Jump to content

Bhagavatatatparyanirnaya/C4/S21

From Grantha
Revision as of 19:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

द्वाविंशोऽध्यायः

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥


'सर्वज्ञाश्च विरिञ्चाद्या न जानीयुर्हरिं परम् । हेतवो जगतोऽप्यस्य यथाऽसौ वेद केशवः॥ इति तन्त्रसारे ॥९॥
व्यक्तं ह्यात्मवतामात्मा भगवानात्मभावनः ।स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १६ ॥


'हरेस्तु प्रतिमा प्राज्ञास्तत्रस्थः केशवः स्वयम् । ददाति ज्ञानमीशेशः परमात्मा स्वयं विभुः॥ इति च ॥ १६ ॥
अस्त्येव राजन् भवतो मधुद्विषःपादारविन्देऽस्य गुणानुवादिनि ।


कषणेन गच्छतीति कषायः पापं, तदुभयमेव मलम् ॥ २० ॥
शास्त्रेष्वियानेव सुनिश्चितो नृणांक्षेमस्य सम्यग्विमृशेषु हेतुः ।


हरेर्मुहुस्तत्परकर्णपूरयागुणाभिधानेन विजृम्भमाणया ।


'रतिः परात्मनि हरावन्यत्रारतिरेव च । पुमर्थसाधनं ज्ञेयं नातोऽन्यन्मुख्यमिष्यते॥ इति ॥ २१,२५ ॥
यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-नाचार्यवान् ज्ञानविरागरंहसा ।


अबीजं हृदयं बीजहृदयं विना ।

'जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्यमेव च । बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः ॥ सर्वोपाधिविनाशे हि प्रतिबिम्बः कथं भवेत् । कथं चात्मविनाशाय प्रयत्नः सेत्स्यति क्वचित् ॥ अपुमर्थता च मुक्तेः स्यादभावात्पुंस एव तु । ज्ञानज्ञेयाद्यभावाच्च सर्वथा नोपपद्यते ॥

तस्मादेतन्मतं येषां तमोनिष्ठा हि ते मताः ॥इति स्कान्दे ॥२६॥
दग्धाशयो मुक्तसमस्ततद्गुणोनैवात्मनो बहिरन्तर्विचष्टे ।


दग्धाशयः बीजाशयनाशे तद्गुणानां ज्ञानादीनामभावान्न किञ्चिद्विचक्षीत । परात्मनोर्यदा व्यवधानं संसारावस्थायां तदा स्वप्न इवेत्येतावद्बीजहृदयनाशे त्वपुरुष एव । आत्मनाश एवेत्यर्थः । अतः संसारावस्थैवोत्तमा स्यात् ।

'भिदा यदि न दृश्येत जीवात्मपरमात्मनोः । मुक्तौ तदा विमोक्षाय को यत्नं कर्तुमर्हति॥ इति ब्रह्माण्डे ॥ 'मग्नस्य हि परेऽज्ञाने किं न दुःखकरं भवेत् ।

प्रवृत्तिधर्ममेवाहं मन्ये भरतसत्तम॥ इति मोक्षधर्मेषु ॥ २७ ॥
इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतो मनः ।चेतनां हरते बुद्धेः स्तुम्बस्तोयमिव ह्रदात् ॥ ३० ॥


एवंविधाज्ञानकारणमाह । इन्द्रियैर्विषयाकृष्टैरित्यादि । 'बहुस्मरणशक्तिस्तु चेतनेत्युच्यते बुधैः॥ इति शब्दनिर्णये ॥ ३० ॥
भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः ॥ ३१ ॥


नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।यद्यस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात् ॥ ३२ ॥


अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।स्रंशितो ज्ञानविज्ञानाद् येनाविशति मुग्धताम् ॥ ३३ ॥


न कुर्यात् कर्हिचित् सङ्गं तमस्तीव्रं तितीर्षुणा ।धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥


'स्वपक्षपातस्त्वभ्यासाद्भोगार्थं व्यापृतस्य तु ।

भवेत्ततोऽनेकशास्त्रयथार्थस्मरणेशिता ॥ नश्यत्यतः स्मृतेर्नाशाद्भगवत्पक्षपातिता । विनश्येत्तेन चैवास्य भवेज्ज्ञानविपर्ययः ॥ न च ज्ञानविपर्यासादन्यन्नाशकरं क्वचित् । सर्वस्यैतस्य मूलं हि दुष्टसंसर्ग एव तु ॥ दुष्टसङ्गो विरक्तस्याप्यन्यथाज्ञानकारणम् । दुष्टसङ्गाद्धि विष्णोश्च स्वात्मत्वं मन्यते बुधः । अभावं स्वात्मनोऽन्यस्य मुक्तिं चापि निरात्मताम्

इत्यादि स्कान्दे ॥ ३१-३४ ॥
मनोमात्रमिदं विश्वं यथा स्वप्ने मनः क्रिया ।क्रिया च वासनामात्रं साऽनीहायां प्रलीयते ॥ ३७ ॥


आत्मा त्वनीहया साक्षात् स्वयंज्योतिः प्रसिद्ध्यति ।एवं व्युदस्यात्ममायां भिदामुपरमेन्मुनिः ॥ ३८ ॥


