Mahabharatatatparyanirnaya/C17/S1
Appearance
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत् ।रमैव रुग्मिणीति योद्यतां स्वयम्बराय ताम् ॥ १॥
स रुक्मिनामकोऽग्रजः श्रियो(श्रिया) द्विषन् रमापतिम् ।हरेः प्रदातुमुद्यतां(उद्यतान्) न्यवारयद्धरिप्रियाम् ॥ २॥
प्रघोषिते स्वयंवरेऽथ तेन मागधादयः ।समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः ॥ ३॥
तदा जगाम केशवो जवेन कुण्डिनं पुरम् ।स्मृतोऽथ तेन पक्षिराट् समाजगाम केशवम् ॥ ४॥
पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः ।यदेदृशं(यदीदृशं) पतत्रिणो बलं हरेः किमुच्यते ॥ ५॥
किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन् ।अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः ।किलैष पक्षिवाहनो यतश्च नान्यथा भवेत् ॥ ६॥
जिता वयं च सर्वशोऽमुनैकलेन संयुगे ।अनेकशो न सङ्गतैर्जितः कदाचिदेष हि ॥ ७॥
अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम् ।अदृश्यवाक्यतोऽत्यजत् प्रताडनात् सुपीडितम् ॥ ८॥
किमस्य (चोच्यते)तूच्यते बलं वयं तृणोपमाः कृताः ।समस्तशो मृधेमृधे हि येन चाक्षतेन हा ॥ ९॥
किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे ।इति ब्रुवन्नवाङ्मुखं नृपश्चकार विच्छविः ॥ १०॥
अथाऽह चेदिभूपतिः सदन्तवक्रको वचः ।पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा ॥ ११॥
शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः ।हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा ॥ १२॥
तथाऽऽवयोश्च दर्शने भवेत् कदाचिदूर्जिता ।अमुष्य भक्तिरन्यथा पुनश्च जायते क्रुधा ॥ १३॥
न कारणं च विद्महे न संशयः परो हरिः ।व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम् ॥ १४॥
इदं हि नः शुभप्रदं नचान्यथा शुभं क्वचित् ।इतीरितो जरासुतो ददर्श तौ दहन्निव ॥ १५॥
अथ प्रहस्य सौभराड् वचो जगाद मागधम् ।विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च ॥ १६॥
न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः ।प्रजात एष यादवो वयं च दानवेश्वराः ॥ १७॥
स्वधर्म एष नः सदा दृढप्रतीपता हरौ ।स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम् ॥ १८॥
शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरेः ।इतीरितः स मागधो जगाद साधु साध्विति ॥ १९॥
तथैव रुक्मिपूर्वकाः करूशचेदिपौ च तौ ।विनिश्चयं कुबुद्धयो युधे च चक्रुरूर्जितम् ॥ २०॥
सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि ।गुरोः प्रसादमाप्नुतां करूशचेदिभूभृतौ ॥ २१॥
पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः ।ध्रुवं समागतो हरिर्लभेत रुक्मिणीमिमाम् ॥ २२॥
अयं त्रिलोकसुन्दरोऽनुरूपिणी च रुक्मिणी ।मुखेन बाहुनाऽप्ययं समस्तलोकजिद् वशी ॥ २३॥
समस्तवेदिनां वरं जितारिमग्र्यरूपिणम् ।समस्तयोषितां वरा व्रजेत रुक्मिणी ध्रुवम् ॥ २४॥
वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा ।न शक्नुमो निवारितुं शरैरमुं कथञ्चन ॥ २५॥
अतः स्वयंवरे यथा न सङ्गमो हरेर्भवेत् ।तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम् ॥ २६॥
अतो न देयमस्य नः सुभूभुजां समागमे ।क्वचित् कदाचिदासनं नचार्घ्यपूर्वको विधिः ॥ २७॥
नचाऽस्यति क्षितौ क्वचिद् विमानितः पुरो हि नः ।वरासनस्थभूभुजां स मानितो हि दैवतैः ॥ २८॥
स दर्पमानसंयुतः क्रुधा प्रयास्यति ध्रुवम् ।पुरीं स्वकां ततौ वयं विधेम च स्वयंवरम् ॥ २९॥
इति स्म सर्वभूभृतां विनिश्चयं सकैशिकः ।क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम् ॥ ३०॥
प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च ।महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम् ॥ ३१॥
अथाऽगमच्छतक्रतोर्वचः प्रगृह्य भूभुजः ।जरासुतादिकान् पुमानुवाच चार्थवद् वचः ॥ ३२॥
अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः ।सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्वरो हि सः ॥ ३३॥
समस्तराजसत्पतिर्हरिर्न चान्य इत्यपि ।वराभिषेकमीशितुः कुरुध्वमाश्वसंशयम् ॥ ३४॥
अतोऽन्यथा शिरस्यहं निपातयामि वोऽशनिम् ।इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ ॥ ३५॥
तदीरितं निशम्य ते पुनः सुतप्तचेतसः ।बभूवुरूचिरे वचः सुगर्वितो हि वासवः ॥ ३६॥
पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः ।उताद्य कृष्णसंश्रयाद् दृढं विभीषयत्यसौ ॥ ३७॥
अदृश्य एव देवराड् यदि स्म वज्रमुत्सृजेत् ।भवेम पीडिता वयं वरादमृत्यवोऽपि हि ॥ ३८॥
पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः ।उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति ॥ ३९॥
अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः ।न वज्रमुत्सृजेत् तदाऽभिषेचयाम तं वयम् ॥ ४०॥
अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन् ।सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक् ॥ ४१॥
तथैव कृष्णसंश्रयात् स नः शचीपतिर्नयेत् ।इति स्म निश्चिता नृपानयातयन्त शौरये ॥ ४२॥
समस्तशो जरासुतादिभिः कृतेऽभिषेचने ।अतीव भग्नमानकान् न चानुयाति कश्चन ॥ ४३॥
समाश्रयं च केशवं तदैव जीवनार्थिनः ।प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः(देवकार्यसञ्चयम्) ॥ ४४॥
इतीक्ष्य (उदीक्ष्य) पाकशासनोऽवदज्जरासुतादिकान् ।सरुक्मिसाल्वचेदिपो न यातु मागधो हरिम् ॥ ४५॥
ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम् ।तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात् ॥ ४६॥
अतः शचीपतिर्निजं वरासनं हरेरदात् ।विवेश तत्र केशवो नभस्तलावतारिते ॥ ४७॥
करे प्रगृह्य केशवो न्यवेशयत् सहाऽसने ।पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः ॥ ४८॥
अथाखिला नरेश्वरा मुनीन्द्रसंयुता हरिम् ।सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम् ॥ ४९॥
विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः ।समस्तदेवगायकैः प्रगीत आस केशवः ॥ ५०॥
अथाऽह भीष्मकं प्रभुः स्वयंवरः किल त्वया ।अभीप्सितः सुताकृते शुभाय ते भवेन्न सः ॥ ५१॥
इयं रमा तवाऽत्मजा बभूव तां (हरेर्नच) हरेर्न चेत् ।ददाति चेत् तदा पिता निरिन्दिरो व्रजेदधः ॥ ५२॥
हिताय चैतदीरितं तवान्यथा न चिन्तय ।न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः ॥ ५३॥
उदीर्य चैवमीश्वरश्चकार हाऽविरात्मनः ।स विश्वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम् ॥ ५४॥
अनन्ततेज(अनेकतेज) आततं विसङ्ख्यरूपसंयुतम् ।विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम् ॥ ५५॥
ज्वलत्सुकौस्तुभप्रभाऽभिभासकं शुभाम्बरम् ।प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम् ॥ ५६॥
अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम् ।स्वरुक्मिणीतनोरपि व्यदर्शयच्च देवताः ॥ ५७॥
तदद्भुतं समीक्ष्य तु प्रभीत आशु भीष्मकः ।पपात पादयोर्विभोः(प्रभोः) करोमि तत् तथेति च ॥ ५८॥
पुनश्च विश्वरूपतां पिधाय पद्मलोचनः ।जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम् ॥ ५९॥
अपाम्पतिश्च मैथिलः स्वयंवरं कृतावपि ।हरिं विनिश्चयादियं व्रजेदिति स्म चक्रतुः ॥ ६०॥
स्वयंवरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः ।न दोष आस भीष्मको न केशवार्थमैच्छत ॥ ६१॥
अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे ।वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः ॥ ६२॥
यशश्च धर्ममुत्तमं विधित्सता वृकोदरे ।न केशवेन सूदितो जरासुतो हि मन्यते ॥ ६३॥
वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात् ।अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम् ॥ ६४॥
मृधे मृधे जितोऽपि सन् दृढाशया पुनः पुनः ।समीहते युधे शिवं नचावमन्यते क्वचित् ॥ ६५॥
अतः पुनश्च भूमिपानुवाच बार्हद्रथः ।धिगेव पौरुषं हि नो यदेष नोऽजयत् सदा ॥ ६६॥
अभूपतेर्न चाऽसनं प्रदेयमित्युदाहृतम् ।अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः ॥ ६७॥
अयं नृपोत्तमाङ्कणे महेन्द्रपीठमारुहत् ।समस्तराजराजतामवाप नोऽप्यनिच्छताम् ॥ ६८॥
अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम् ।यथा च भीष्मकात्मजामवाप्नुयाच्च चेदिराट् ॥ ६९॥
अयं हि दत्तपुत्रको म औरसाद् विशिष्यते ।अतो निवेश्य एष मे सुरूपिणी च रुग्मिणी ॥ ७०॥
शिवागमेषु शिष्यकाः सरुक्मिसाल्वपौण्ड्रकाः ।ममाखिला नृपास्ततः कुरुध्वमेतदेव मे ॥ ७१॥
इतीरिते तु सौभराड् जगाद रुक्मिसंविदा ।स्वयंवरो निवर्तितः स्वसारमेष दास्यति ॥ ७२॥
नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम् ।प्रदातुकाममात्मजं वयोगतस्तथाऽबलः ॥ ७३॥
