Bhagavatatatparyanirnaya/C2/S3
Appearance
तृतीयोऽध्यायः
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
'अकामो धर्मकामो वा मोक्षकामोऽपि यो भवेत् ।
अथवा सर्वकामो यः स विष्णुं पुरुषं यजेत्। इति स्कान्दे ॥१०॥
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥ १७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे तृतीयोऽध्यायः ॥
तस्यायुष उत्तमश्लोकवार्तया ऋते यः क्षणः स नीत एव वृथा ॥ १७ ॥