Jump to content

Anuvyakyanam/C2/S2

From Grantha
Revision as of 18:58, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))

द्वितीयः पादः

स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥

एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति ।इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ॥2॥

दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ।अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥

न चोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ।भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥

तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् ।दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥

तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥

अनादिवासनायोगादसुराणां बहुत्वतः ।दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥

तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥

इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥

रचनानुपपत्त्यधिकरणम्

चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥


अन्यत्राभावाधिकरणम्

साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥


अभ्युपगमाधिकरणम्

चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥


पुरुषाश्माधिकरणम्

सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥


अन्यथानुमित्यधिकरणम्

अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् ।तत्प्रेरणेऽप्यशक्तत्वात् स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥49॥


वैशेषिकाधिकरणम्

नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥


समुदायाधिकरणम्

वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥


असदधिकरणम्

अपरः शून्यमखिलं मनोवाचामगोचरम् ।निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥


अनुपलब्ध्यधिकरणम्

ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥


नैकस्मिन्नधिकरणम्

आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥


पत्युरधिकरणम्

सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥


उत्पत्त्यधिकरणम्

निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