Jump to content

Bhagavatatatparyanirnaya/C4/S16

From Grantha
Revision as of 19:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

सप्तदशोऽध्यायः

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः ।पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥


'राज्ञा समानवयसः श्रेणयस्त्वङ्गरक्षकाः। इत्यभिधानम् ॥ २ ॥
यच्चान्यदपि कृष्णस्य ब्रह्मन् भगवतः प्रभोः ।श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥


पूर्वतनानां कथासम्बन्धेन हरेर्यशः ॥ ६ ॥
धरण्युवाच –नमः परस्मै पुरुषाय मायया


'ब्रह्मादिजीवदेहास्तु मायादेहाः प्रकीर्तिताः। इति वाराहे ॥ ३० ॥
नूनं तवेशस्य समीहितं जनैःस्वमायया दुर्जययाऽकृतात्मभिः ।


स परतः ईश्वर, इत्याक्षेपः ॥ ३३ ॥
सर्गादि योऽस्यानुरुणद्धि शक्तिभि-र्द्रव्यक्रियाकारकचेतनात्मभिः ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तदशोऽध्यायः ॥
'विरुद्धशक्तयो यस्य नित्या युगपदेव च । तस्मै नमो भगवते विष्णवे सर्वजिष्णवेइति च ॥ ३४ ॥