'मनोमात्रं हरेर्यस्मान्मनसा मीयते जगत् ।

व्याप्ते मनसि विष्णोश्च स्थितत्वाद्वासनामयम् ॥ वस आच्छादनेत्यस्माद्धातोर्वा वासनामयम् । अतो विष्णोरनीहायां लीयते सकलं जगत् ॥ अनीहावस्थ एवासौ मुमुक्षुभिरवाप्यते । एवं विद्वान्बन्धशक्तिं व्युदस्य हरिमाप्नुते ॥ प्रकृतिर्भिदा च माया च भ्रमश्चेत्यभिधीयते ।

बन्धशक्तिर्यया लोको बम्भ्रमीत्यनिशं भुवि॥ इति तन्त्रसारे ॥ ३७,३८ ॥
न यत्र निद्रा मूर्च्छा वा नार्थदृक् न मनोरथः ।नानुवृत्तिर्न प्रलयस्तद् ब्रह्म विजितात्मनः ॥ ३९ ॥


'अनुवृत्तिरिति प्राज्ञैर्जीवन्मुक्तिरुदीर्यते। इति शब्दनिर्णये ॥ ३९ ॥
तत्त्वं नरेन्द्र जगतामथ तस्थुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।यः क्षेत्रवित् त्वमनयोर्हृदि विष्वगाधिः


'सर्वसत्ताप्रदत्वात्तु सर्वतत्त्वं हरिः स्मृतः ।

सर्वत्र विततत्वाद्वा सोऽहं त्वमिति चोच्यते । सर्वान्तर्यामकत्वात्तु न जीवात्मत्वतो हरिः॥ इति तत्त्वनिर्णये ॥ त्वमनयोः स्थावरजङ्गमयोर्मध्ये एको जीवः विष्वगाधिः नानादुःखःसन्, हृदि स्थितमवैहि । अहं च स जीवोऽस्मि । ज्ञानान्महान् भवामि । यः क्षेत्रवित् ॥ सर्वस्य प्रत्यक्चकास्ति स भगवानिति । 'व्यवधानेनान्वयोऽपि योग्यतापेक्षया भवेत्। इति शब्दनिर्णये ॥

'अभिमानस्त्वहङ्कार आत्मा चेत्यभिधीयते। इति च ॥ ४० ॥
यस्मिन्निदं सदसदात्मतया विभातिमायाविवेकविधुतिः स्रजिवाहिबुद्धिः ।


'यत्स्वरूपतया भातमज्ञानां गगनादिकम् ।

विवेकज्ञानिनां रज्जौ सर्पमावद्विधूयते । तं नित्यमुक्तभावेन निरस्तप्रकृतिं भजेत्॥ इति ज्ञानविवेके ॥ 'न भ्रान्तिर्जगतो दृष्टिर्न भ्रान्तिर्हरिदर्शनम् । अन्योन्यात्मतया दृष्टिर्भ्रान्तिरित्यवधार्यताम्॥ इति च । 'मायेति ज्ञाननाम स्यान्मायेति प्रकृतिस्तथा । ज्ञानं स्वरूपं विष्णोस्तु प्रकृतिर्न हरेस्तनुः । एवं विवेकिनो विश्वं ब्रह्मरूपेण नेष्यते॥ इति वाराहे ॥ ज्ञानप्रकृत्याख्यमायाद्वयस्य विवेकज्ञानात्सदसतोर्विष्ण्वात्मतया प्रतीतिः स्रज्यहिबुद्धिरिव विधूयत इत्यर्थः । 'पञ्चभूतात्मकं देहं विष्णोः पश्यन्त्ययोगिनः ।

तथा न योगिराद्धान्तो ज्ञानं देहो यतो हरेः॥ इति षाड्गुण्ये ॥ ४१ ॥
यत्पादपङ्कजपरागविलासभक्त्याकर्माशयग्रथितमुद्ग्रथयन्ति सन्तः ।


द्विमतयः जगति भगवति च प्रतीतियुक्ता अपि भक्तिविशेषात्तत्त्वं नोद्ग्रथयन्ति । संसारगुणास्तेषां विरुद्धा एव प्रतीयन्ते यतः ॥ ४२ ॥
वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया ।आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः ॥ ५२ ॥


'नैजः सर्वगुणोत्कर्षः सर्वेभ्यो महदुच्यतेइति शब्दनिर्णये ॥ ५२ ॥
कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः ।


'अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः । एकस्तद्वेद भगवान्प्रभुर्नारायणः स्वराट्॥ इति मोक्षधर्मेषु ॥ ६४ ॥
भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यपरोद्यमे ॥ ६५ ॥


कीर्त्योर्ध्वगीतयः पुंभिस्त्रैलोक्ये तत्र तत्र ह ।प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव ॥ ६६ ॥


॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥
'गुरुविप्रेषु भक्तया च परेषां हितकृत्तया ।

प्रश्रयेण च कीर्त्या च पृथू राममनुव्रतः॥ इति ब्रह्माण्डे । 'न गुरुर्न च धर्मोऽस्ति रामदेवस्य कुत्रचित् ।

तथापि धर्मरक्षार्थं गुरुभक्तिमदर्शयत्॥ इति वाराहे ॥ ६७ ॥