Jump to content

Bhagavatatatparyanirnaya/C7/S2

From Grantha
Revision as of 19:01, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

द्वितीयोऽध्यायः

तावद् यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् ।सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानकान् ॥ १० ॥


विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥


'विप्रयज्ञादिमूलं तु हरिरित्यासुरं मतम् । हरिरेव हि सर्वस्य मूलं सम्यङ्मतो नृप॥ इति ब्राह्मे ॥
नित्य आत्माऽव्ययः शुद्धः सर्ववित् सर्वगः परः ।धत्तेऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ २२ ॥


धत्तेऽसावात्मनो लिङ्गम् । जीवमनआदीनामाधारं ब्रह्म ॥ २२ ॥
यथाऽम्भसा प्रचलता तरवोऽपि चला इव ।चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ २३ ॥


एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् ।याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥


लिङ्गवानिव – जीव इव ।

'असमं समतामेति भ्रान्तिदृष्ट्यैव केवलम् । जीवेन ब्रह्म न समं तत्त्वदृष्ट्या कथञ्चन॥ इति षाड्गुण्ये ॥ 'यथोदचलनाद् वृक्षप्रतिबिम्बप्रचालनात् । तटस्थवृक्षचलनं कल्पयेदबुधो नरः ॥ तथा मनसिजैर्दोषैराभासे दूषिते नरे । आभासिनो ब्रह्मणश्च दोषमज्ञः प्रकल्पयेत् ॥ आत्मनश्चक्षुषो भ्रान्त्या यथा पश्येद्भ्रमं भुवः ।

तथैव स्वात्मनो दोषाद्दोषवद्ब्रह्म पश्यति॥ इति ब्रह्मतर्के ॥२३-२४॥
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः ।अविवेकश्च चिन्ता च विवेकस्मृतिरेव च ॥ २६ ॥


विवेकस्मृतिः अविवेकिन एव विवेकित्वभ्रान्तिः ।

'अन्तर्हिरण्यकादीनां भक्तिरस्त्येव केशवे ।

असुरावेशतस्त्वन्यान् हरिस्तोतृन्द्विषन्ति च॥ इति पाद्मे ॥ २६ ॥
यम उवाच– अहो अमीषां वयसाऽधिकानां विपश्यतां लोकविधिं विमोहः । यत्रोद्भवस्तत्र गतं मनुष्यं स्वयं सधर्मा अनुशोचन्त्यपार्थम् ॥ ३७ ॥


यत्रोद्भवस्तत्र गतं अदर्शनं गतम् । 'अदर्शनादिहायातः पुनश्चादर्शनं गतःइति भारते ॥ ३७ ॥
भूतानि तैस्तैर्निजयोनिकर्मभि-र्भवन्ति काले न भवन्ति सर्वशः ।


अन्यतम आत्मा परमात्मा ।

'सुविरुद्धस्वरूपत्वाज्जीवादन्यतमो हरिः॥ इति वामने ॥

भगवन्माहात्म्यकथनेन सर्वस्य तद्वशत्वात्स एव भजनीयो न शोकेन प्रयोजनम् । इति फलितार्थः ॥ ४१ ॥
यथाऽनलो दारुषु भिन्न ईयतेयथाऽनिलो देहगतः पृथक् स्थितः ।


'देहदारुगतौ प्राणवह्नी सर्वगतं नभः ।

देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्गुणैः ।

तथा जीवगतो विष्णुर्जीवाद्भिन्नो न तद्गुणैः॥ इति च ॥
सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।यः श्रोता योऽनुवक्तेह न स दृश्येत कर्हिचित् ॥ ४४ ॥


न श्रोता नानुवक्ताऽयं मुख्योऽप्यत्र महानसुः ।यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥ ४५ ॥


भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः ।भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥


यावल्लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनः ।ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥


वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वचः ।यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ ४८ ॥


