Jump to content

Mahabharatatatparyanirnaya/C21/S1

From Grantha
Revision as of 09:45, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
औं ॥ जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम्(समस्तकौतुकोत्तमाम्) ।सभां विधाय भूभृते ददौ गदां वृकोदरे ॥ १॥


स वायुधारितां गदां हि यौवनाश्वभूभृता ।प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह ॥ २॥


पुनश्च वत्सरद्वयं समुष्य केशवो ययौ ।समर्चितस्य पाण्डवैर्वियोजनेऽस्य चाक्षमैः ॥ ३॥


ततो वसन् स्वपुर्यजः क्‍वचिद् रविग्रहे हरिः ।सदारपुत्रबान्धवः समन्तपञ्चकं ययौ ॥ ४॥


पृथासुताश्च सर्वशः सदारपुत्रमातृकाः ।क्षितीश्वराश्च सर्वशः प्रियाप्रिया(प्रियाः प्रियाः) हरेश्च ये ॥ ५॥


तथैव नन्दगोपकः सदारगोपगोपिकः ।मुनीश्वराश्च सर्वतः समीयुरत्र च प्रजाः ॥ ६॥


प्रियाश्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते ।वसिष्ठवृष्णिनन्दनौ भृगूत्तमं(भृगूद्वहं) तथाऽऽर्चयन्(आर्चयन्) ॥ ७॥


कृतार्थतां च ते ययू रमेशपाददर्शनात् ।रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके ॥ ८॥


अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् ।अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः ॥ ९॥


समस्तलोकसंस्थितात्मभक्तिमज्जनस्य सः ।सुकालदर्शनात् परं(वरं व्यधात्) व्यधादनुग्रहं हरिः ॥ १०॥


ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः ।चकार तत्र चाऽह्निकं क्रतुं महाश्वमेधिकम् ॥ ११॥


हयं सभीमफल्गुना हरे रथं समास्थिताः ।व्यचारयन् हरेः सुता दिनस्य पादमात्रतः ॥ १२॥


जिताः समस्तभूभृतो जरासुतादयः क्षणात् ।वृकोदरादिभिस्तु(वृकोदरादिभिः सुतैः) तैर्हयश्च दिव्य आययौ ॥ १३॥


हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् ।क्षमो हि गन्तुमञ्जसा दिनाश्वमेधसिद्धये ॥ १४॥


पराशरात्मजो हरिर्हरिं यदा त्वदीक्षयत् ।तदाऽऽससाद ह द्विजस्तृणावहो रुराव च ॥ १५॥


व्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् ।इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान् ॥ १६॥


सकृष्णरामकार्ष्णिभिः (न कृष्णरामकार्ष्णिभिः) सुता नु मेऽत्र पालिताः ।क्‍व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः ॥ १७॥


तदा जगाद फल्गुनोऽसुरैर्विदूषितात्मना ।न विप्र तादृशोऽस्म्यहं यथैव केशवादयः ॥ १८॥


मया जिता हि खाण्डवे सुरास्तथाऽसुरानहम् ।निवातवर्मनमकान् विजेष्य उत्तरत्र हि ॥ १९॥


उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् ।इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम् ॥ २०॥


विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा ।व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे(चकार हास्य रक्षणे) ॥ २१॥


वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः ।ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः ।न्ययोजयत् तत्साहाय्ये (तत्सहाये) यशस्तेष्वभिरक्षितुम् ॥ २२॥


प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः ।अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि ।रुक्मिपुत्र्यां रुक्मवत्यामाहृतायां स्वयम्बरे ॥ २३॥


रतिरेव हि या तस्यां जातोऽसौ कामनन्दनः ।पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च ।आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित् ॥ २४॥


तस्मात् तांस्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् ।न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः ॥ २५॥


अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापि तत्क्षणात् ।अदर्शनं ययौ पार्थो विषण्णः सह यादवैः ।अधिक्षिप्तो(अदिक्षिप्तः) ब्राह्मणेन ययौ यत्र श्रियःपतिः ॥ २६॥


वह्निं(अग्निं) विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः ।आशामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन् ॥ २७॥


ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः ।घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः ॥ २८॥


संस्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ ।समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः ॥ २९॥


सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ ।रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा ॥ ३०॥


स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य ।सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितले प्रजाताः ॥ ३१॥


दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः ।प्रीतिर्महत्येव यतोऽर्जुने हरेः संशिक्षयामास ततः स एनम् ॥ ३२॥


अप्राकृतात् सदनाद् वासुदेवो निस्सृत्य सूर्याधिकलक्षदीधितेः ।रथं समारुह्य सपार्थविप्र आगात् सुतांश्चैव ददौ द्विजाय ॥ ३३॥


लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने ।चक्रे सार्द्धमुहूर्तेन समागम्य पुनर्मखम् ॥ ३४॥


ब्रह्मादीनागतांश्चैव सदा स्वपरिचारकान् ।पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत्(अभ्यपूजयत्) ॥ ३५॥


सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः ।आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह ॥ ३६॥


