Jump to content

Nyayavivaranam/C1/S2

From Grantha
Revision as of 09:46, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

सर्वगतत्वाधिकरणम्


बहुलिङ्गसहितश्रुतेरपि सावकाशायाः, निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषु उक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं च । तथाऽपि निरवकाशा एतमेवेत्यवधारणादयः ॥1॥

अत्तृत्वाधिकरणम्


सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिर्लिङ्गं चादितिशब्दोदितत्वं च ॥2॥

गुहाधिकरणम्


द्विवचनश्रुतेरपि(द्विवचनश्रुतेरपि बलं) निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥3॥

अन्तराधिकरणम्


‘सोहमस्मि’(), ‘स एवाहमस्मि’() इत्याद्यभ्यास-अर्थवादसहितबहुश्रुतिभ्योऽपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥4॥

अन्तर्याम्यधिकरणम्


पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः(यौगिकशरीरवत्वोपपत्तेः) विष्णोरपि ॥5॥

अदृश्यत्वाधिकरणम्


‘अक्षरात् परतः परः’() इति श्रुतेरपि ‘नाक्षरात् सम्भवतीह विश्वं’() इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥6॥

वैश्वानराधिकरणम्


श्रुतिसाधारण्येऽपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्व-निरवकाशत्वबलात् निश्चयः ॥7॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