ब्रह्मसूत्रभाष्यम्/C04/S02/A009
Appearance
वाङ्मनसाधिकरणम्
ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ 01-504 ॥
इति शब्दाच्च ।
इति स्कान्दे ॥ 01 ॥‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।
तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद्विहीयते’
ॐ अत एव च सर्वाण्यनु ॐ ॥ 02-505 ॥
अत एव चशब्दात् सर्वाणि दैवतानि यथानुकूलं विलीयन्ते ।
‘अग्नौ सर्वे देवा विलीयन्तेऽग्निरिन्द्रे इन्द्र उमायामुमा रुद्रे विलीयते एवमन्यानि दैवतानि यथाऽनुकूलम्’ इति गौपवनश्रुतिः ॥ 02 ॥