Anubhashya/C1
Appearance
प्रथमोध्यायः
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥1॥
विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः।समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥
प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥
सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः।सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥
ज्ञेयो न वेदैः शूद्रादैः कम्पकोऽन्यश्च जीवतः।पतित्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः॥ ५॥
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः॥ ६॥
अवान्तरं कारणं च प्रकृतिः शून्यमेव च।इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः।
॥ इति प्रथमोऽध्यायः॥