जघान गदया कृष्णस्तं क्षणात् सविडूरथम् ।विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः ॥ ३७॥


हरेः पार्षदः क्षिप्रं हरिमेव समाश्रितः ।कृष्णे प्राप्ते स्वलोकं च निस्सृत्यास्मात् स्वरूपतः ।एकीभावं स्वरूपेण द्वारपेण गमिष्यति ॥ ३८॥


ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् ।किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः ॥ ३९॥


अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ ।तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः ॥ ४०॥


अन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम्(वज्रलेपितम्,वज्रलेपकम्)) ।एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः ।अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः ॥ ४१॥


घनोदकं तद्द्विगुणं तदन्ते धाम मामकम् ।यत्तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः ।सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः ॥ ४२॥


लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः ।सपञ्चाशत्सहस्रश्च तस्यापि गणनं तथा ॥ ४३॥


योजनानां पञ्चविंशत्कोटयो मेरुपर्वतात् ।चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम् ॥ ४४॥


अबग्नीरनभोहङ्कृन्महत्तत्त्वगुणत्त्रयैः ।क्रमाद् दशोत्तरैरेतदावृतं(क्रमाद् दशोत्तरैरैतैरावृतं) परतस्ततः ॥ ४५॥


व्याप्तोऽहं (सर्वतः)सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः ।अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः ।अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः ॥ ४६॥


मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय ।मत्प्रसादाद् बलं चैव विजयश्चाखिला गुणाः ।तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ ॥ ४७॥


‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे’ ।(भ.गी.१८-६५) इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः ॥ ४८॥


उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः ।अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते ।सम्भाविताः केशवेन सौहार्देनाधिकेन च ॥ ४९॥


ततः कदाचित् प्रवरे सभातले धर्मात्मजो राजभिर्भ्रातृभिश्च ।वृतो निशम्यैव(निशाम्यैव) सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत् ॥ ५०॥


अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् ।अर्द्धकोट्युच्छ्रितः(अर्ध कोट्युच्छ्रितः) स्वर्गो विमानावलिसङ्कुलः ॥ ५१॥


भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ(प्रविस्तृते) ।महर्जनस्तपश्चैव क्रमादध्यर्द्धयोजनाः ।पञ्चाशत्कोटिविस्तारा योजनानां समस्तशः(योजनानां च सर्वशः) ॥ ५२॥


यावन्त एते मिलितास्तत्प्रमाण उदीरितः ।सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते ॥ ५३॥


ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः ।उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः ॥ ५४॥


अनन्तजनसम्पूर्णा(अनन्तजनसङ्कीर्णाः) अपि ते हीच्छया हरेः ।अवकाशवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन ।सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः ॥ ५५॥


दिव्यरत्नसमाकीर्णं तथा पातालसप्तकम् ।अधस्ताच्छेषदेवेन बलिना समधिष्ठितम् ॥ ५६॥


कामभोगसमायुक्ता बहुवर्षसहस्रिणः ।सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः ॥ ५७॥


एषां च सर्वलोकानां धाता नारायणः परः ।विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते ॥ ५८॥


सेवका ब्रह्मणश्चैव देवा वेदाश्च सर्वशः ।शक्रस्य मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः ॥ ५९॥


अखिला अपि राजानः पाण्डुश्चास्मत्पिता मुने ।यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च ॥ ६०॥


उपास्यमानो भगवान् रामो यमसभातले ।उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः ॥ ६१॥


प्रादुर्भावाश्च निखिला ब्रह्मणोपासिताः सदा ।वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः ।गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः ॥ ६२॥


रुद्रस्योग्राणि भूतानि नृसिंहात्मा शिवेन च ।उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ ।सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता ॥ ६३॥


तत्र मे संशयो भूयान् हरिश्चन्द्रः कथं नृपः ।ऐन्द्रं सभातलं प्राप्तः पाण्डुर्नास्मत्पिता मुने ॥ ६४॥


इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् ।हरिश्चन्द्रस्य तां(तं) दृष्ट्वा पिता यमसभातले ।स्थितस्त्वामवदत् पाण्डू रामद्वयसुदैवते(रामद्वयसुदैवतम्) ॥ ६५॥


करोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः ।पालितो वासुदेवेन किं तस्यासाध्यमत्र हि ॥ ६६॥


एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी ।अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित् ॥ ६७॥


सुकार्यमेतदित्यलं निशम्य सोदरोदितम् ।अयातयत् स्वसारथिं स केशवाय भूपतिः ॥ ६८॥


तदैव केशवस्य याः स्त्रियस्तदीयतातकैः ।सहोदरैश्च यापितः स दूत आप माधवम् ॥ ६९॥


प्रणम्य केशवं वचः स आह मागधेन ते ।विवाहबान्धवा रणे विजित्य रोधिता गिरौ ॥ ७०॥


नृपायुतद्वयेन सोऽष्टविंशकैः शतैरपि ।यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते ॥ ७१॥


विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् ।अवैदिकं मुखं च तं विलुम्प धर्मगुप्तये ॥ ७२॥


इतीरितोऽथ सारथिं निशाम्य धर्मजस्य च ।निशम्य तद् वचस्तदा जगाम पाण्डवालयम् ॥ ७३॥


स पाण्डवैः समर्चितो मखाय धर्मजेन च ।प्रपृष्ट आह माधवो वचो जगत्सुखावहम् ॥ ७४॥


क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् ।पदं नयेत तत्पदे सुयोग्यमेष नान्यथा ॥ ७५॥


(अयोग्यकम्)अयोग्यकान्महापदे विधातुरेष हि क्रतुः ।समानयोग्यतागणात् करोति मुक्तिगं वरम्(मुक्तिगं परम्) ॥ ७६॥


पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च ।अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते ॥ ७७॥


सुरांशकोऽपि ते पिता विना हि राजसूयतः ।न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु ॥ ७८॥


तपश्चरन् समागते शचीपतौ पिता तव ।मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः ॥ ७९॥


व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् ।गतोऽपि नः स्वकां तनुं प्रवेष्टुमत्र नेशसे ॥ ८०॥


तदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ ।क्षमापितश्च वासवो जगाद राजसूयतः ।त्रिशङ्कुजाधिको भवानवाप्स्यति(अवाप्स्यसि) स्वकां तनुम् ॥ ८१॥


अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः ।भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला ॥ ८२॥


उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता ।वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यतः ॥ ८३॥


ततः सुपूर्णमस्य तत् फलं विधातुमञ्जसा ।जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम् ॥ ८४॥


क्‍व राजसूयमद्य ते जरासुते तु जीवति ।जयेत् क एव तं युधा मृतो न योऽपि सीरिणा ॥ ८५॥


विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि ।स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः ॥ ८६॥


इतीरिते(इतिरितो) रथाङ्गिना जगाद धर्मनन्दनः ।निवर्तितं मनः क्रतोरलं ममामुना प्रभो ॥ ८७॥


बभूवुरेव(बभूविरे च) भूभृतो नचाऽधिराज्यमापिरे ।यदा च चक्रवर्तिनस्तदेदृशा न शत्रवः ॥ ८८॥


इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः ।पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः ॥ ८९॥


निजानुभाववर्जिता हरेरनुग्रहोज्झिताः ।महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम् ॥ ९०॥


स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः ।प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः ॥ ९१॥


इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः ।स्थिते हि यज्ञकारणे वृकोदरे जगाद ह(जगाद हि) ॥ ९२॥


स एक एव पूरुषो जरासुतोऽद्य वर्तते ।समस्तसद्विरोधिनां बलं कलेरनन्तरः ॥ ९३॥


तथा सतां समाश्रयो यदुद्भवाः सतां गुणाः ।स एक एव तादृशस्त्वया विचिन्त्य यात्यताम् ॥ ९४॥


यदि स्म तेन मागधो निहन्यते सतां जयः ।विपर्ययेण चासतामिति स्म विद्धि नान्यथा ॥ ९५॥


स पारमेष्ठ्यसत्पदं प्रयात्यसंशयं युधि ।य एव हन्ति मागधं स वेदधर्मपालकः(स एव धर्मपालकः) ॥ ९६॥


निहन्ति मागधेश्वरं य एष वैष्णवं जगत् ।करोति शर्वपालितो यतः स बार्हद्रथः ॥ ९७॥


निहन्ति शैवनायकं य एष(स एव) वैष्णवाग्रणीः ।इति स्म भावसंयुते वदत्यजेऽबिभेन्नृपः ॥ ९८॥


युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति ।तमाह मारुतात्मजो निहन्मि मागधं रणे ॥ ९९॥


इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः ।अहं च भीमफल्गुनौ निहन्तुमेव मागधम् ॥ १००॥


वृकोदरेण हन्यते यदि स्म मागधाधिपः ।मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत् ॥ १०१॥


इतीरिते तु शौरिणा जगाद धर्मनन्दनः ।स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन् ॥ १०२॥


भयाद्धि यस्य माधुरं विहाय मण्डलं गताः ।भवन्त एव सागरं ततो बिभेम्यहं रिपोः ॥ १०३॥


इमौ हि(इमौ च) भीमफल्गुनौ ममाक्षिणी सदा प्रभो ।मनोनिभो भवान् सदा न वो विनास्म्यऽहं पुमान् (विनाऽस्म्यतः पुमान्) ॥ १०४॥


अतो न जीवितात् प्रियानहं रिपोर्बलीयसः ।सकाशमात्महेतुतः प्रयातयामि वो विभो ॥ १०५॥


इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक् ।यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः ॥ १०६॥


वशे च यस्य तद् बलं सुरासुरोरगादिनाम् ।स एष केशवः प्रभुः क्‍व चास्य बार्हद्रथः ॥ १०७॥


अधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च ।समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता ॥ १०८॥


अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि ।अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम् ॥ १०९॥


हनिष्य एव मागधं हरेः पुरो न संशयः ।इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम् ॥ ११०॥


वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे ।हनिष्यति स्फुटं रणे वृकोदरो जरासुतम् ॥ १११॥


भयं न कार्यमेव ते मया हतः स नेति ह ।मया हि(न) नीतिहेतुतः स्वयं न हन्यते(निहन्यते) रिपुः ॥ ११२॥


स शर्वसंश्रयाग्रणीर्मदाश्रयोत्तमेन तु ।निहन्यते यदा तदा प्रकाशितं हि मे बलम् ॥ ११३॥


अतो न शङ्कितं मनः कुरुष्व भूपते(भूपतिं) क्‍वचित् ।प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम् ॥ ११४॥


इतीरितः स विष्णुना विचार्य तद्गुणान् परान् ।तथेति चाऽह ते त्रयः प्रतस्थुराशु मागधान् ॥ ११५॥


समेत्य मागधांस्तु ते शिवोरुलिङ्गमित्यलम् ।सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः ॥ ११६॥


स्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् ।न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत् ॥ ११७॥


अद्वारतस्ते नगरं प्रविश्य माषस्य नालेन कृतास्त्रिभेरीः ।पुष्टिप्रदा(मुष्टिप्रदानात्,मुष्टिप्रदाः) बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः ॥ ११८॥


तथाऽऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभांश्च दध्रुः ।अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपः प्रसस्रुः ॥ ११९॥


तान् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् ।द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान् ॥ १२०॥


के ष्ठाथ(स्थात) किंहेतुत आगताश्च कृतश्च मे पर्वतलिङ्गभेदनम् ।कृतं भवद्भिः कुत एव दुर्नयाः कृतास्तथाऽन्ये द्विजवर्यवेषैः ॥ १२१॥


इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् ।इत्युक्त ऊचे नहि(नच) विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत् ॥ १२२॥


इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः ।अहं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ ॥ १२३॥


यद् बान्धवान् नः पिशिताशिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे ।इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहाऽगता वयम् ॥ १२४॥


विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् ।मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र ॥ १२५॥


इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् ।मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायात् ॥ १२६॥


निरायुधः सायुधो वा युष्मदिष्टायुधेन वा ।एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान् ॥ १२७॥


इत्युक्तवन्तमवददजितोरुबलो हरिः ।एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप ॥ १२८॥


येन कामयसे योद्धुं तं न आसादय द्रुतम् ।निरायुधः सायुधो वा त्वदभीष्टायुधेन वा ।इत्याऽह भगवाञ्छत्रुं यशो भीमे विवर्धयन्(भीमेऽभिवर्धयन्) ॥ १२९॥


घातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् ।भीमस्य कर्तुमिच्छंश्च भक्तिज्ञानादिवर्धनम्(भक्तिज्ञानाभिवर्धनम्) ॥ १३०॥


तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् ।कृष्णभीमार्जुनास्तेन विप्रवेषाश्च तेऽभवन् ॥ १३१॥


निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन ।ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम् ॥ १३२॥


मागधस्य ससैन्यस्य स्वगृहे संस्थितस्य च ।निरायुधेन भीमेन समाह्वाने कृतेऽमितम् ।धर्मं यशश्च भीमस्य वर्द्धयामास केशवः ॥ १३३॥


तृतीयमर्जुनं चैव समादाय ययौ रिपुम् ।हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाशयन् ।मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन् ॥ १३४॥


वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः ।कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम् ॥ १३५॥


पञ्चपञ्चाशदब्दोऽद्य ह्ययमेवं च बालवत् ।अबलत्वाद् युवाऽप्येष बाल एव मतो मम ॥ १३६॥


इत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् ।बाहुभ्यां धनुषा वेति(चेति) शङ्कमानः पराजयम् ॥ १३७॥


अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् ।एतदर्थं हि कृष्णेन सहाऽनीतः स फल्गुनः ॥ १३८॥


जानन् कृष्णे बलं घोरमविषह्यं स मागधः ।कुत्सयन् गोप इति तं भयान्नैवाऽह्वयत् प्रभुम् ॥ १३९॥


आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति ।हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम् ।तस्मात् तं नाह्वयामास वासुदेवं स मागधः ॥ १४०॥


अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः ।त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्च मे ध्रुवम् ॥ १४१॥


इति मत्वाऽऽह्वयामास भीमसेनं स मागधः ।कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः ॥ १४२॥


इति स्म(इतीक्ष्य) भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली ।राज्ये निजं चाऽत्मजमभ्यषिञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम् ॥ १४३॥


बलं भीमे मन्यमानोऽधिकं तु गदाशिक्षामात्मनि चाधिकां नृपः ।भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली ॥ १४४॥


तदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसंयुतो बहिः ।पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः ॥ १४५॥


वाचाऽजयत् तं प्रथमं वृकोदरः शिवाश्रयं विष्णुगुणप्रकाशया ।ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ ॥ १४६॥


तयोर्गदे तेऽशनिसन्निकाशे चूर्णिकृते देहमहादृढिम्ना ।अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पांसुपिण्डौ सुमुक्तौ ॥ १४७॥


सञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः ।ब्रह्माण्डस्फोटसङ्काशैर्यथा केशवकैटभौ ॥ १४८॥


चचाल पृथ्वी गिरयश्च चूर्णिताः कुलाचलाश्चेलुरलं विचक्षुभुः ।समस्तवाराम्पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः ॥ १४९॥


सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य ।पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि ॥ १५०॥


मानयित्वा वरं धातुर्दिवसान् दश पञ्च च ।वासुदेवाज्ञया भीमः शत्रुं हन्तुं मनो दधे ॥ १५१॥


स प्रणम्य हृषीकेशं हर्षादाश्लिष्य फल्गुनम् ।रिपुं जग्राह मकुटे(मकुटे) वारणं मृगराडिव ॥ १५२॥


पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह ।मृतिकाले पुनर्देहं विददार यथा पुरा ॥ १५३॥


मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः ।स्वपुरुषप्रकाशाय बभञ्जैनं न मर्मणि ॥ १५४॥


भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः ।बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम् ॥ १५५॥


निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः ।कृतां हि भीमेन समर्चनां तां समक्षमादातुमिहाऽगतो ह्यजः ॥ १५६॥


स्वीकृत्य पूजां च वृकोदरस्य दृढं समाश्लिष्य च तं जनार्दनः ।प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन ॥ १५७॥


जग्मुः सुराश्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराश्च दैत्याः ।बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसंश्रयेण ॥ १५८॥


सुतो ययौ शरणं तान् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् ।रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परयैव भक्त्या ॥ १५९॥


रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽऽप्तो वसुवंशजत्वात् ।जरासुतस्याऽस वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै ॥ १६०॥


कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथाऽरुहत् पाण्डवाभ्याम् ।भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्याऽत्मनः सः ॥ १६१॥


नकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि ।एका पूर्वं ते अश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या ।ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ ॥ १६२॥


जरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया ।तदाज्ञया पितृकार्याणि(पितृकर्माणि) कृत्वा तदाज्ञयैवामुचत् तान् नृपांश्च ।तैः संस्तुतः केशवो भीमपार्थयुक्तो दृष्ट्वा भक्तिनम्रैर्यथावत्(दृष्ट्वा ययौ भक्तिनम्रैः) ॥ १६३॥


सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य(प्रणम्य) कृष्णं भीमसेनं च सर्वे ।ययुर्गृहान् स्वानपतत् केशवद्विड् जरासुतोऽन्धे तमसि क्रमेण ॥ १६४॥


कृष्णश्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् ।तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव ॥ १६५॥


द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय ।तं राजसूयसहितं परमाश्वमेधयज्ञं(वरमश्वमेधयज्ञं) समादिशदनन्यकृतं विरिञ्चात् ॥ १६६॥


कर्ता हि तस्य परमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः ।भीमे मखस्य फलमत्यधिकं निधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य ॥ १६७॥


असाधारणहेतुर्यः कर्मणो यस्य चेतनः ।स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः ।विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः ॥ १६८॥


हेतवोऽपि हि पापस्य न प्रायः फलभागिनः(फलभोगिनः) ।देवाः पुण्यस्य दैत्याश्च मानुषास्तु विभागिनः (मानुषास्तद्विभागिनः) ॥ १६९॥


असाधारणहेतुश्च भीम एव प्रकीर्तितः ।यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि ॥ १७०॥


जयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः ।द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः ॥ १७१॥


तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् ।अनन्यकृतमादिश्य दिशां विजयमादिशत् ॥ १७२॥


अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः ।ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो ॥ १७३॥


इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते ।समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति ते(वीर्यमस्ति हि) ॥ १७४॥


तथाऽपि कीचकादयो वृकोदरादृते वशम् ।न यान्ति नापि ते वशं प्रयाति कर्ण एव च ॥ १७५॥


बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् ।ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च ॥ १७६॥


सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया ।ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम् ॥ १७७॥


जीवग्राहभयात् कर्णो ददाति करमञ्जसा ।भीमाय नात्र सन्देहो जितोऽनेन च संयुगे ॥ १७८॥


अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ ।वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः ॥ १७९॥


जीवग्राहभयं ह्येषां भीमान्मागधपातनात् ।तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा ॥ १८०॥


प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाशेषदिक्षु ।नागांश्च दैत्यांश्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र ॥ १८१॥


रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् ।येऽन्ये च बाणप्रमुखा अजेयाः शर्वाश्रयास्तानपि भीम एतु ॥ १८२॥


तथा सुराश्चापि(तथाऽसुराः) समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे ।दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे ॥ १८३॥


यशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काल्याः ।उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणम् (परमोरुसद्गुणाः) ॥ १८४॥


वृकोदरोऽजयन्नृपान् विराटमाससाद ह ।जितेऽत्र कीचके रणे समाददे करं ततः ॥ १८५॥


ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः ।मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः ॥ १८६॥


मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम् ।करं सुमहदादाय ततः पूर्वां(पूर्वं) दिशं ययौ ॥ १८७॥


क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम् ।विरथीकृत्य कर्णं च करमादाय सर्वतः ॥ १८८॥


हिमवच्छिखरे देवान् जित्वा शक्रपुरोगमान् ।क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम्(सञ्चयान्) ॥ १८९॥


बाहुयुद्धेन शेषं च गरुडं च महाबलम् ।क्रीडमानौ(क्रीडमानो) विनिर्जित्य भूषणान्याप तोषतः ।ताभ्यां च दृढमाश्लिष्टः स्नेहविक्लिन्नया धिया ॥ १९०॥


पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च ।रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः ॥ १९१॥


पृष्टश्च गिरिशेनासौ विस्तरं दिग्जयस्य च ।सिंहव्याघ्रादिरूपाश्च आत्मना विजिता यथा ।गुरुत्मच्छेषशक्राद्या देवाः सर्वे तदब्रवीत् ॥ १९२॥


निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् ।हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम्(सुदिव्यरत्नसञ्चयम्) ॥ १९३॥


स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम्। प्रगृह्य रत्सञ्चयं स्वकं पुरं समाययौ॥१९४॥


स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् ।पुरो निधाय तद् वसु प्रभूतमानमत् तदा ॥ १९५॥


सोऽभिवाद्याग्रजं(सोऽभिवन्द्याग्रजं) चैव यथावृत्तं न्यवेदयत् ।आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा ॥ १९६॥


यथा जिताः कीचकाद्या एकलव्यसहायवान् ।यथा जितः पौण्ड्रकश्च कर्णाद्याश्च तथाऽपरे ॥ १९७॥


यथा सिंहादितनवः शेषवीन्द्रेन्द्रपूर्वकाः ।यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत् ॥ १९८॥


सम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः ।आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत् ॥ १९९॥


ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् ।जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा ॥ २००॥


विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः ।इत्युक्त्वैनं समाश्लिष्य यज्ञाङ्गानि समादिशत् ॥ २०१॥


तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः ।सहदेवो दक्षिणाशां जित्वा रत्नान्युपाहरत् ॥ २०२॥


तत्र रुग्मी(रुक्मी) न युयुधे सहदेवेन वीर्यवान् ।जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम् ॥ २०३॥


तपसा तोषितात् कृष्णादन्यानेवामुनाऽखिलान् ।विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः ।मामेष्यतीति तेनोक्तो न व्यरुध्यत केशवे ॥ २०४॥


स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः ।भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम् ।जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान् ॥ २०५॥


तथा स्मृतं समागतं घटोत्कचं विभीषणे ।समादिशद् ययौ च सोऽपि सोऽददान्महाकरम् ॥ २०६॥


पुरा हि राघवोदितं तदस्य(यदस्य) सोऽखिलं तदा ।विचार्य केशवं च तं बलं च भीमपार्थयोः ।दिवौकसश्च पाण्डवानवेत्य सोऽददात् करम् ॥ २०७॥


महौघरत्नसञ्चयं स आप्य भीमसेनजः ।ययौ च माद्रिनन्दनं स चाऽययौ स्वकं पुरम् ॥ २०८॥


नकुलः पश्चिमाशायां विजिग्येऽखिलभूभृतः ।करमाप च वीरोऽसौ सौहार्दादेव मातुलात् ।आययौ च महारत्नसञ्चयेन स्वकं पुरम् ॥ २०९॥


अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी।यात एव दिशमुत्तरां यदा(तदा) पार्वतेयकुनृपाः समाययुः ॥ २१०॥


त्रैगर्ताः पार्वतेयाश्च सहिताः पाण्डुनन्दनम् ।अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम् ॥ २११॥


तान् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् ।प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः ॥ २१२॥


सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् ।ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः ॥ २१३॥


सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् ।नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा ॥ २१४॥


स्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् ।अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः ॥ २१५॥


पार्थो जित्वाऽष्टवर्षाणि षड् द्वीपानपरानपि ।अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा ॥ २१६॥


पाताळसप्तकं गत्वा जित्वा दैतेयदानवान् ।बलेश्च विष्णुवचनात् करं जग्राह सामतः ॥ २१७॥


जित्वा च वासुकिं भूरि रत्नमादाय सत्वरः ।आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः ॥ २१८॥


सुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः ।चत्वारो योजनानां हि दश त्रिंशच्छतं तथा ॥ २१९॥


चतुःशतं च क्रमश उच्छ्रिता दिग्जयार्जिताः ।प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः ॥ २२०॥


विश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थले ।अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत् ॥ २२१॥


ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः ।ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः ।द्वैपायनोक्तविधिना (दीक्षितं)दीक्षयाञ्चक्रिरे नृपम् ॥ २२२॥


ज्येष्ठत्वाद् याजमानं तु प्रणिधाय युधिष्ठिरे ।भीमार्जुनादयः सर्वे सह तेन समासिरे ॥ २२३॥


ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत् ।पदायोग्यतया नान्याः पत्न्यस्तेषां सहाऽसिरे ॥ २२४॥


आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः ।स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत् ।किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः ॥ २२५॥


आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् ।सर्वमत्राऽगमद् ब्रह्मशर्वशक्रादिपूर्वकम् ॥ २२६॥


भीष्मो द्रोणश्च विदुरो धृतराष्ट्रः सहात्मजः ।सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः ॥ २२७॥


तथैव यादवाः सर्वे बलभद्रपुरोगमाः ।(रुग्मिणी)रुक्मिणीसत्यभामाद्या महिष्यः केशवस्य च ॥ २२८॥


तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे ।प्राश्निकोऽत्र परिपूर्णचिद्धनो व्यास एव भगवान् बभूव ह ॥ २२९॥


तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् ।नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि ॥ २३०॥


बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते ।मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम् ॥ २३१॥


जानमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् ।संशयं भूभृतां भेत्तुं भीष्मं पप्रच्छ धर्मवित् ॥ २३२॥


नास्ति नारायणसममिति वादेन निर्णये ।कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे ॥ २३३॥


नृपास्तस्मादयं कृष्णो नारायण इति स्म ह ।सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत ॥ २३४॥


ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः ।नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि ॥ २३५॥


सर्वशास्त्रविदं भीष्मं जानन्त्येते नृपा अपि ।तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा ॥ २३६॥


पितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे ।ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च ।इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम्(हरिम्) ॥ २३७॥


यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु ।प्रादुर्भूतस्तथाऽप्येते नृपा हि व्यासरामयोः ॥ २३८॥


विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् ।मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः ॥ २३९॥


अविवादे प्रसिद्धिश्च नैवास्य भविता क्‍वचित् ।तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम् ॥ २४०॥


कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा ।विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृता ।ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः ॥ २४१॥


व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम् ।अग्र्यां पूजां दुदुश्चान्यान् यथायोग्यमपूजयन् ॥ २४२॥


अग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाशु च चेदिराजः ।श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः ॥ २४३॥


दूरेऽपि केशवविनिन्दनकारिजिह्वामुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा ।भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय ॥ २४४॥


मयैव वध्याविति तावाह यत् केशवः पुरा ।तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात् ॥ २४५॥


जानन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः ।भीम एतावदुचितमिति मत्वा स्थितः पुनः ॥ २४६॥


देवसङ्घभविनां महानभूदीक्ष्य(महानभूद् वीक्ष्य) तोष इह केशवेऽधिकाम् ।अर्चनां य इह मानुषो जनो मध्य एव स तु संस्थितोऽभवत् ॥ २४७॥


आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे ।दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम् ॥ २४८॥


समाह्वयच्च केशवं युधे तमाशु केशवः ।निवार्य तस्य सायकाञ्जघान चारिणा प्रभुः ॥ २४९॥


निकृत्यमानकन्धरः स भक्तिमानभूद्धरौ ।तमाश्रितश्च योऽसुरो महत्तमः(महातमः) प्रपेदिवान् ॥ २५०॥


जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् ।असौ च पाण्डवक्रतुः प्रवर्तितो यथोदितः ॥ २५१॥


सुवर्णरत्नभारकान् बहून् नृपा उपानयन् ।उपायनं(उपायने) सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च ॥ २५२॥


अभोजयंस्तथा द्विजान् यथेष्टभक्ष्यभोज्यकैः ।सुवर्णरत्नभारकान् बहूंश्च दक्षिणा ददुः ॥ २५३॥


यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः ।समस्तमत्र सर्वशोऽथ सस्नुरुद्भृता(सस्नुरुद्धताः) मुदा ॥ २५४॥


नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः ।प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन् ॥ २५५॥


समस्तराजसंयुता विगाह्य जाह्नवीजले ।पुरं ययुः पुनश्च ते सुसद्म चागमन् सुराः ॥ २५६॥


गतेषु सर्वराजसु स्वकां(स्वकं) पुरं स्वकेषु च ।सभीष्मकेषु सर्वशः सहाऽम्बिकेयकेषु च ॥ २५७॥


विचित्ररत्ननिर्मिते रविप्रभे सभातले ।सकेशवो वरासने विवेश धर्मनन्दनः ॥ २५८॥


तथैव (रुग्मिणी)रुक्मिणीमुखाः परिग्रहा रमेशितुः ।तथैव भीमफल्गुनावुपाविशन् हरेरुप ॥ २५९॥


सहैव वायुसूनुना तथैव पार्षतात्मजा ।उपैव रुग्मिणीं शुभा तथैव सत्यभामिनीम्(तथा ससत्यभामिनीम्) ॥ २६०॥


यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् ।तथैव रामसात्यकी समीप एव भूभृतः ॥ २६१॥


समासतां तु सा सभा व्यरोचताधिकं तदा ।यथा सभा स्वयम्भुवः समास्थिता च विष्णुना ॥ २६२॥


विचित्रहेममालिनः शुभाम्बराश्च तेऽधिकम् ।स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः ॥ २६३॥


विशेषतो जनार्दनः सभार्यको जगत्प्रभुः ।यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः ॥ २६४॥