इन्द्रियवान् जीवः । भजत्युत्सृजति ह्यन्यः परमात्मा । स एव श्रोताऽनुवक्ता च ।

'नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता स योऽतोऽश्रुतः। इत्यादेः ॥ मुख्यप्राणोऽपि स्वतो न श्रोता किमु जीव इति । अयं ननु सुयज्ञ इत्याक्षेपः । यश्च सुयज्ञः सोऽपि स्वतः श्रोतुं वक्तुं न च शक्तः । अतस्तस्यानुशोकेन किमित्यर्थः । 'अन्यो जीवोऽचितो देहात्तद्वशो देह उच्यते । पश्यामीत्यभिमानोऽस्य चक्षुराद्यभिमानवान् ॥ न तद्वशाश्चक्षुराद्या न दृष्ट्यादौ स ईश्वरः । चक्षुराद्या मनो जीवो दृष्ट्यादिश्चापि यद्वशे ॥ स प्राण इति विज्ञेयो ज्ञाता मन्ता च स प्रभुः । तस्यापि ज्ञातृमन्तृत्वं न स्वतः शक्यते क्वचित् ॥ यस्तस्य ज्ञातृमन्तृत्वदाता स भगवान्हरिः । स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः ॥ ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः । स देहान्भजते विष्णुः स्वेच्छयैवोत्सृजत्यपि ॥ यावद्देहस्थितो विष्णुस्तावज्जीवो विपर्ययः । तावत् क्लेशादयश्चास्य वृथा चेन्द्रियवृत्तयः ॥ यदोत्सृजति देहं स हरिः सर्वात्मना विभुः । तदा तदभिमानी तु जीवो मुच्येत संसृतेः ॥ अतिभिन्नस्वरूपौ तौ जीवेशावेकदेहगौ । देहाभिमानी त्वेकोऽत्र न मानी मानदः परः॥ इति गारुडे । 'इन्द्रियाद्यभिमानेन तद्वान् जीव उदीर्यते । अतन्मानाद्धरिः प्रोक्तस्त्वदेहोऽनिन्द्रियस्तथा ॥ जीवानभिमते देहे न विष्णुर्जीवति स्थितः । अतश्चादेह उद्दिष्टः परमात्मा सनातनः॥ इति प्रकाशसंहितायाम् । स चान्यः श्रोतुर्वक्तुश्चेति चशब्दः ॥ लिङ्गान् भूतेन्द्रियमनोरूपान् । 'लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च। इति शब्दनिर्णये ॥ आत्मा परमात्मा । कर्मनिबन्धनो जीवः । ततः परमात्मनो विपरीतः ॥ मृषा वृथा । स्वप्नदृष्टवित्तादिवत् । 'लेपाभिमानी जीवस्तु स्वरूपानुभवी न च । मुक्तेः प्राक्तेन मान्युक्तो न मानी विष्णुरुच्यते ॥ सर्वं ममेति पश्यन्नप्यलेपाभिमतिर्यतः ।

सम्यक्स्वरूपानुभवात्स्वतन्त्रत्वाददोषतः॥ इति ब्रह्मतर्के ॥४४-४८॥
हिरण्यकशिपुरुवाच–बाल एवं प्रवदति सर्वे विस्मितचेतसः ।


'अहं ममाभिमानादि त्वयथोत्थमनित्यकम् ।

महदादि यथोत्थं च नित्या चापि यथोत्थिता ॥ अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च ।

यथार्थभूतश्च पर एक एव जनार्दनः॥ इति च ॥ ५८ ॥
क आत्मा कः परो वाऽत्र स्वीयः पारक्य एव च ।स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनः ॥ ६० ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे द्वितीयोऽध्यायः ॥
'क आत्मा कः परःइति देहाद्यपेक्षया ।

'न हि देहादिरात्मा स्यान्न च शत्रुरुदीरितः । अतो दैहिकवृद्धौ वा क्षये वा किं प्रयोजनम् ॥ यस्तु देहगतो जीवः स हि नाशं न गच्छति । ततः शत्रुविवृद्धौ वा स्वनाशे शोचनं कुतः ॥ देहादिव्यतिरिक्तौ तु जीवेशौ प्रतिजानताम् । अत आत्मविवृद्धिस्तु वासुदेवे रतिः स्थिरा ।

शत्रुनाशस्तथाऽज्ञाननाशो नान्यः कथञ्चन॥ इति ब्रह्मवैवर्ते ॥