Jump to content

Nyayavivaranam/C2/S1

From Grantha
Revision as of 19:07, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

प्रथमः पादः

स्मृत्यधिकरणम्


रुद्रादीनां सकाशात् विष्ण्वादीनामेवाप्तत्वम् । श्रुत्यनुसारित्वात् ॥1॥

नविलक्षणत्वाधिकरणम्


न च श्रुतेः(न श्रुतेः) रुद्रादिस्मृतिसाम्यम्, किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वात् ॥2॥

अभिमान्यधिकरणम्


न मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणम् । अपि तु, वचनादिशक्ताया देवताया मृदादिशब्दवाच्यत्वद्योतिकैव ॥3॥

असदधिकरणम्


ईश्वरस्य स्रष्टृत्ववदसतोऽपि स्रष्टृत्वं श्रूयत इति नास्ति । सोऽसच्छब्दो ब्रह्मशब्दवदेव ब्रह्मवाचक इति श्रुतिसाम्यम्(श्रुतेः साम्यम्) ॥4॥

भोक्त्रधिकरणम्


‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’() इति श्रुतिबलान्नैक्यम्। किन्तु भेदापादकमेवैतत्, ‘निरञ्जनः परमं साम्यमुपैति’(), ‘परात् परं पुरुषमुपैति(पुरिशयं पुरुषम्) दिव्यम्’() इति सन्निहितवाक्यबलात् । एकीभावशब्दस्तु सान्निध्येऽपि(सामीप्येऽपि)भवति । ‘एकीभूता तु सा सेना पाण्डवानभ्यवर्तत’() इतिवत् । ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम॥’ इति वाक्यान्तराच्च ॥5॥

आरम्भणाधिकरणम्


न च लौकिकसर्वकार्यानुसारेण(लौकिकसर्वकार्याणाम् अनुसारेण) अकर्तृतन्त्रत्वं सर्वानुसारः। किं तर्हि ? तद्वैलक्षण्येन सर्वकर्तृविलक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारि । ‘एष सर्वेश्वरः’() इति श्रुतेः(इत्यादि श्रुतेः) । युक्तिमात्रात् श्रुतियुक्ता हि युक्तिर्बलवती ॥6॥

इतरव्यपदेशाधिकरणम्


न चेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवम्। श्रुतिसिद्धत्वेन अकल्पनात् । अश्रुतजीवकर्तृत्वाङ्गीकारे गौरवमेव । तदभावात्(तदभावे) सिद्धान्ते लघुता । ‘नान्यः कर्ता, स हि स्वतन्त्रः, परमात् परमो हरिः’() इत्यादेश्च । अभेदपक्षस्तु निराकृतः । श्रुत्यनुभवविरोधाच्च ॥7॥

श्रुतेस्तु शब्दमूलत्वाधिकरणम्


शब्दैकसमधिगम्यत्व-सर्वशक्तित्वादीनां विशेषाणामदर्शनं(अदर्शनात्) जीवे । न जीवाद्विशेषादर्शनं परमेश्वरे । विशेषश्रुतेरेव ॥8॥

प्रयोजनाधिकरणम्


न च प्रयोजनाभावोऽकर्तृत्वे कारणम् । अशेषकर्तृत्वापादकश्च(अपवादकश्च) । फलापेक्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिः, इतरस्य पूर्णत्वादेवानन्तशक्तित्वाच्च लीलयैव(..शक्तित्वाल्लीलयैव) कर्तृत्वम् ॥9॥

वैषम्यनैर्घृण्याधिकरणम्


नेशस्य पूर्णत्वासिद्धिः । कर्मसापेक्षत्वेऽनीशत्वमनपेक्षत्वे श्रुतेरप्रामाण्यमिति । कर्मणोऽपि तदधीनत्वम् । तथाऽपि तदनुसारेण फलदानमित्यनङ्गीकार एव इष्टश्रुतिप्रामाण्यासिद्धिः ॥10॥

सर्वधर्मोपपत्त्यधिकरणम्


सर्वचेतना अपूर्णगुणा इति नियमो न । स्वतन्त्रस्य (च) पूर्णगुणत्वनियमात् ‘अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव । न हि स्वतन्त्रोऽपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतः सः ॥’ इति श्रुतेः ॥11॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य प्रथमः पादः ॥