Jump to content

Mahabharatatatparyanirnaya/C4/S1

From Grantha
Revision as of 19:06, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ अथाभ्यवर्धंश्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः ।नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम् ॥ १॥


निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् ।विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत् ॥ २॥


तन्मातरः पौरजना अमात्या अन्तःपुरा वैषयिकाश्च सर्वे ।अवेक्षमाणाः परमं पुमांसं स्वानन्दतृप्ता इव सम्बभूवुः ॥ ३॥


ततः सुवंशे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् ।वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम ॥ ४॥


तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद्विसृष्टः ।जगाम रामः सह लक्ष्मणेन सिद्धाश्रमं सिद्धजनाभिवन्द्यः ॥ ५॥


अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य ॥ ६॥


अथो जघानाऽऽशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम् ।ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम् ॥ ७॥


शरेण मारीचमथार्णवेऽक्षिपद् वचो विरिञ्चस्य तु मानयानः ।अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ ॥ ८॥


तदा विदेहेन सुतास्वयंवरो विघोषितो दिक्षु विदिक्षु सर्वशः ।निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः ॥ ९॥


अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम् ।स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन ॥ १०॥


बलं स्वभक्तेरधिकं प्रकाशयन्ननुग्रहं च त्रिदशेष्वतुल्यम् ।अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः ॥ ११॥


श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते ।सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः ॥ १२॥


पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य ।विदेहनारीनरवर्यसङ्घा यथा महापौरुषिकास्तदङ्घ्रिम् (महापूरुषिकास्तदङ्घ्रिम्) ॥ १३॥


तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् ।समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाशम् ॥ १४॥


मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् ।उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाश्विति ॥ १५॥


स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे ।शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृता पुरस्तात् ॥ १६॥


तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा ।स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम् ॥ १७॥


न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः ।कुतो नरास्तद्वरतो हि किङ्कराः सहानसैवात्र कृषन्ति कृच्छ्रतः ॥ १८॥


अधार्यमेतद्धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः ।सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत् ॥ १९॥


इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः ।समेत्य भूपाश्च समीपमाशु प्रगृह्य तच्चालयितुं न शेकुः ॥ २०॥


संस्विन्नगात्राः परिवृत्तनेत्राः दशाननाद्याः पतिता विमूर्छिताः ।तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनात्स्वयम्भुवः ॥ २१॥


पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन ।बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति ॥ २२॥


ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः ।ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः ॥ २३॥


तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाश्वथाऽनयत् ।समीक्ष्य तद्वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत् ॥ २४॥


विकृष्यमाणं तदनन्तराधसा परेण निःसीमबलेन लीलया ।अभज्यतासह्यममुष्य तद्बलं प्रसोढुमीशं कुत एव तद्भवेत् ॥ २५॥


स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः ।विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा शशी ॥ २६॥


तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् ।शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा ॥ २७॥


अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी ।उपेत्य मन्दं ललितैः पदैस्तां तदंस आसज्य च पार्श्वतोऽभवत्(पार्श्वतोऽभूत्) ॥ २८॥


ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात् ।रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम् ॥ २९॥


लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽऽशु पित्रे ।‘विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः’ ॥ ३०॥


अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया ।स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाश्वेव स यत्र मैथिलः ॥ ३१॥(भा\.पु\. ७\.८\.३६)


स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः ।पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः ॥ ३२॥


तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् ।सुरानका दुन्दभयो विनेदिरे जगुश्व गन्धर्ववराः सहस्रशः ॥ ३३॥


विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः ।तदा तु रामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तलम् ॥ ३४॥


यथा पुरा सागरजास्वयंवरे सुमानसानामभवत्समागमः ।तथा ह्यभूत्सर्वदिवौकसां तदा तथा मुनीनां सहभूभृतां भुवि ॥ ३५॥


प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः ।यथा पुरा सागरजासमेतः सुरासुराणाममृताब्धिमन्थने ॥ ३६॥


स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः ।मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः ॥ ३७॥


प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः ।ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव च ॥ ३८॥


महोत्सवं तं त्वनुभूय देवता नराश्च सर्वे प्रययुर्यथाऽऽगतम् ।पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः ॥ ३९॥


तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् ।विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम् ॥ ४०॥


अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः ।समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः ॥ ४१॥


न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः ।सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽऽगतोऽस्म्यहम् ॥ ४२॥


स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः ।अभेदमज्ञेष्वपि दर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि ॥ ४३॥


शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् ।उमापतिस्त्वेकमधारयत् ततो रमापतिश्चापरमुत्तमोत्तमम् ॥ ४४॥


तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः ।रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः ॥ ४५॥


ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य ।यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभूत् ॥ ४६॥


शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् ।शिवस्तदा देवगणास्समस्ताः शशंसुरुच्चैर्जगतो हरेर्बलम् ॥ ४७॥


यदीरणेनैव विनैष शङ्करः शशाक न प्रश्वसितुं च केवलम् ।किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति ॥ ४८॥


ततः प्रणम्याऽऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः ।जगाम कैलासममुष्य तद्धनुस्त्वया प्रभग्नं किल लोकसन्निधौ ॥ ४९॥


धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च ।वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम् ॥ ५०॥


यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति ।इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत् विष्णुबलं हराद्वरम् ॥ ५१॥


प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया ।चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च संशयं नुदन् ॥ ५२॥


प्रदर्शिते विष्णुबले समस्ततो हराच्च निःसङ्ख्यतया महाधिके ।जगाद मेघौघगभीरया गिरा स राघवं भार्गव आदिपूरुषः ॥ ५३॥


अलं बलं ते जगतोऽखिलाद्वरं परोऽसि नारायण एव नान्यथा ।विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद्विभोः ॥ ५४॥


पुरोऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम् ।पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे ॥ ५५॥


अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः ।इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे ॥ ५६॥


पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽऽशु बभूव भस्मसात् ॥ ५७॥


इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् ।तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम् ॥ ५८॥


निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः ।वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद ॥ ५९॥


स चेष्टितं चैव निजाश्रयस्य जनस्य सत्तत्त्वविबोधकारणम् ।विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा ॥ ६०॥


ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाशयन् ।द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम् ॥ ६१॥


समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य ।प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः ॥ ६२॥


ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह ।रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हि सीतया ॥ ६३॥


यथा पुरा श्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये ।तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया ॥ ६४॥


इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि ।दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते ॥ ६५॥


{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः}