Jump to content

Mahabharatatatparyanirnaya/C9/S1

From Grantha
Revision as of 19:07, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ अथाऽप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाऽशु ।इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम् ॥ १॥


न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हति ।नहीदृशः कश्चिदनुग्रहः क्‍वचित् तदेव मे देहि ततः सदैव ॥ २॥


इतीरितस्तस्य तदेव दत्त्वा दृढं समाश्लिष्य च राघवः प्रभुः ।स यौवराज्यं भरते निधाय जुगोप लोकानखिलान् सधर्मकान् ॥ ३॥


प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ ।जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्च बभूव कस्यचित् ॥ ४॥


गुणैश्च सर्वैरुदिताश्च सर्वे यथायथा योग्यतयोच्चनीचाः ।समस्तरोगादिभिरुज्झिताश्च सर्वे सहस्रायुष ऊर्जिता धनैः ॥ ५॥


सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः ।समस्तदोषैश्च सदा विहीनाः सर्वे सुरूपाश्च सदा महोत्सवाः ॥ ६॥


सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम् ।समस्तरत्नोद्भरिता च पृथ्वी यथेष्टधान्या बहुदुग्धगोमती ॥ ७॥


समस्तगन्धाश्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र ।शब्दाश्च सर्वे श्रवणातिहारिणः स्पर्शाश्च सर्वे स्पर्शेन्द्रियप्रियाः ॥ ८॥


न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहीनश्च बभूव कस्यचित् (कश्चन) ।नाधर्मशीलो न च कश्चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्च ॥ ९॥


स्त्रियो नचाऽसन् विधवाः कथञ्चिन्न वै पुमांसो विधुरा बभूवुः ।नानिष्टयोगश्च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः ॥ १०॥


यथेष्टमाल्याभरणानुलेपना यथेष्टपानाशनवाससोऽखिलाः ।बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे ॥ ११॥


स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्द्धन्यरत्नपरिघट्टितपादपीठः ।नित्यं सुरैः सह नरैरथ वानरैश्च सम्पूज्यमानचरणो रमते रमेशः ॥ १२॥


तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीताभिधा त्वरमयत् स्वरतं सुरेशम् ।नित्यावियोगिपरमोच्चनिजस्वभावा सौन्दर्यविभ्रमसुलक्षणपूर्वभावा ॥ १३॥


रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः ।पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु ॥ १४॥


गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः ।तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः ॥ १५॥


एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः ।आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः ॥ १६॥


देव्यां स चाजनयदिन्द्रहुताशनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ ।शत्रुघ्नतो लवणमुद्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः ॥ १७॥


कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम् ।संशिक्षयन्नयजदुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाश्च यत्र ॥ १८॥


अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम् ।उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम् ॥ १९॥


जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः ।बभूव शूद्रः कल्पायुः स लोकक्षयकाम्यया ।तपश्चचार दुर्बुद्धिरिच्छन् माहेश्वरं पदम् ॥ २०॥


अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः ।श्वेतदत्तां तथा मालामगस्त्यादाप राघवः ॥ २१॥


अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम् ।कुर्वन् स्वमांसैर्धात्रोक्तो मालां रामार्थमर्पयत् ।अगस्त्याय न साक्षात्तु रामे दद्यादयं नृपः ॥ २२॥


क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम् ।क्षुदभावमात्रमाकाङ्क्षन् मामसौ परिपृच्छति ॥ २३॥


व्यवधानतस्ततो रामे दद्याच्छ्वेत इति प्रभुः ।मत्वा ब्रह्माऽदिशन्मालां प्रदातुं कुम्भयोनये ॥ २४॥


तामगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः ।इत्यवेत्य जगृहे जनार्दनस्तेन संस्तुत उपागमत् पुरम् ॥ २५॥


अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा ।ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेत्य (अवेक्ष्य) चोचिरे ॥ २६॥


भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण ।इत्युदीरितमजोऽवधार्य तत् प्राह च प्रहसिताननः प्रभुः ॥ २७॥


यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम् ।तावदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत् ॥ २८॥


इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ ।साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन् ॥ २९॥


ताननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान् ।मैथिलस्य तनया व्यचालयन्मायया स्वतनुवा स्वमार्गतः ॥ ३०॥


आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन् ।राघवो निशिचराहृतां पुनर्जानकीं जगृह इत्यनेकशः ॥ ३१॥


ब्रह्मवाक्यमृतमेव कारयन् पातयंस्तमसि चान्ध आसुरान् ।नित्यमेव सहितोऽपि सीतया सोऽज्ञसाक्षिकमभूद् वियुक्तवत् ॥ ३२॥


तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम् ।तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता ॥ ३३॥


गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम् ।तेन तद्वचनं सत्सु नानृतं कुरुते क्‍वचित् ॥ ३४॥


नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम् ।ऐहिकं त्वसुरेष्वेव क्‍वचिद्धन्ति जनार्दनः ॥ ३५॥


निजाधिक्यस्य विज्ञप्त्यै क्‍वचिद् वायुस्तदाज्ञया ।हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः ॥ ३६॥


नान्यः कश्चित् तद्वराणां शापानामप्यतिक्रमी ।अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा ।एकदेशेन सत्यं तु योग्येष्वपि कदाचन ॥ ३७॥


न विष्णोर्वचनं क्‍वापि मृषा भवति कस्यचित् ।एतदर्थोऽवतारश्च विष्णोर्भवति सर्वदा ॥ ३८॥


प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः ।रेमे रामेणावियुक्ता भास्करेण प्रभा यथा ॥ ३९॥


एवं रमालाळितपादपल्लवः पुनः स यज्ञैरयजत्स्वमेव ।वराश्वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन् ॥ ४०॥


रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा ।भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः ॥ ४१॥


एवं विधान्यगणितानि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः ।शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्च ॥ ४२॥


तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः ।वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशंसुः ॥ ४३॥


आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चाशु ।रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे ॥ ४४॥


एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः ।वैशेष्यमात्मभवनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा ॥ ४५॥


पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम् ।सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम् ॥ ४६॥


यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव ।तत् साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन् ॥ ४७॥


ओम् इत्युवाच भगवांस्तदशेषमेव श्रुत्वा रहस्यथ तनुस्त्वपरा हरस्य ।दुर्वासनामयुगिहाऽगमदाशु राम मां भोजय क्षुधितमित्यसकृद् ब्रुवाणः ॥ ४८॥


सिद्धं न देयमथ साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात् ।अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः ॥ ४९॥


तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः ।एवम्प्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान् नतु कश्चिदन्यः ॥ ५०॥


कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तु रामः स कृष्णतनुवा स्वबलाज्जिगाय ।तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः ॥ ५१॥


एकान्ते तु यदा रामश्चक्रे रुद्रेण संविदम् ।द्वारपालं स कृतवांस्तदा लक्ष्मणमेव सः ॥ ५२॥


यद्यत्र प्रविशेत् कश्चिद्धन्मि त्वेति वचो ब्रुवन् ।तदन्तराऽऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः ॥ ५३॥


दुर्वाससः प्रतिज्ञा तु रामं प्राप्यैव भज्यताम् ।अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम् ॥ ५४॥


राघवो घ्नन्नपि तु मां करोत्येव दयां मयि ।इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा ॥ ५५॥


स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः ।इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत् ॥ ५६॥


अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन् ।याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम् ॥ ५७॥


इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः ।आसिच्छेषमहाफणी मुसलभृद् दिव्याकृतिर्लाङ्गली पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च ॥ ५८॥


अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः ।समघोषयच्च य इहेच्छति तत् पदमक्षयं सपदि मैत्वितिसः ॥ ५९॥


श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथाऽतृणमापिपीलम् ।रामाज्ञया गमनशक्तिरभूत् तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन् ॥ ६०॥


संस्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः ।संस्थाप्य वालितनयं कपिराज्य आशु सूर्यात्मजोऽपि रघुवीरसमीपमायात् ॥ ६१॥


अथाऽह वायुनन्दनं स राघवः समाश्लिषन् ।तवाहमक्षगोचरः सदा भवामि नान्यथा ॥ ६२॥


त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम् ।तदेव मे महत् प्रियं चिरं तपस्त्वया कृतम् ॥ ६३॥


दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि ।जघन्थ न प्रियाय मे तथैव जीव कल्पकम् ॥ ६४॥


पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा ।यथेष्टतो गमिष्यसि स्वदेहसंयुतोऽपि सन् ॥ ६५॥


यथेष्टभोगसंयुतः सुरेशगायकादिभिः ।समीड्यमानसद्यशा रमस्व मत्पुरः सदा ॥ ६६॥


तवेप्सितं न किञ्चन क्‍वचित् कदाचिदेव (कुतश्चिदेव) वा ।मृषा भवेत् प्रियश्च मे पुनःपुनर्भविष्यसि ॥ ६७॥


इतीरितो मरुत्सुतो जगाद विश्वनायकम् ।विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम् ॥ ६८॥


सदा प्रवर्द्धमानया तया रमेऽहमञ्जसा ।समस्तजीवसञ्चयात् सदाऽधिका हि मेऽस्तु सा ॥ ६९॥


नमो नमो नमो नमो नतोऽस्मि ते सदा पदम् ।समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः ॥ ७०॥


इतीरिते तथेति तं जगाद पुष्करेक्षणः ।जगाम धाम चाऽत्मनस्तृणादिना सहैव सः ॥ ७१॥


खगा मृगास्तृणादयः पिपीलिकाश्च गर्दभाः ।तदाऽऽसुरुत्तमा यतो नृवानरास्तु किं पुनः ॥ ७२॥


सदैव रामभावनात् (रामभावनाः) सदा सुतत्त्ववेदिनः ।यतोऽभवंस्ततस्तु ते ययुः पदं हरेस्तदा ॥ ७३॥


‘स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम् ।अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः’(भा\.पु\. ५\.९\.१८) ॥ ७४॥


सहस्रसूर्यमण्डलज्वलत्किरीटमूर्द्धजः ।सुनीलकुन्तला(ळा)वृतामितेन्दुकान्तसन्मुखः ॥ ७५॥


सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः ।सुहासविद्रुमाधरः समस्तवेदवाग्रसः ॥ ७६॥


दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः ।सुपीवरोन्नतोरुसज्जगद्भरांसयुग्मकः ॥ ७७॥


सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः ।जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे ॥ ७८॥


स्वयं स तेन निर्मितो हतौ मधुश्च कैटभः ।शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे ॥ ७९॥


स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम् ।शरेण येन चाकरोत् पुरीं च माधुराभिधाम् ॥ ८०॥


समस्तसारसम्भवं शरं दधार तं करे ।स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम् ॥ ८१॥


उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः ।महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः ॥ ८२॥


अनर्घ्यरत्नमालया वनाख्यया च मालया ।विलासिविस्तृतोरसा बभार च श्रियं प्रभुः ॥ ८३॥


स भूतिवत्सभूषणस्तनूदरे वलित्रयी ।उदारमध्यभूषणोल्लसत्तडित्प्रभाम्बरः ॥ ८४॥


करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः ।क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः ॥ ८५॥


लसद्धरिन्मणिद्युती रराज राघवोऽधिकम् ।असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः ॥ ८६॥


ज्ञानं नेत्राब्जयुग्मान्मुखवरकमलात् सर्ववेदार्थसारान्स्तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः ।सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः प्रायाद् देवाधिदेवः स्वपदमभिमुखश्चोत्तराशां विशोकाम् ॥ ८७॥


