ब्रह्मसूत्रभाष्यम्/C03/S03/A070
Appearance
अबाधाधिकरणम् (श्रुत्यधिकरणम्)
ॐ श्रुत्यादिबलीयास्त्वाच्च न बाधः ॐ ॥ 50-415 ॥
सावधारणा बलवति श्रुतिः ।
‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपपन्नः॥
इति बलवल्लिङ्गम् ॥न कर्मभिर्न धनैर्नैव चान्यैः पश्ये सुखं तेन तत्त्वं ब्रवीहि’
‘नास्त्यकृतः कृतेन’ इत्युपपत्तिश्च ।
इति युक्तिमद्बगवद्वचनम् ॥‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’
अतो न प्रमाणान्तरबाधः ।’कर्मण्यैव’ इत्ययोगव्यवच्छेदः ॥ 50 ॥