Jump to content

Anuvyakyanam/C2/S4

From Grantha
Revision as of 18:58, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

चतुर्थः पादः

श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥

करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ।विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥

दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥3॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