दघ्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं सीता सैवाखिलाक्ष्णां विषयमुपगता श्रीरिति ह्रीरथैका ।द्वेधा भूत्वा दधार व्यजनमुभयतः पूर्णचन्द्रांशुगौरं प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषिता भूषणैः स्वैः ॥ ८८॥


साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद् दक्षिणेनाऽयात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा ।अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाश्च सोङ्कारकाः पश्चात् सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम् ॥ ८९॥


तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः ।रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः ॥ ९०॥


गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वैर्वेदोदारार्थवाग्भिः प्रणिहितसुमनः सर्वदा स्तूयमानः ।सर्वैर्भूतैश्च भक्त्या स्वनिमिषनयनैः कौतुकाद् वीक्ष्यमाणः प्रायाच्छेषगरुत्मदादिकनिजैः संसेवितः स्वं पदम् ॥ ९१॥


ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः ।आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवंस्तदा ॥ ९२॥


अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम् ।त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि ॥ ९३॥


मातॄणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः ।अनर्हायास्त्वयाऽऽज्ञप्ता कैकेय्या अपि सद्गतिः ।सूत्वा तु भरतं नैषा गच्छेत निरयानिति ॥ ९४॥


तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम् ।निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्वते ॥ ९५॥


कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्‍वचित् ।पश्चाद् भक्तिमती यस्मात् त्वयि सा युक्तमेव तत् ॥ ९६॥


मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी ।सीतार्थं येऽप्यनिन्दंस्त्वां तेऽपि याता महत् तमः ॥ ९७॥


प्रायशो राक्षसाश्चैव त्वयि कृष्णत्वमागते ।शेषा यास्यन्ति तच्छेषा अष्टाविंशे कलौ युगे ।गते चतुस्सहस्राब्दे तमोगास्त्रिशतोत्तरे ॥ ९८॥


अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः ।त्वया सहाऽगतास्तेषां विधेहि स्थानमुत्तमम् ॥ ९९॥


अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर ।यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाऽशु नः ॥ १००॥


इत्युदीरितमाकर्ण्य शतानन्देन राघवः ।जगाद भावगम्भीरं सुस्मिताधरपल्लवः ॥ १०१॥


जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव ।गुर्वादेशानुसारेण मयाऽऽदिष्टा च सद्गतिः ॥ १०२॥


अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया ।हृदि स्थितं च जानासि त्वमेवैकः सदा मम ॥ १०३॥


इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः ।पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान् ।वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः ॥ १०४॥


ते जरामृतिहीनाश्च सर्वदुःखविवर्जिताः ।संसारमुक्ता न्यवसंस्तत्र नित्यसुखाधिकाः ॥ १०५॥


ये तु देवा इहोद्भूता नृवानरशरीरिणः ।ते सर्वे स्वांशितामापुस्तन्मैन्दविविदावृते ॥ १०६॥


असुरावेशतस्तौ तु न राममनुजग्मतुः ।पीतामृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा ॥ १०७॥


तयोश्च तपसा तुष्टश्चक्रे तावजरामरौ ।पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने ।प्रसह्यापिबतां देवैर्देवांशत्वादुपेक्षितौ ॥ १०८॥


पीतामृतेषु देवेषु युद्ध्यमानेषु दानवैः ।तैर्दत्तमात्महस्ते ते रक्षायै पीतमाशु तत् ।तस्माद् दोषादापतुस्तावासुरं भावमूर्जितम् ॥ १०९॥


अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम् ।रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः ॥ ११०॥


विभीषणश्च धर्मात्मा राघवाज्ञापुरस्कृतः ।सेनापतिर्धनेशस्य कल्पमावीत् स राक्षसान् ॥ १११॥


रामाज्ञया जाम्बवांश्च न्यवसत् पृथिवीतले(ळे) ।उत्पत्त्यर्थं जाम्बवत्यास्तदर्थं सुतपश्चरन् ॥ ११२॥


अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये ।द्वितीयया ब्रह्मसदस्यधीश्वरस्तेनार्चितोऽथापरया निजालये ॥ ११३॥


तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः ।अगम्यमर्यादमुपेत्य च क्रमाद् विलोकयन्तोऽतिविदूरतोऽस्तुवन् ॥ ११४॥


ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः ।क्रमादनुव्रज्य तु राघवस्य शिरस्यथाऽज्ञां प्रणिधाय निर्ययुः ॥ ११५॥


स्वं स्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याश्च विरिञ्चपूर्वकाः ।मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे ॥ ११६॥


समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा श्रोत्रपुटेन सम्भरन् ।वदंश्च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास ॥ ११७॥


रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण ।रूपैस्तथाऽन्यैश्च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम् ॥ ११८॥


इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम् ।वेदांश्च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत् ॥ ११९॥


रामोऽपि सार्द्धं पवमानात्मजेन ससीतया लक्ष्मणपूर्वकैश्च ।तथा गरुत्मत्प्रमुखैश्च पार्षदैः संसेव्यमानो न्यवसत् पयोब्धौ ॥ १२०॥


कदाचिदीशः सकलावतारानेकं विधायाहिपतौ च शेते ।पृथक् च संव्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः ॥ १२१॥


इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च ।भारताच्चैव वेदेभ्यो महारामायणादपि ॥ १२२॥


परस्परविरोधस्य हानान्निर्णीय तत्त्वतः ।युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः ॥ १२३॥


बहुकल्पानुसारेण मयेयं सत्कथोदिता ।नैकग्रन्थाश्रयात् तस्मान्नाऽशङ्क्याऽत्र विरुद्धता ॥ १२४॥


क्‍वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता ।उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया ॥ १२५॥


एवं च वक्ष्यमाणेषु नैवाऽशङ्क्या विरुद्धता ।सर्वकल्पसमश्चायं पारम्पर्यक्रमः सदा ॥ १२६॥


पुंव्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित् ।कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान् ।शतं दुर्योधनादींस्ते दर्शयिष्य इति प्रभुः ॥ १२७॥


भीमसेनहतास्ते हि ज्ञायन्ते बहुवाक्यतः ।विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः ।उच्यन्ते बहवश्चान्ये पुंव्यत्याससमाश्रयात् ॥ १२८॥


विस्तारे कृष्णनिहता बलभद्रहता इति ।उच्यन्ते च क्‍वचित् कालव्यत्यासोऽपि क्‍वचिद् भवेत् ॥ १२९॥


यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ ।इति वाक्येषु बहुषु ज्ञायते(ज्ञायन्ते) निर्णयादपि ।अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः ॥ १३०॥


व्यत्यासास्त्वेवमाद्याश्च प्रातिलोम्यादयस्तथा ।दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्च ते ।ज्ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा ॥ १३१॥


तस्माद् विनिर्णयग्रन्थानाश्रित्यैव च लक्षणम् ।बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः ॥ १३२॥


उक्तं लक्षणशास्त्रे च कृष्णद्वैपायनोदिते ।त्रिभाषा यो न जानाति रीतीनां शतमेव च ॥ १३३॥


व्यत्यासादीन् सप्तभेदान् वेदाद्यर्थं तथा वदेत् ।स याति निरयं घोरमन्यथाज्ञानसम्भवम् । इत्यन्येषु च शास्त्रेषु तत्र तत्रोदितं बहु ॥ १३४॥


‘व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा ।उक्षणः सुधुरः साधु सप्त भेदाः प्रकीर्तिताः’ ॥ १३५॥


इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः ।अनुसारेण तेषां तु निर्णयः क्रियते मया ।तस्मान्निर्णयशास्त्रत्वाद् ग्राह्यमेतद् बुभूषुभिः ॥ १३६॥


इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा ।पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्चरणं हरेर्व्रजेत् ॥ १३७॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामस्वधामप्रवेशो नाम नवमोऽध्यायः