स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत् ।ततोऽस्य पूर्वमेव नो ह्यभावता कृता शुभा ॥ ७४॥
उपाय एष चिन्तितो मयाऽत्र मागधेश्वर ।मुनिं हि गर्गनामकं ह्यमुष्य स्याल(शाल) आक्षिपत् ॥ ७५॥
यदाऽस्य षण्ढतोदिता मुनेः पुरो हि तस्य च ।परेण वृष्णयोऽहसंश्चुकोप गर्ग एषु ह ॥ ७६॥
चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम् ।अकृष्णतां य आनयेद् भुवोऽपि वृष्णिनाशकः ॥ ७७॥
यतो हि कृष्णसंश्रयाद् बतापहासिता वयम् ।इति ब्रुवन् वनं ययौ तपश्च शैवमाचरत् ॥ ७८॥
स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम् ।वरं ततोऽभिपेदिवान् सुतं हरेरभावदम् ॥ ७९॥
स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः ।व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ ॥ ८०॥
तमार चाऽसुराप्सरा बलिष्ठपुत्रकाम्यया ।प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा ॥ ८१॥
स यावनेन भूभृता हि गोपिकाभिरर्चितः ।अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम् ॥ ८२॥
स चाप्सरस्तनौ सुतं निषिच्य यावनाय च ।ददौ विमोहितः क्रुधा किमेतदीशवैरिणः ॥ ८३॥
स आश्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत् ।हरेश्च तापमेयिवान् जगर्ह चाऽत्मशेमुषीम् ॥ ८४॥
जगाम चारणं हरिं प्रपाहि मां सुपापिनम् ।इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः ॥ ८५॥
कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा ।भवादृशा हि दानवाः स्थिराः शिवार्चने सदा(असदा) ॥ ८६॥
सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम् ।सदैव कालकाङ्क्षणात् स यावनाभिषेचितः ॥ ८७॥
तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे ।प्रभूतसेनया युतो बलोद्धतश्च सर्वदा ॥ ८८॥
तमेष यामि शासनात् तवोपनीय सत्वरम् ।विकृष्णकं क्षितेस्तलं विधाय संरमामहे ॥ ८९॥
ततश्च रुक्मिणीं वयं प्रदापयाम चेदिपे ।विनाश्य देवपक्षिणो यथेष्टमास्म सर्वदा ॥ ९०॥
इतीरितो जरासुतो बभूव दुर्मना भृशम् ।किरीटमण्डितं शिरश्चकार चाऽश्ववाग् भृशम् ॥ ९१॥
करं करेण पीडयन् निशाम्य चाऽत्मनो भुजौ ।जगाद कार्यसिद्धये कथं प्रयाचये परम् ॥ ९२॥
सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाश्रयाः ।समस्तभूतळे नृपाः स चाहमेष मागधः ॥ ९३॥
कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम् ।गिरीशपादसंश्रयः प्रभुः समस्तभूभृताम् ॥ ९४॥
इतीरितः स सौभराड् जगाद वाक्यमुत्तमम् ।भवानपि स्म मुह्यते किमस्मदादयः प्रभो ॥ ९५॥
स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत् ।स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः ॥ ९६॥
अपि स्म ते बलाश्रयप्रवृत्तयोऽस्मदादयः ।पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम् ॥ ९७॥
कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः ।विना भवद्बलं क्वचित् प्रवर्तितुं नहि क्षमः ॥ ९८॥
वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात् ।तदन्यशत्रुपीडनात् त्वमेव तस्य रक्षकः ॥ ९९॥
तवाखिलैरजेयता शिवप्रसादतोऽस्ति हि ।विशेषतो हरेर्जये वरादयं विमृग्यते ॥ १००॥
इतीरितेऽप्यतृप्तवत् स्थिते तु बार्हद्रथे ।जगाम सौभमास्थितः स सौभराट् च यावनम् ॥ १०१॥
स कालयावनोऽथ तं जरासुतान्तिकागतम् ।निशम्य भक्तिपूर्वकं प्रणम्य चाऽर्चयद् द्रुतम् ॥ १०२॥
जरासुतो हि दैवतं समस्तकेशवद्विषाम् ।इति प्रणम्य तां दिशं तदीयमाश्वपूजयत् ॥ १०३॥
तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया ।अक्षोहिणीकया युतः स्वसेनया निराक्रमत् ॥ १०४॥
तदश्वमूत्रविष्ठया बभूव नामतः शकृत् ।नदी सुवेगगामिनी कलौ च या वहेद् द्रुतम् ॥ १०५॥
पुनःपुनर्नदीभवं निशाम्य देशसङ्क्षयम् ।तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः ॥ १०६॥
हरिश्च वैनतेययुग् विचार्य रामसंयुतः ।सदाऽतिपूर्णसंविदप्यजोऽथ लीलयाऽस्मरत् ॥ १०७॥
युयुत्सुरेष यावनः समीपमागतोऽद्य नः ।युयुत्सतामनेन नो जरासुतोऽभियास्यति ॥ १०८॥
स यादवान् हनिष्यति प्रभङ्गतस्तु कोपतः (कोपितः) ।पुरा जयाशया हि नौ यदून् न जघ्निवानसौ ॥ १०९॥
निराशकोऽद्य यादवानपि स्म पीडयिष्यति ।अतः समुद्रमध्यगापुरीविधानमद्य मे ।प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम् ॥ ११०॥
उदीर्य चैवमीश्वरोऽस्मरत् सुरेशवर्धकिम् ।स भौवनः समागतः कुशस्थलीं विनिर्ममे ॥ १११॥
