ब्रह्मसूत्रभाष्यम्/C04/S03/A020
Appearance
वायुगत्यधिकरणम्
ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ 02-527 ॥
अर्चिषो वायुं गच्छति ।‘स वायुमागच्छति’ इति सामान्यवचनात् ।‘स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्न आपूर्यमाणपक्षम्’ इति विशेषवचनाच्च ॥ 02 ॥