनो हि द्विविधाः। एकजीववादिनो बहुजीववादिनश्चेति। एक एव ब्रह्म प्रतिबिम्बभूतो जीवोऽन्ये जीवा जडवत्स्वरूपेणैव कल्पिता यथा स्वप्न इत्येकजीववादिमतम्। बहुजीववादिनां तु मुखमिव दर्पणेष्वनेकाविद्यासु प्रतिबिम्बितं ब्रह्मानेकजीवभावमापद्यत इति तत्र भेदमात्रमसत्यं जीवास्त्वनन्ताः स्वरूपेण सत्या एवेति। मतद्वयेऽपि शुद्धं ब्रह्म जगदुपादानभूताविद्याधिष्ठानमिति। मतद्वयेऽपि जगदारोपाधिष्ठानं जीवो वा ब्रह्म वेति विकल्प्यैकजीवपक्षे प्रथमतो दोषमाह ।। जीव इति। तस्य सर्वदाऽहमिति भासमानत्वेन तत्राध्यस्तत्वे सर्वदा प्रपञ्चभानापत्तेरित्यर्थः। उपलक्षणमेतत्। तस्य विशिष्टस्य कल्पितत्वेनाधिष्ठानत्वायोगाच्चेत्यपि बोध्यम्। ब्रह्मणीति। तस्यासंसारमज्ञानावृतत्वेनाधिष्ठान प्रकाशभूतस्याध्यस्तस्फुरणोपायस्याभावादिति भावः।
भावदीपिका
चतुर्थं शङ्कते।। न चेति। लक्षणवत्तयेति शेषः।

अध्याय 22

भावदीपिका
मिथ्यात्वहेतूनां प्रतिकूलपराहतिं चाह।। किञ्चेति।। कल्प्यमानेति। कल्प्यमानं यज्जगत्तत्सदृशं सत्यभूतं यदधिष्ठानं यच्च प्रधानं तत्पूर्वकं स्यादित्यर्थः। यद्भ्रान्तिकल्पितं तत्तादृशसत्यवस्तुद्वयपूर्वकं यथा शुक्तिरूप्यमिति व्याप्तेरिति भावः। आपाद्यस्यानिष्टत्वमाह।। न चेति। कुतो न युक्तमित्यतो दृष्टान्तपूर्वं हेतुमाह।। पिण्याकेति। कश्चित्कञ्चित्पुरुषं पिण्याकं भक्षयितुं ययाचे। तदा स एनं बद्ध्वा खारीपरिमाणकं तैलं मह्यं दत्वा गच्छेत्युक्ते तर्हि दास्यामीति प्रतिज्ञा यथाऽधिका तद्वदेकस्य मिथ्यात्वं वक्तुमागतस्य तव सत्यवस्तुद्वयाङ्गीकारापातोऽधिक इत्यर्थः। विपर्यये पर्यवसानमाह।। तत इति। सत्यद्वयाङ्गीकारस्यायोगादित्यर्थः।
भावदीपिका
उक्तानुमाने च निरधिष्ठानत्वहेतोर्व्याप्तिहीनतामाशङ्कते।। नन्विति ।।व्यभिचारादिति। तत्र भ्रान्तिकल्पितत्वसत्त्वेऽपि साधिष्ठानत्वाभावादिति भावः।
भावदीपिका
पूर्वोक्तदूषणान्युद्धर्तुं शङ्कामुपक्षिपति।। नन्विति। उपादानानुपलम्भं समर्थयिष्यमाणस्तदनुगुणमुपादानमाह।। वासनेति। संस्कारेत्यर्थः। तत्र निमित्तकारणकर्तृजिज्ञासायामाह।। निमित्तेति। आदिपदार्थः कर्ता।
भावदीपिका
नन्वस्तु भ्रान्तिदृष्टस्य साधिष्ठानत्वनियमः। इहापि प्रपञ्चाध्यासे आत्मरूपाधिष्ठानमस्त्येव। स हि सर्वस्योपादानतया श्रुयते न चापरिणामिनः सा सम्भवति। अतोऽविद्योपादानके प्रपञ्चारोपेऽधिष्ठानमेव सिध्यतीति निरधिष्ठानत्वमसिद्धमिति शङ्कते।। निराधिष्ठानत्वमिति।। अविषयत्वादिति। घटादिप्रतीताविति शेषः अध्यस्तसम्भिन्नत्वेन प्रतीतस्यैवाधिष्ठानत्वात्। न हि शुद्धस्वरूपं घट इति प्रतीयत इति भावः।
भावदीपिका
युक्तन्तरेणापि जगत आत्मन्यारोपितत्वं निषेधति।। किञ्चेति। द्वितीय आह।। न चेदिति। अन्यत्र सत्त्वं न चेदित्यर्थः। रूप्यस्याप्यन्यत्र सत एव शुक्तिकादावारोपो दृष्ट इति भावः। तदेवोपपादयति।। न हीति। प्रधानस्यान्यत्र सत्त्वाभावे आरोप एव न सम्भवतीत्येतदभिप्रायकत्वं किञ्चेति ग्रन्थस्य बुद्‌ध्वाऽन्यत्र सत एवान्यत्रारोप इत्यभिप्रायं बुद्‌ध्वा चोदयति।। नास्माभिरिति। किन्त्वित्यादिनोक्तस्याभिप्रायं त्रेधा विकल्प्य दूषयति।। अनात्मेति।। किमिति। नञस्तदन्यतद्विरुद्धतदभावार्थकत्वादिति भावः।।
भावदीपिका
व्याप्तिमुपपाद्यानुमानमाह।। विमत इति। तस्मान्निरधिष्ठानत्वान्न भ्रान्तिकल्पितमित्यनुमानं सुस्थमित्याखण्डलकतात्पर्यार्थः।

