Jump to content

Bhagavatatatparyanirnaya/C4/S19

From Grantha
Revision as of 19:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

विंशोऽध्यायः

एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः ।सर्वगोऽनावृतः साक्षी निरात्माऽनात्मनः परः ॥ ७ ॥


देहाद्यपार्थास्तद्धर्मा न स्युस्तद्द्रष्टुरात्मनः ।कैवल्यं तस्य वै धर्मः सुषुप्तं तन्निदर्शनम् ॥ ८ ॥


'अन्येषामावृतो विष्णुः स्वस्यानावृत एव च ।

आत्मा सर्वस्य जगतस्तस्यात्माऽन्यो न विद्यते ॥ सुषुप्तवच्च निर्दुःखो जाग्रद्वच्च प्रवृत्तिमान् । अनन्यसदृशत्वाच्च केवलोऽसौ हरिः स्मृतः॥ इति तन्त्रसारे । 'आत्मनैवावगम्यत्वाद्धरिरेष सुषुप्तवत् ।

केवलत्वेन विज्ञेयो मुक्तिस्तद्वददुःखता॥ इत्यध्यात्मे ॥ ७,८ ॥
उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ १२ ॥


'हरिरक्लिष्टकारित्वादुदासीन इतीर्यते॥ इति च ॥ १२ ॥
भिन्नस्य लिङ्गस्य गुणप्रवाहंद्रव्यक्रियाकारकचेतनात्मनः ।


'जीवाद्भिन्नस्य मनसो गुणाः सत्वादयो मताः । तज्ज्ञात्वा न विकुर्वीत स्वस्वरूपं मनस्तथा। इति षाड्गुण्ये ॥१३॥
स्पृशन्तं पादयोः शीर्ष्णा व्रीडन्तं स्वेन कर्मणा ।शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १९ ॥


'आयासदुःखव्रीडादीन्प्रायशः सुखिनोऽपि तु ।

नियमादृषिभूतेषु मोहायादर्शयन्सुराः॥ इति ब्रह्मतर्के । 'अपक्वभक्तियुक्ता ये न तेषां विष्णुदर्शनम् ।

प्रायो भवति दुःखस्य त्वभावः प्रायशो भवेत्॥ इति प्रकाशसंहितायाम् ॥
भगवानपि विश्वात्मा पृथुनोपहृतार्हणः ।समुज्जिहानया भक्तया गृहीतचरणाम्बुजः ॥ २० ॥


'जगत्समस्तं विश्वं च निखिलं पूर्णमुच्यते। इत्यभिधानम् ॥ २० ॥
जन्तोर्जगत्यां जगदीश वैशसंस्यादेव यत् कर्मणि नः समीहितम् ।


'धिष्ण्यं तेजश्च सामर्थ्यं महिमा धाम चोच्यते। इत्यभिधानम् ॥ अल्पपुण्यत्वान्न मद्भक्तियोग्य इति न मन्तव्यम् । यतः फल्ग्वप्युरु करोषि वात्सल्यात् । विना वात्सल्यं श्रियाऽपि किं तव? ॥ २९ ॥
भजन्त्यथ त्वामत एव साधवोव्युदस्तमायागुणविभ्रमोदयम् ।


अथ अन्यच्च । अतः वात्सल्यादेव ॥ ३० ॥
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३७ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे विंशोऽध्यायः ॥
'भूतेषु हरिरित्येव हर्यर्पणधिया तथा । सर्वभूतेषु च हरेः पूजा कार्याऽऽत्मवेदिभिः॥ इति पाद्मे ॥ ३७ ॥