निरम्बुके तु सागरे जनार्दनाज्ञया कृते ।महोदकस्य मध्यतश्चकार तां पुरीं शुभाम् ।द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम् ॥ ११२॥
चकार लावणोदकं जनार्दनोऽमृतोपमम् ।सभां सुधर्मनामकां ददौ समीरणोऽस्य च ॥ ११३॥
शतक्रतोः सभां तु तां प्रदाय केशवाय सः ।निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम् ॥ ११४॥
समस्तदेवतागणाः स्वकीयमर्पयन् हरौ ।विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः ॥ ११५॥
सम्स्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात् ।विधाय बाहुयोधकः स यावनं समभ्ययात् ॥ ११६॥
अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम् ।व्यवासयन्निजान् जनान् स लीलयैव केवलम् ॥ ११७॥
अनाद्यनन्तकालकं समस्तलोकमण्डलम् ।यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम् ॥ ११८॥
निरायुधं च मामयं वराच्छिवस्य न क्षमः ।समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत् ॥ ११९॥
स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत् ।निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति ॥ १२०॥
घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च ।बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत् ॥ १२१॥
किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः ।उदीर्य दूतमभ्ययात् स यावनं प्रबाधितुम् ॥ १२२॥
स बाहुनैव केशवो विजित्य यावनं प्रभुः ।निहत्य सर्वसैनिकान् स्वमस्य यापयत् पुरीम् ॥ १२३॥
सहास्त्रशस्त्रसञ्चयान् सृजन्तमाशु यावनम् ।न्यपातयद् रथोत्तमात् तलेन केशवोऽरिहा ॥ १२४॥
विवाहनं निरायुधं विधाय बाहुना क्षणात् ।विमूर्च्छितं नचाहनत् सुरार्थितं स्मरन् हरिः ॥ १२५॥
पुरा हि यौवनाश्वजे वरप्रदाः सुरेश्वराः ।ययाचिरे जनार्दनं वरं वरप्रदेश्वरम् ॥ १२६॥
अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत् ।अरिं भविष्ययावनं दहत्वयं तवेश्वर ॥ १२७॥
तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः ।ऋतं विधातुमभ्ययात् स यौवनाश्वजान्तिकम् ॥ १२८॥
ससञ्ज्ञकोऽथ यावनो धरातलात् समुत्थितः ।निपात्य यान्तमीश्वरं स पृष्ठतोऽन्वयात् क्रुधा ॥ १२९॥
हरिर्गुहां नृपस्य तु प्रविश्य संव्यवस्थितः ।स यावनः पदाऽहनन्नृपं स तं ददर्श ह ॥ १३०॥
स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात् ।स एव विष्णुरव्ययो ददाह तं हि वह्निवत् ॥ १३१॥
वराच्छिवस्य दैवतैरवध्यदानवान् पुरा ।हरेर्वरान्निहत्य स प्रपेद आश्विमं वरम् ॥ १३२॥
सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम् ।स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा ॥ १३३॥
अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम् ।स यौवनाश्वजो नृपो न देवतोषणं वृथा ॥ १३४॥
ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमाम् ।हरेरनुज्ञया तपश्चचार मुक्तिमाप च ॥ १३५॥
ततो गुहामुखाद्धरिर्विनिस्सृतो जरासुतम् ।समस्तभूपसंवृतं(संयुतं) जिगाय बाहुनेश्वरः ॥ १३६॥
तलेन मुष्टिभिस्तथा महीरुहैश्च चूर्णिताः ।निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत् ॥ १३७॥
ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः ।स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम् ॥ १३८॥
ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः ।जिगीषवोऽथ रुक्मिणीं विधाय(प्रदाय) चेदिपे हरिम् ॥ १३९॥
समस्तराजमण्डले विनिश्चयादुपागते ।सभीष्मके च रुक्मिणि प्रदातुमुद्यते मुदा(तदा) ॥ १४०॥
समस्तलोकयोषितां वरा विदर्भनन्दना ।द्विजोत्तमं हरेः पदोः सकाशमाश्वयापयत् ॥ १४१॥
निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात् ।तमन्वयाद्धलायुधः समस्तयादवैः सह ॥ १४२॥
समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम् ।सुयत्तमात्तकार्मुकं बभूव कन्यकावने ॥ १४३॥
पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम् ।रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृताम् ॥ १४४॥
जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः ।विधाय तान् निरायुधान् जगाम केशवः शनैः ॥ १४५॥
पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान् ।न्यवारयद्धलायुधो बलाद् बलोर्जिताग्रणीः ॥ १४६॥
तदा सितः शिरोरुहो हरेर्हलायुधस्थितः ।प्रकाशमाविशद् बलं विजेतुमत्र मागधम् ॥ १४७॥
