ब्रह्मसूत्रभाष्यम्/C04/S02/A010
Appearance
मनोऽधिकरणम्
ॐ तन्मनः प्राण उत्तरात् ॐ ॥ 03-506 ॥
‘मनः प्राण’ इत्युत्तराद्वचनान्मनोभिमानी रुद्रः प्राणे वायौ विलीयते ।
‘वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठः’ इति च कौण्डिन्यश्रुतिः ॥ 03 ॥