Jump to content

Bhagavadgitatatparya/C7

From Grantha
Revision as of 19:08, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सप्तमोऽध्यायः

साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह- भगवन्महिमा विशेषत उच्यते ।

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥१ ॥


श्रीभगवानुवाच
ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते॥२ ॥


मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३ ॥


'अनन्तानां तु जीवानां यतन्ते केचिदेव तु ।मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् ।केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः ।अन्येषां यावता मुक्तिस्तावत् ज्ञानं हरौ परम् ॥ इति पाद्मे ।
         'मुक्तानामपि सिद्धानां नारायणपरायणः ।सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥ इति भागवते ।
'सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः ।विष्णोः परमभक्तस्तु तस्मात् जीवघनो मतः ॥ इति सत्तत्त्वे ॥३ ॥
भूमिरापोनलो वायुः खं मनो बुदि्धरेव च ।अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥४ ॥


अपरेयमितस्त्वन्यां प्रकृतिं विदि्ध मे पराम् ।जीवभूतां महाबाहो ययेदं धार्यते जगत्॥५ ॥


एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥६ ॥


'अचेतना चेतनेति द्विविधा प्रकृतिर्मता ।

त्रिगुणाचेतना तत्र चेतना श्रीर्हरिप्रिया । ते उभे विष्णुवशगे जगतः कारणे मते । पिता विष्णुः स जगतो माता श्रीर्या त्वचेतना ।

उपादानं तु जगतः सैव विष्णुबलेरिता ॥ इति ॥ ४-६ ॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥७ ॥


मत्तोन्यत् परतरं नास्ति । परतरस्त्वहमेवेत्यर्थः । अन्यथान्यदिति व्यर्थम् ।

'अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः । नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु । दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते । अनन्याधीनरूपत्वादसमाधिकसौख्यतः । तत्तन्त्रत्वाच्च सर्वस्य स विष्णुः परतमो मतः । अभावादन्तरान्यस्य त्विहैकार्थौ तरप्तमौ । यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः । तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः । अथावरतरा ये तु विमुखाश्चेतना हरेः । नित्यदुःखैकयोग्यत्वान्न ह्येतत् स्यादचेतने । अतः परत(रं)मं विष्णुं यो वेत्ति स विमुच्यते । मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात् । तत्रापि तारतम्यं स्यात् तेषु ब्रह्माधिको मतः । विष्णोराधिक्यसंवित्तिः सर्वस्माज्ज्ञानमुच्यते । एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम् । एतच्च तारतम्येन वर्तते केशवादिषु ।

मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनोपरे ॥७ ॥
रसोहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥८ ॥


पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥९ ॥


बीजं मां सर्वभूतानां विदि्ध पार्थ सनातनम् ।बुदि्धर्बुदि्धमतामस्मि तेजस्तेजस्विनामहम्॥१० ॥


बलं बलवतां (चाहं) अस्मि कामरागविवर्जितम् ।धर्माविरुद्धो भूतेषु कामोस्मि भरतर्षभ॥११ ॥


सोप्सु स्थित्वा रसयति रसनामा ततः स्मृऽतः ।

सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् । वेदस्थः प्रणवाख्योसावात्मानं यत् प्रणौत्यतः । खे स्थितः शब्दनामासौ यच्छब्दयति केशवः ॥८ ॥ पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः । तेजयत्यग्निसंस्थः (स) सन् भूतस्थो जीवनप्रदः । तपस्विसंस्थस्तपति ... ... ॥९ ॥ ... व्यञ्जनाद् बीजसञ्ज्ञितः । बोधनाद् बुदि्धनामासौ बुदि्धमत्सु व्यवस्थितः ॥१० ॥ नित्यपूर्णबलत्वात्तु बलकामविवर्जितः । अरा(जस)गजबलश्चैव स्थानेभ्योन्येष्वयोजनात् । एतादृशबलात्मासौ बलिनां बलदः स्वयम् । बेति पूर्णत्ववाची स्यात् तद्रतेर्बलमुच्यते । प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः । न धर्महानिकृत् किन्तु कामितो धर्मवृदि्धकृत् । धर्माविरुद्धकामोतो विष्णुर्भूतेषु संस्थितः । एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः ।

व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ॥११ ॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।मत्त एवेति तान्विदि्ध न त्वहं तेषु ते मयि॥१२ ॥


ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । तत एव नचान्यस्मात् तदायत्तमिदं न सः ॥ अन्यायत्तः ... ॥ १२ ॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥१३ ॥


दैवी ह्येषा गुणमयी मम माया दुरत्यया ।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥१४ ॥


न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।माययापहृतज्ञाना आसुरं भावमाश्रिताः॥१५ ॥


चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन ।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥१६ ॥


तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः॥१७ ॥


उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥१८ ॥


बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते ।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९ ॥


... अचेतनया तन्मेयत्वात्तु मायया ।

लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः । ये तु विष्णुं प्रपद्यन्ते ते मायां (तु) तां तरन्ति हि । लक्ष्मीः सा जडमायाया देवता ते उभे अपि । विष्णोर्वशे ततोनन्यभक्त्या तं शरणं व्रजेत् । यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् । अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु । कुर्याद् भक्तिं नान्यथा तु तद्वशा एव ते यतः । एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन । पूर्णं वस्तु यतो ह्येको वासुदेवो नचापरः ।

एवंविद् दुर्लभो लोके यत् सर्वे मिश्रयाजिनः ॥ १३-१९ ॥
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेन्यदेवताः ।तं तं नियममास्थाय प्रकृत्या नियताः स्वया॥२० ॥


यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥२१ ॥


स तया श्रद्धया युक्तस्तस्याराधनमीहते ।लभते च ततः कामान्मयैव विहितान्हि तान्॥२२ ॥


अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि॥२३ ॥


... ... यत् सर्वे मिश्रयाजिनः ॥ 'विष्णुं तत् परमज्ञात्वा रमाब्रह्महरादिकान् ।

यजन्नपि तमो घोरं नित्युदुःखं प्रयाति हि । अज्ञानां तु कुले जातो यावद् विष्णोः समर्चनम् । विष्णुतत्त्वं च जानीयात् तावत् सेवा पृथक् कृता । विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु । परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् । अजानता कृतं त्यक्तं न दोषाय भविष्यति । जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु । क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु । यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन ॥ इत्यादि च । 'मत्त एवेति तान् विदि्ध इत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते । मयि सर्वमिदं प्रोतम्" इति भेदेनैवोपक्रमाच्च । आप्नोति विष्णुमित्येवात्मशब्दो ज्ञानिनि । 'यच्चाप्नोति यदादत्ते इत्यादेः । 'आस्थितः स हि 'मां प्रपद्यते इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यते । वासुदेवः सर्वमिति पूर्णमिति जानन् । 'प्रपद्यन्तेन्यदेवताः इत्यादिवाक्यशेषे भेददर्शनाच्च । 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि इति च ॥ २०-२२ ॥ 'ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः । याति देवांस्तदज्ञात्वा तम एव प्रपद्यते । तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् ।

न निश्चिन्वन्ति जायन्ते संसारे ते पुनः पुनः ॥ इति च ॥२३ ॥
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।परं भावमजानन्तो ममाव्ययमनुत्तमम्॥२४ ॥


'अव्यक्तः परमात्मासौ व्यक्तो जीव उदाहृतः । मन्यते यस्तयोरैक्यं स तु यात्यधरं तमः ॥ इति च ॥२४ ॥
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।मूढोयं नाभिजानाति लोको मामजमव्ययम्॥२५ ॥


वेदाहं समतीतानि वर्तमानानि चार्जुन ।भविष्याणि च भूतानि मां तु वेद न कश्चन॥२६ ॥


'यथात्मानं हरिर्वेत्ति तथान्ये नैव तं विदुः । जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः ॥ इति च ॥२६ ॥
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।सर्वभूतानि संमोहं सर्गे यान्ति परन्तप॥२७ ॥


द्वन्द्वमोहो मिथ्याज्ञानम् ।'तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः । इति भारते ।जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः । सम्मोहः तदाग्रहः'तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते । इत्युक्तत्वात् ।सर्गे सर्गकाल एव ।'जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि ।विद्याज्जीवेश्वरैक्यं वा द्वन्द्वमोही स उच्यते ॥ इत्याग्नेये ॥२७ ॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥२८ ॥


जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥२९ ॥


साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।प्रयाणकालेपि च मां ते विदुर्युक्तचेतसः॥३० ॥


॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तमोध्यायः ॥
'तद् ब्रह्म इत्युक्तेन्यत्वाशङ्कां निवारयति साधिभूताधिदैवं मामिति । ॥३० ॥