Mahabharatatatparyanirnaya/C7/S1
Appearance
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय सुखसारमहार्णवाय।नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः ।वृक्षाश्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ २॥
श्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः ।हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्द्धदनेकसानुः ॥ ३॥
नैवात्र विश्रमणमैच्छत निःश्रमोऽसौ निःसीमपौरुषगुणस्य कुतः श्रमोऽस्य ।आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥ ४॥
जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः ।आस्यं प्रविश्य सपदि प्रविनिस्सृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन् ॥ ५॥
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या ।तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ ६॥
लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता ।छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाऽशु ॥ ७॥
निस्सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् ।लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच ॥ ८॥
भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम् ॥ ९॥
मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले ।ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ १०॥
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदः ॥ ११॥
तादृक्चेष्टासमेताया अङ्गुलीयमदात् ततः ।सीताया यानि चैवाऽऽसन्नाकृतेस्तानि सर्वशः ॥ १२॥
भूषणानि द्विधा भूत्वा तान्येवाऽसन् तथैव च ।अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥ १३॥
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।द्युलोकचारिणः सर्वं पश्यन्त्यृषय एव च ॥ १४ ॥
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ १५॥
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ १६॥
अथ वनमखिलं तद् रावणस्यावलुम्प्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः ।रजनिचरविनाशं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चाऽऽरुरोह ॥ १७॥
अथाशृणोद्दशाननः कपीन्द्रचेष्टितं परम् ।दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ १८॥
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।समासदन् महाबलम् सुरान्तरात्मनोऽङ्गजम् ॥ १८॥
अशीतिकोटियूथपं पुरस्सराष्टकायुतम् ।अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम् ॥ २०॥
समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् ।चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥ २१॥
पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥ २२॥
बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् ।निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ २३॥
अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ २४॥
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह ।शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ २५॥
स मण्डमध्यकासुतं समीक्ष्य रावणोपमम् ।तृतीय एष चांशको बलस्य हीत्यचिन्तयत् ॥ २६॥
निधार्य एव रावणः स राघवस्य नान्यथा ।यदीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ २७॥
अतस्तयोः समो मया तृतीय एष हन्यते ।विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ २८॥
स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् ।अपोथयद् धरातले क्षणेन मारुतीतनुः ॥ २९॥
विचूर्णिते धरातले निजे सुते स रावणः ।निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ ३०॥
अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः ।ततक्ष वानरोत्तमं न चाशकद् विचालने ॥ ३१॥
अथास्त्रमुत्तमं विधेर्युयोज सर्वदुस्सहम् ।स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ ३२॥
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ ३३॥
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ ३४॥
इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते ।बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ ३५॥
अथ प्रगृह्य तं कपिं समीपमानयंश्च ते ।निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ ३६॥
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ ३७॥
अवैहि दूतमागतं दुरन्तविक्रमस्य माम् ।रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ ३८॥
न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ ३९॥
न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।विरिञ्चिशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ ४०॥
प्रकोपितस्य तस्य कः पुरस्थितौ क्षमो भवेत् ।सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ ४१॥
इतीरिते वधोद्यतं न्यवारयद् विभीषणः ।स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् ॥ ४२॥
अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।दुदुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ ४३॥
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ ४४॥
ददाह चाखिलं पुरं स्वपुच्छगेन वह्निना ।कृतस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ ४५॥
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।प्रदह्य सर्वशः पुरीं मुदाऽन्वितो जगर्ज च ॥ ४६॥
स रावणं सपुत्रकं तृणोपमं विधाय च ।तयोः प्रपश्यतोः पुरं विधाय भस्मसाद्ययौ ॥ ४७॥
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ ४८॥
रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः ।चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ ४९॥
रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित् ।स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ ५०॥
{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये श्रीरामचरिते हनूमत्प्रतियानं नाम सप्तमोऽध्यायः}