था श्रुते ध्यानं कर्तुं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते-
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।यत्त्वयोक्तं वचस्तेन मोहोयं विगतो मम॥१ ॥
अर्जुन उवाच
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥२ ॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥३ ॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥४ ॥
पश्य मे पार्थ रूपाणि शतशोथ सहस्रशः ।नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥५ ॥
श्रीभगवानुवाच
पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा ।बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥६ ॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि॥७ ॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥८ ॥
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।दर्शयामास पार्थाय परमं रूपमैश्वरम्॥९ ॥
सञ्जय उवाच
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥१० ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम्॥११ ॥
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥१२ ॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा॥१३ ॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥१४ ॥
'आत्मानमव्ययम् 'परमं रूपमैश्वरम् 'सर्वाश्चर्यमयं देवमनन्तं विश्वतो-मुखम् इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । 'मम देहे इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । 'मे रूपाणि 'सर्वतोनन्तरूपम् इत्यादेः 'द्रष्टुमिच्छामि ते रूपम् इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च ।'एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः ।बहुसङ्ख्यागोचरं च विशेषादेव केवलम् ।अभावो यत्र भेदस्य प्रमाणावसितो भवेत् ।विशेषनामा तत्रैव विशेषव्यवहारवान् ।विशेषोपि स्वरूपं स स्वनिर्वाहक एव च ।द्रव्यात्मना स नित्योपि विशेषात्मैव जायते ।नित्या एव विशेषाश्च केचिदेवं द्विधैव सः ।वस्तुस्वरूपमस्त्येवेत्येवमादिष्वभेदिनः ।विशेषोनुभवादेव ज्ञायते सर्ववस्तुषु ।नचाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम् ।विशिष्टस्य स्वतोन्यत्वे स्वस्यामेयत्वहेतुतः ।नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ।स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् ।न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ।अभेदे न विरोधोस्ति ज्ञाताज्ञातं यतोखिलम् ।तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ।अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत ।एकत्वानुभवाच्चैव विशेषानुभवादपि ।तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः ।भेदाभेदौ च तेनैव (तौ नैव) कर्तृभोक्तृविशेषणे ।मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् ।भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवेत् ।शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् ।अपृथग्दृष्टिनियमाद् बलज्ञानादिकस्य च ।ऐक्यं बाह्यविशेषाणां पृथग्दृष्ट्यैव तन्न तु ।विशेषहेत्वभावेपि द्वैविध्यं कल्प्यते यदि ।कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः ।नैकत्वं वापि नानात्वं नियमादस्त्यचेतने ।भेदाभेदावनुभवादतस्तत्रान्यथागतेः ।एको मदन्यतोन्यश्चेत्येवमेव व्यवस्थितौ ।भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता ।एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः ।पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत् ।तन्तुभ्योन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत् ।न चात्मनि विशेषोत्र दृष्टान्तत्वं गमिष्यति ।शुद्धोहम्प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः ।अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः ।न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् ।पूर्वापरादिभेदेन यतोंशोस्यावगम्यते ।उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि ।ज्ञापयेद् भेदमखिलं ग्रसन् स विभजेत् कथम् ।तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित् ।भावाभावव्यवहृतेर्विद्यमानेपि वस्तुनि ।भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ ।चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।सुप्तोयं बलवान् विद्वानित्यादिव्यवहारतः ।नचैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।इत्यादिश्रुतिमानाच्च परमैश्वर्यतस्तथा ।सर्वं तु घटते विष्णौ यत् कल्याणगुणात्मकम् ॥ इत्यादि ब्रह्मतर्के ।॥ १-१४ ॥
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वान् उरगांश्च दिव्यान्॥ १५ ॥
अर्जुन उवाच
कमलासने ब्रह्मणि स्थितं रुद्रम्'विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोङ्कगतो हरः ।हरस्याङ्गविशेषेषु देवाः सर्वेपि संस्थिताः ॥ इति पाद्मे ॥१५ ॥
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोनन्तरूपम् ।नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥ १६ ॥
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्॥ १७ ॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे॥ १८ ॥
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥ १९ ॥
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥ २० ॥
द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । 'नान्तं न मध्यम्
इत्युक्त-त्वात् पुनः 'अनादिमध्यान्तम् इति गुणानन्त्यापेक्षया । 'त्वया ततं विश्वमनन्तरूप
इति कालापेक्षया । स्वयमन्तं विद्यमानमपि न पश्यतीत्याशङ्क्य 'त्वया ततं विश्वम् इत्याह । अन्यत् तात्पर्यज्ञापनायाभ्यासरूपम् । 'सर्वं समाप्नोषि ततोसि सर्वः
इति 'सर्वं खल्विदं ब्रह्म इत्यादिषु सर्वशब्दव्याख्यानरूपम् ।
'त्रिलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदर्शितम् ।
दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः ।
प्रायः सहैव पार्थेन प्रायो भीताश्च तेखिलाः ।
दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकता भवेत् ।
तस्मिन् काले तु भूमेश्च भारहारार्थमुद्यमात् ।
उग्रत्वमिव सर्वत्र न भीतिर्ब्रह्मदर्शिनाम् ।
अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत् ।
श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः ॥ इत्याग्नेयवचनात् ।
'दृष्ट्वाद्भुतं रूपम्
इत्यादि युज्यते ॥ १९,२० ॥
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥ २१ ॥