अध्याय 23

भावदीपिका
यदि जगद्भ्रान्तिकल्पितमित्याद्यवान्तरप्रमेयस्योपयोगं दर्शयन्परमतमुपसंहरति।। एवमिति।। एवमुक्तप्रकारेण। त्रिविधमनुमानमिति शेषः।। छ ।।

अध्याय 24

भावदीपिका
ननु माऽस्तु दृश्यत्वादिकं मिथ्यात्वे मानम्। तथाऽप्ययं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात्पटत्वाद्वा पटान्तरवदिति तत्त्वप्रदीपोक्तानुमानात्तत्सिद्धेः।

अध्याय 25

भावदीपिका
अंशित्वानुमानस्य तर्कपराहतिं च वक्तुं पूर्ववदेवसाध्यं विकल्पयति ।। किञ्चेति। तर्कपराहतत्वप्रतिपादनपरत्वान्नपौनरुक्त्यमिति बोध्यम्।। संसर्गेति। आधाराधेयभावलक्षणेत्यर्थः।। त्त्वद्दर्शनविरोधादिति। त्वयाऽपि पटोदेर्व्यावारिकत्वरूपसत्त्वाभ्युपगमेनासत्त्वेऽभिधीयमानेऽपसिद्धान्त इत्यर्थः।
भावदीपिका
ननु न प्रत्यक्षमनुमानबाधकं नबोनीलमित्यक्ष बाधेनारूपित्वानुमापकामूर्तत्वाद्यनुमानस्येवात्राप्यक्षबाधेनैवानुमानागम प्रवृत्तिसम्भवादित्याशङ्क्यातिप्रसङ्गमुत्तरयति।। नन्विह नभसीत्यादिना।। प्रत्यक्षेति। प्रत्यक्षत्वेनाभिमतो यस्तद्वाधेनारूपित्वसाध्यकानुमानप्रवृत्तिवदित्यर्थः।। अप्रतिबद्धेति। प्रत्यक्षाप्रतिबद्धप्रवृत्त्या बाधवार्ताया अपन्हवः स्यात्। बाधोच्छेद इति यावत्। यद्यपीदं प्रागेवाशङ्क्य समाहितम्। तथाऽप्यधिकं विवृण्वन्पुनरेतदवतारितमित्यदोषः।
भावदीपिका
ननु श्रुतिपुराणादिष्वाकाशस्य शब्दगुणकत्वं प्रसिद्धमिति तद्विरोधोऽशब्दगुणकत्वसाधकानुमानस्येत्याशङ्क्य तुल्यमित्याह।। अथेति।। अरूपित्वमिति। यल्लोहितं तेजसो यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति रूपस्य पृथिव्यादित्रितयगतत्वस्यैवोक्तेरिति भावः। एवमुपपादितं प्रत्यक्षविरोधमुपसंहरति।। तस्मादिति। प्रत्यक्षस्यानुमानबाध्यत्वासम्भवादित्यर्थः। अत्राप्यंशित्वानुमानेऽपीत्यर्थः। सा कालातीतेत्यर्थः। तेनायं पटात्यन्ताभाव एतत्तन्तुनिष्ठ एतन्पटानाद्यभावत्वात्। एतत्पटप्रागभाववदित्यादीनि नवीनानुमानानि प्रत्याख्यातानि बोध्यानि। प्रत्यक्षबाधादिदोषस्य सर्वत्र प्रसरादिति।।