स तस्य मागधो रणे गदानिपातचूर्णितः ।पपात भूतले बलो विजित्य तं ययौ पुरीम् ॥ १४८॥
वरोरुवेषसंवृतोऽथ चेदिराट् समभ्ययात् ।तमाससाद सात्यकिर्नदन् मृगाधिपो यथा ॥ १४९॥
चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ ।क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू ॥ १५०॥
समानभावमक्षमी शिनेः सुतात्मजः शरम् ।अथोद्बबर्ह तत्क्षणाद् बलान्मुमोच वक्षसि ॥ १५१॥
स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः ।विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः ॥ १५२॥
अथापरे च यादवा विजित्य तद्बलं ययुः ।पुरैव रुक्मिपूर्वकाः प्रजग्मुरच्युतं प्रति ॥ १५३॥
सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः ।हरिं ववर्ष सायकैः स सिंहवन्न्यवर्तत ॥ १५४॥
अक्षोहिणीत्रयं हरिस्तदा निहत्य सायकैः ।अवाहनायुधं व्यधान्निषादपं शरैः क्षणात् ॥ १५५॥
शरं शरीरनाशकं समाददानमीश्वरम् ।स एकलव्य आशु तं विहाय दुद्रुवे भयात् ॥ १५६॥
धनुर्भृतां वरे गते रणं विहाय भूभृतः ।करूशराजपूर्वकाः क्षणात् प्रदुद्रुवुर्भयात् ॥ १५७॥
अथाऽससाद केशवं रुषा स भीष्मकात्मजः ।शराम्बुधार आशु तं विवाहनं व्यधाद्धरिः ॥ १५८॥
चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः ।रथं समारुहच्छरैश्चकर्त खड्गमीश्वरः ॥ १५९॥
शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम् ।प्रियावचः प्रपालयन् जघान नैनमच्युतः ॥ १६०॥
निबद्ध्य पञ्चचूडिनं विधाय तं व्यसर्जयत् ।जगज्जनित्रयोरिदं विडम्बनं रमेशयोः ॥ १६१॥
सदैकमानसावपि स्वधर्मशासकौ नृणाम् ।रमा हरिश्च तत्र तौ विजह्रतुर्हि रुक्मिणा ॥ १६२॥
अथाऽससाद सौभराड् हरिं शराम्बुवर्षणः ।हरिः शरं यमोपमं मुमोच तस्य वक्षसि ॥ १६३॥
शरेण तेन पीडितः पपात मन्दचेष्टितः ।चिरात्तसञ्ज्ञकोऽगमत् त्रिनेत्रतोषणेच्छया ॥ १६४॥
समस्तराजसन्निधावयादवीं महीमहम् ।करिष्य इत्युदीर्य स व्यधात् तपोऽतिदुश्चरम् ॥ १६५॥
अथो विवेश केशवः पुरीं कुशस्थलीं विभुः ।प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्वरैः ॥ १६६॥
पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि ।स वारुणीसमाह्वयामवाप रैवतीं विभुः ॥ १६७॥
पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम् ।पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात् ॥ १६८॥
स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम् ।निशम्य नाविदद् गतं युगोरुकालपर्ययम् ॥ १६९॥
नरानयोग्यगीतिका विमोहयेत् ततो नृपः ।सुमूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत ॥ १७०॥
स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत ।सुतापतिं बलं च सोऽब्रवीद् युगात्यये बहौ ॥ १७१॥
स रैवतो बलाय तां प्रदाय गन्धमादनम् ।गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम् ॥ १७२॥
बलोऽपि तां पुरातनप्रमाणसम्मितां विभुः ।हलेन चाऽज्ञया समां चकार सत्यवाञ्छितः ॥ १७३॥
तया रतः सुतावुभौ शठोल्मुकाभिधावधात् ।पुराऽर्यमांशकौ सुरावुदारचेष्टितो बलः ॥ १७४॥
जनार्दनश्च रुग्मिणीकरं शुभे दिनेऽग्रहीत् ।महोत्सवस्तदाऽभवत् कुशस्थलीनिवासिनाम् ॥ १७५॥
चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः ।प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम् ॥ १७६॥
मुनीन्द्रदेवगायनादयोऽपि यादवैः सह ।विचेरुरुत्तमोत्सवे रमारमेशयोगिनि ॥ १७७॥
सुरांशकाश्च ये नृपाः समाहुता महोत्सवे ।सपाण्डवाः समाययुर्हरिं रमासमायुतम् ॥ १७८॥
समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ ।समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः ॥ १७९॥
तया रमन् जनार्दनो वियोगशून्यया सदा ।अधत्त पुत्रमुत्तमं मनोभवं पुरातनम् ॥ १८०॥
चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसंयुतः ।ततस्तदाह्वयोऽभवत् स रुग्मिणीसुतो बली ॥ १८१॥
पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह ।प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि ॥ १८२॥
स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् ।अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना ॥ १८३॥
तमग्रसज्जलेचरः स दाशहस्तमागतः ।कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः ॥ १८४॥
विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् ।न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम् ॥ १८५॥
अनङ्गतामुपागते पुरा हरेण साऽङ्गजे ।वशं विरिञ्चशापतो जगाम शम्बरस्य हि ॥ १८६॥
पुरा हि पञ्चभर्तृकां निशम्य कञ्जजोदिताम् ।जहास पार्षतात्मजां शशाप तां ततस्त्वजः ॥ १८७॥
भवासुरेण दूषितेति सा ततो हि मायया ।पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम् ॥ १८८॥
गृहेऽपि साऽऽसुरे स्थिता निजस्वरूपतोऽसुरम् ।न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षिता ॥ १८९॥
रसायनैः कुमारकं व्यवर्द्धयद् रतिः पतिम् ।स पूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः ॥ १९०॥
पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम् ।उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति ॥ १९१॥
जगाद साऽखिलं पतौ तदस्य(तदास्य) जन्म चाऽगतिम् ।ततोऽग्रहीत् स तां प्रियां रतिं रमापतेः सुतः ॥ १९२॥
ददौ च मन्त्रमुत्तमं समस्तमायिनाशकम् ।भृगूत्थरामदैवतं रतिर्हरेः सुताय सा ॥ १९३॥
ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः ।स शम्बरं स चैत्य तं युयोध शक्तितो बली ॥ १९४॥
स चर्मखड्गधारिणं वरास्त्रशस्त्रपादपैः ।यदा न योद्धुमाशकद्धरेः सुतं न दृश्यते ॥ १९५॥
सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन् ।सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः ॥ १९६॥
स विद्यया विनाशितोरुमाय आशु शम्बरः ।निकृत्तकन्धरोऽपतद् वरासिनाऽमुना क्षणात् ॥ १९७॥
निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम् ।समास्थितः स्वभार्यया समं कुशस्थलीं ययौ ॥ १९८॥
समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः ।रमारमेशयोः सुतं जगाद तं स्म नारदः ॥ १९९॥
स रुग्मिणीजनार्दनादिभिः सरामयादवैः ।पितामहेन चाऽदरात् सुलालितोऽवसत् सुखम् ॥ २००॥
ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले ।स्थिताद्धरेः स सत्रजित् सदाऽत्र केशवार्चकः ॥ २०१॥
सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम् ।प्रकाशयन् रमापतिर्ययाच ईश्वरो मणिम् ॥ २०२॥
स तं न दत्तवांस्ततोऽनुजो निबद्ध्य तं मणिम् ।वनं गतः प्रसेनको मृगाधिपेन पातितः ॥ २०३॥
तदा स सत्रजिद्धरिं शशंस सोदरान्तकम् ।उपांशु वर्त्मना ततो हरिः सयादवो ययौ ॥ २०४॥
वने स सिंहसूदितं पदैः प्रदर्श्य वृष्णिनाम् ।प्रसेनमृक्षपातितं स सिंहमप्यदर्शयत् ॥ २०५॥
ततो निधाय तान् बिलं स जाम्बवत्परिग्रहम् ।विवेश तत्र संयुगं बभूव तेन चेशितुः ॥ २०६॥
युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः ।चकार चोग्रमन्ततः प्रकाशयन् स्वमस्य हि ॥ २०७॥
स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः ।जगाम चेतसाऽरणं रघूत्तमं निजं पतिम् ॥ २०८॥
स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे ।समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवैत् ॥ २०९॥
ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम् ।मणिं च तं नुनाव(ननाम) स प्रपन्न आशु पादयोः ॥ २१०॥
विधाय चक्रदारितं सुजीर्णदेहमस्य सः ।युवानमाशु केशवश्चकार वेदनां विना ॥ २११॥
विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः ।प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात् ॥ २१२॥
गुहाप्रविष्टमीश्वरं बहून्यहान्यनिर्गतम् ।प्रतीक्ष्य यादवास्तु ये गता गृहं तदाऽहृषुः ॥ २१३॥
समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम् ।ददौ च सत्रजित्करे स विच्छविर्बभूव ह ॥ २१४॥
स दुर्यशो रमापतावनूच्य मिथ्यया तपन् ।स्वपापहान(नि)काङ्क्षया ददौ सुतां जनार्दने ॥ २१५॥
मणिं च तं प्रदाय तं ननाम ह क्षमापयन् ।मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया ॥ २१६॥
रमैव सा हि भूरिति द्वितीयमूर्तिरुत्तमा ।बभूव सत्रजित्सुता समस्तलोकसुन्दरी ॥ २१७॥
ततो हि सा च रुगक्मिणी प्रिये प्रियासु तेऽधिकम् ।जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः ॥ २१८॥
अथाऽप साम्बनामकं सुतं च रोहिणी हरेः ।चतुर्मुखांशसंयुतं कुमारमेव षण्मुखम् ॥ २१९॥
इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम् ।अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः ॥ २२०॥
जनार्दनः स नामतो रमेशपादसंश्रयः ।स मानितश्च विष्णुना प्रणम्य वाक्यमब्रवीत् ॥ २२१॥