रुद्रादित्या वसवो ये च साध्या विश्वेश्विनौ मरुतश्चोष्मपाश्च ।गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥ २२ ॥
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥ २३ ॥
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥ २४ ॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥ २५ ॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः॥ २६ ॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥ २७ ॥
यथा नदीनां बहवोम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥ २८ ॥
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगाः॥ २९ ॥
लेलिह्यसे ग्रसमानः समन्तात्- लोकान् समग्रान्वदनैर्ज्वलद्भिः ।तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥ ३० ॥
आख्याहि मे को भवानुग्ररूपो नमोस्तु ते देववर प्रसीद ।विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्॥ ३१ ॥
मुक्ताः सुरसङ्घा विशन्ति । 'प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत्
। इति हि ब्रह्माण्डे ॥ २१-२५ ॥
अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रलये प्रजानां प्रवेशवत् प्रवेशो युज्यते । सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्चोभे सेने तत्र प्रविशतः । ये तु तस्मिन्नेव मुहूर्ते मरिष्यन्ति तेषां दशनान्तरेषु चूर्णितमपि शिरः सूक्ष्मदृष्टिगोचरत्वान्मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथङ्ग् न पतति तावन्मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराश्विभ्यामेव दृष्टा ॥ २६-३० ॥
विशेषगुणकर्मविषय एव प्रश्नः । 'विष्णो
इति सम्बोधनात् ॥ ३१ ॥
कालोस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।ऋतेपि त्वा न भविष्यन्ति सर्वे येवस्थिताः प्रत्यनीकेषु योधाः॥ ३२ ॥
श्रीभगवानुवाच
'कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।संहारात् सर्ववित्त्वाद् वा सर्वविद्रावणेन वा ॥इति महावराहे ।अपिशब्देन भ्रात्रादीन् अपि ऋते ॥३२ ॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥ ३३ ॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्॥ ३४ ॥
जयद्रथस्य पितुर्वरादेव विशेषः । निहताः निहतप्राया । पश्चादर्जुनेपि स्थित्वा स एव हनिष्यति ॥ ३४ ॥
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥ ३५ ॥
सञ्जय उवाच
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥ ३६ ॥
अर्जुन उवाच
कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोप्यादिकर्त्रे ॥ अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्॥ ३७ ॥
त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् ।वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥ ३८ ॥
वायुर्यमोग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।नमो नमस्तेस्तु सहस्रकृत्वः पुनश्च भूयोपि नमो नमस्ते॥ ३९ ॥
वायुर्बलज्ञानयोगात् शशाङ्कोतिसुखाङ्कितः ।
इन्द्रः स परमैश्वर्यादिति नानाभिधो हरिः । इति च ॥३९ ॥
नमः पुरस्तादथ पृष्ठतस्ते नमोस्तु ते सर्वत एव सर्व ।अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोसि सर्वः॥ ४० ॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि॥ ४१ ॥
यच्चापहासार्थमसत्कृतोसि विहारशय्यासनभोजनेषु ।एकोथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्॥ ४२ ॥
एकः सर्वोत्तमोप्यसत्कृतः । 'एकः सर्वाधिको ज्ञेय एष एव करोति यत् इति च ॥ ४२ ॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।न त्वत्समोस्त्यभ्यधिकः कुतोन्यो लोकत्रयेप्यप्रतिमप्रभाव॥ ४३ ॥
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड््यम् ।पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥ ४४ ॥
अदृष्टपूर्वं हृषितोस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास॥ ४५ ॥
किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव ।तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते॥ ४६ ॥
तेनैव रूपेण भवेति अनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः ।
'पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम् ।
इति हि वैहायससंहितायाम् ॥४६ ॥
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥ ४७ ॥
श्रीभगवानुवाच
'विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः । इति पाद्मे ।'त्वदन्येन न दृष्टपूर्वम् इत्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति तदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव ।'विश्वरूपं प्रथमतो ब्रह्मापश्यच्चतुर्मुखः ।तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।यथेन्द्रेण पुरा दृष्टमपश्यत् सोर्जुनोपि सन् ।तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः ॥ इति ब्रह्माण्डे ॥४७ ॥
न वेदयज्ञाध्ययनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रैः ।एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥ ४८ ॥
वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यः । अन्यथा 'दृष्ट्वाद्भुतं रूपम् इत्यादिविरोधः ॥ ४८ ॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ग्ममेदम् ।व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥ ४९ ॥
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥ ५० ॥
सञ्जय उवाच
स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । एतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा 'द्रष्टुमिच्छामि ते रूपम्
इति विरुद्धं स्यात् ।
'परावरविभेदस्तु मुग्धदृष्टिमपेक्ष्य तु ।
प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः ।
अन्यथा न विशेषोस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया
॥ इति च ॥५० ॥
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥५१ ॥
अर्जुन उवाच
किञ्चित् मनुष्यवद् दृश्यमानत्वात् मानुषम् ॥ ५१ ॥
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥५२ ॥
श्रीभगवानुवाच
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये एकादशोध्यायः ॥
ये दर्शनकाङ्क्षिणस्तैरपीदानीं दृष्टप्रायः ॥ ५२ ॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥५३ ॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन ।ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥५४ ॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥५५ ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोध्यायः ॥