क्षमस्व मे वचः प्रभो ब्रवीम्यतीव (पातकम्)पापकम् ।यतः सुपापदूतकस्ततो हि तादृशं वचः ॥ २२२॥
न तेऽस्त्यगोचरं क्वचित् तथाऽपि चाऽज्ञया वदे ।वदेति चोदितोऽमुना द्विजो जगाद माधवम् ॥ २२३॥
सुतौ हि साल्वभूपतेर्बभूवतुः शिवाश्रयौ ।शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ ॥ २२४॥
अजेयतामवध्यतां (अजेयवध्यतां) च तौ शिवाद् वरं समापतुः ।जरासुतस्य शिष्यकौ तपोबलेन केवलम् ॥ २२५॥
महोदरं च कुण्डधारिणं च भूतकावुभौ ।तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः ॥ २२६॥
तयोः सहाय एव तौ वराच्छिवस्य भूतकौ ।अजेयतामवापतुर्न चान्यथाऽमरावपि ॥ २२७॥
अजेयतामवध्यतामवाप्य तावुभौ शिवात् ।पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ(महोद्धतौ) ॥ २२८॥
जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति ।नृपांस्तु देवपक्षिणो विजित्य कर्तुमिच्छतः ॥ २२९॥
स्वयं हि राजसूयितां जरासुतो न मन्यते ।यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः ॥ २३०॥
इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा ।समिच्छतोऽद्य(समिच्छतोऽच्युतक्रतुं) तं क्रतुं भवन्तमूचतुश्च तौ ॥ २३१॥
समुद्रसंश्रयो भवान् बहून् प्रगृह्य लावणान् ।सुभारकानुपैहि नाविति क्षमस्व मे वचः ॥ २३२॥
इतीर्य तं ननाम स प्र चाहसन् स्म यादवाः ।हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः ॥ २३३॥
प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ ।समेत्य वां वरायुधैः करं ददान्यसंशयम् ॥ २३४॥
उपैतमाशु संयुगार्थिनौ च पुष्करं प्रति ।इतीरितः शिनेः सुतो जगाम विप्रसंयुतः ॥ २३५॥
उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली ।विधाय तौ तृणोपमौ गिरा जगाम केशवम् ॥ २३६॥
ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम् ।सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम् ॥ २३७॥
दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित् ।विपाटितात्मकौपिनादिसर्वमात्रकोऽभवत् ॥ २३८॥
वरात् स्वसम्भवादसौ न शापशक्तिमानभूत् ।ततः समस्तभञ्जनोरुशक्तिमाप केशवम् ॥ २३९॥
स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः ।ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः ॥ २४०॥
तमत्रिजं हरात्मकं यतो हि वेद मागधः ।ततोऽत्यजत् स्वशिष्यकौ निशम्य तत्प्रतीपकौ ॥ २४१॥
हरौ तु पुष्करं गते मुनीश्वरैः समर्चिते ।समीयतुश्च तावुभावथात्र हंसडीभकौ ॥ २४२॥
स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ ।समागतौ च भूतकौ शिवस्य यौ पुरस्सरौ ॥ २४३॥
विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम् ।अवध्यतामजेयतामवाप्य बाधते सुरान् ॥ २४४॥
स चाभवत् तयोः सखा सहायकाम्ययाऽगमत् ।हिडिम्बराक्षसोऽपि यः पुराऽऽप शङ्कराद् वरम् ॥ २४५॥
न जीयसे न वध्यसे कुतश्चनेति तोषितात् (तोषणात्)।स चैतयोः सखाऽभवत् समाजगाम तत्र च ॥ २४६॥
अक्षोहिणीदशात्मकं बलं तयोर्बभूव ह ।विचक्रगं षडात्मकं तथैकमेव राक्षसम् ॥ २४७॥
द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ ।समीयतुर्युधे हरिं हरिश्च तौ ससार ह ॥ २४८॥
अथ द्वयोर्द्वयोरभूद् रणो भयानको महान् ।हरिर्विचक्रमेयिवान् बलश्च हंसमुद्धतम् ॥ २४९॥
तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी ।गदश्च नामतोऽनुजो हरेः स रोहिणीसुतः ॥ २५०॥
पुरा स चण्डको गणो हरेर्निवेदिताशनः ।समाह्वयद् रणाय वै तयोः स तातमेव हि ॥ २५१॥
अक्षोहिणीत्रयान्विताः समस्तयादवास्तदा ।त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ ॥ २५२॥
हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम् ।विवाहनं निरायुधं क्षणाच्चकार सायकैः ॥ २५३॥
पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा ।शिरो जहार देवता विनेदुरत्र हर्षिताः ॥ २५४॥
प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः ।ससार तौ हरानुगौ प्रभक्षकौ(प्रभञ्जकौ) स सात्त्वताम् ॥ २५५॥
समस्तयादवान् रणे विधूय तौ जनार्दनम् ।उपेत्य चांसगौ हरेरदंशतां सुकर्णकौ ॥ २५६॥
स तौ भुजप्रवेगतो विधूय शङ्करालये ।न्यपातयद् बलार्णवोऽमितस्य किं तदुच्यते ॥ २५७॥
प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम् ।सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन् ॥ २५८॥
तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली ।प्रगृह्य तावभाषत प्रयातमाशु मे मुखम् ॥ २५९॥
तदा गदावरायुधः सहैव हंसभूभृता ।प्रयुद्ध्यमान आययौ विहाय तं हलायुधः ॥ २६०॥
तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः ।उपेत्य मुष्टिनाऽहनद् बलं स वक्षसि क्रुधा ॥ २६१॥
उभौ हि बाहुषालिनावयुद्ध्यतां च मुष्टिभिः ।चिरं प्रयुद्ध्य तं बलोऽग्रहीत् स जङ्घयोर्विभुः ॥ २६२॥
अथैनमुद्धृतं बलाद् बलः स दूरमाक्षिपत् ।पपात पादयोजने स नाऽजगाम तं पुनः ॥ २६३॥
विहाय सैनिकांश्च तौ नृपौ ययौ वनाय सः ।निहत्य तस्य राक्षसान् हलायुधो ननाद ह ॥ २६४॥
गदस्तु साल्वभूभृता वयोगतेन योधयन् ।विवाहनं निरायुधं चकार सोऽप्यपाद्रवत् ॥ २६५॥
सुतेन तस्य कन्यसा युयोध सात्यकी रथी ।वरास्त्रशस्त्रयोधिनौ विजह्रतुश्च तावुभौ ॥ २६६॥
चिरं प्रयुद्ध्य सात्यकिः स हंसकन्यसा बली ।शतं सपञ्चकं रणे चकर्त तस्य धन्विनाम् ॥ २६७॥
स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः ।स चैनमभ्ययात् तथा वरासिचर्मभृद् विभीः ॥ २६८॥
द्विषोडशप्रभेदकं वरासियुद्धमश्रमौ ।प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम् ॥ २६९॥
परस्परान्तरैषिणौ(अन्तरेषिणौ) नचान्तरं व्यपश्यताम् ।ततो विहाय सङ्गरं गतौ निरर्थकं त्विति ॥ २७०॥
ततः स हंससंयुतो जगाम योद्धुमच्युतम् ।क्षणेन तौ निरायुधौ चकार केशवः शरैः ॥ २७१॥
हतं च सैन्यमेतयोश्चतुर्थभागशेषितम् ।क्षणेन केशवेन तद्भयादपेयतुश्च तौ ॥ २७२॥
स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे ।उवास तां निशां प्रभुः सयादवोऽमितप्रभः ॥ २७३॥
परे दिने जनार्दनो नृपात्मजौ प्रविद्रुतौ ।यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः ॥ २७४॥
स रौहिणेयसंयुतः समन्वितश्च सेनया ।स्वशिष्टसेनया वृतौ पलायिनाववारयत् ॥ २७५॥
निवृत्य तौ स्वसेनया शरोत्तमैर्ववर्षतुः ।सुकोपितौ समस्तशो यदूनवार्यपौरुषौ ॥ २७६॥
अथाऽससाद हंसको हलायुधं महाधनुः ।अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान् ॥ २७७॥
स सात्यकिं निरायुधं विवाहनं विवर्मकम् ।व्यधाद् गदं च तौ रणं विहाय हापजग्मतुः ॥ २७८॥
विधूय सैनिकांश्च स प्रगृह्य चापमाततम् ।हरिं जगाम चोन्नदन् महास्त्रशस्त्रवर्षणः ॥ २७९॥
तमाशु केशवोऽरिहा समस्तसाधनोज्झितम् ।क्षणाच्चकार सोऽप्यगाद् विसृज्य तं हलायुधम् ॥ २८०॥
हलायुधो निरायुधं विधाय हंसमोजसा ।विकृष्टचाप आगतं ददर्श तस्य चानुजम् ॥ २८१॥
स हंस आशु कार्मुकं पुनः प्रगृह्य तं बलम् ।यदाऽऽससाद केशवो न्यवारयत् तमोजसा ॥ २८२॥
शिनेः सुतात्मजोऽप्यसौ विहाय हंसकानुजम् ।रथान्तरं समास्थितो जगाम तातमस्य च ॥ २८३॥
वयोगतः पिता तयोर्युयोध तेन वृष्णिना ।शरं च कण्ठकूबरे व्यसर्जयत् स सात्यकेः ॥ २८४॥
स सात्यकिर्दृढाहतो जगाम मोहमाशु च ।सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्द्धचन्द्रकम् ॥ २८५॥
स तेन तच्छिरो बली चकर्त शुक्लमूर्द्धजम् ।यदम्बयाऽभिकामितं पुरा पपात तत् क्षितौ ॥ २८६॥
नदंश्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः ।बलोऽपि हंसकानुजं युयोध सेनया युतम् ॥ २८७॥
हरिस्तु हंसमुल्बणैः शरैः समर्दयन् बलम् ।जघान तस्य सर्वशो न कश्चिदत्र शेषितः ॥ २८८॥
स एक एव केशवं महास्त्रमुक् ससार ह ।निवार्य तानि सर्वशो हरिर्निजास्त्रमाददे ॥ २८९॥
स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम् ।गतः पराद्रवद् भयात् पपात यामुनोदके ॥ २९०॥
वरास्त्रपाणिरीश्वरः पदाऽहनिच्छरस्यमुम् ।स मूर्छितो मुखेऽपतन्महाभुजङ्गमस्य ह ॥ २९१॥
स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान् ।तथा सुदुःखसंयुतो वसन् मनोः परं म्रियेत् ॥ २९२॥
ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्चयात् ।तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत् ॥ २९३॥
विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन् ।अपश्यमान आत्मनो व्यपाटयच्च काकुदम् ॥ २९४॥
विहाय देहमुल्बणं तमोऽवतीर्य चाग्रजम् ।प्रतीक्षमाण उल्बणं समत्ति तत् सुखेतरम् ॥ २९५॥
ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः ।समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः ॥ २९६॥
स्वकीयपादपल्लवाश्रयं जनं प्रहर्षयन् ।उवास नित्यसत्सुखार्णवो रमापतिर्गृहे ॥ २९७॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये हंसडिभकवधो नाम सप्तदशोऽध्यायः