उपासिरे च तान् नृपाः समस्तशः सुहृद्गुणाः ।तदाऽऽजगाम खड्गभृत् सहानुजः सुयोधनः ॥ २६५॥


द्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तम् ।अभ्यन्तराणां दृशि नो विघातिनीं(दृशिनोऽविघातिनीं) संस्फाटिकामाशु दृढं चुचुम्बे(चुचुम्ब) ॥ २६६॥


प्रवेशयेतां च यमौ तमाशु सभां भुजौ गृह्य नृपोपदिष्टौ ।तत्रोपविश्य क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम् ॥ २६७॥


तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् ।रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे ॥ २६८॥


तं प्राहसद् भगवता क्षितिभारनाशहेतोः सुसूचित उरुस्वरतोऽत्र भीमः ।पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः ॥ २६९॥


मन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य ।नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि ॥ २७०॥


कृष्णावृकोदरगतं बहुलं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्रः ।सुव्रीडितो नृपतिदत्तवराम्बरादीन्(नृपतिदत्तसदम्बरादीन्) न्यक्कृत्य मार्गगत आह स मातुलं स्वम् ॥ २७१॥


यौ मामहसतां कृष्णभीमौ कृष्णस्य सन्निधौ ।तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे ॥ २७२॥


यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम् ।अग्रपूजां च कृष्णस्य विलुम्पेयं न संशयः ॥ २७३॥


ईदृशं पाण्डवैश्वर्यं दृष्ट्वा को नाम जीवितम् ।इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः ॥ २७४॥


इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् ।किं ते वैरेण राजेन्द्र बलिभिर्भ्रातृभिः पुनः ॥ २७५॥


अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् ।इतीरितोऽतिसंवृद्धकोप आह सुयोधनः ॥ २७६॥


यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः ।सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते ॥ २७७॥


नच बाहुबलाच्छक्ष्य आदातुं तां श्रियं क्‍वचित् ।नेन्द्रोऽपि समरे शक्तस्तान् जेतुं किमु मानुषाः ॥ २७८॥


इतीरितः पापतम आह गान्धारको नृपः ।पापानामखिलानां च प्रधानं(प्रधानः) चक्रवर्तिनम् ॥ २७९॥


यां यां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि ।तामक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके ॥ २८०॥


इतीरितः प्रसन्नधीः सुयोधनो बभूव ह ।प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम् ॥ २८१॥


धृतराष्ट्रमथोवाच द्वापरांशोऽतिपापकृत् ।नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम् ॥ २८२॥


दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः ।अब्रूतां तौ नृपायाऽशु द्वाभ्यां यन्मन्त्रितं पथि ॥ २८३॥


श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाशकारणम् ।कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाश्रियो(स्वबाहुवीर्यात्तमहाश्रियः) हि ते ॥ २८४॥


त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः ।विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाऽशु सुयोधनस्तम् ॥ २८५॥


यदि श्रियं पाण्डवानां नाक्षैराहर्तुमिच्छसि(नाक्षैराच्छेत्तुमिच्छसि) ।मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव ॥ २८६॥


यदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् ।सभार्यान् देवनायैव नचाधर्मोऽत्र कश्चन ॥ २८७॥


वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः ।त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत् ॥ २८८॥


अतः स्वधर्म एवायं तवापि स्यात् फलं महत् ।इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत् ॥ २८९॥


एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् ।पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति ॥ २९०॥


आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये ।अंशेन तत आरभ्य नैवास्मादपजग्मिवान् ॥ २९१॥


यावत् पुरं परित्यज्य वनमेव विवेश ह ।तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत् ॥ २९२॥


न्यवारयत् तं विदुरो महत् ते पापं कुलस्यापि विनाशकोऽयम् ।समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात् ॥ २९३॥


इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् ।द्रष्टुं सुतान् क्रीडत एकसंस्थानिच्छामि पार्थांश्च सुयोधनादीन् ॥ २९४॥


अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः ।ययौ स विदुरः पार्थान् द्वारकां केशवे गते ॥ २९५॥


गते हि पार्थसन्निधेः सुयोधने तु नारदः ।शशंस धर्मसूनुना प्रचोदितोऽरिमागतम् ॥ २९६॥


क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः ।स सौभराड् वरं शिवादवाप वृष्णिनिर्जयम्(वृष्णिनिर्जये) ॥ २९७॥


पांसुमुष्टिं सकृद्ग्रासी बहूनब्दांस्तपश्चरन् ।आजगाम हरादाप्य वरं कृष्णजये पुनः ॥ २९८॥


स श्रुत्वा मागधवधं दिशां विजयमेव च ।राजसूयं क्रतुं चैव शिशुपालवधं तथा ॥ २९९॥


यदून् प्रत्युद्यमं तूर्णं करोतीति निशम्य तत् ।समैक्षद् धर्मजः कृष्णमुखशीतांशुमण्डलम्(कृष्णमुखं शीतांशुमण्डलम्) ॥ ३००॥


अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् ।प्रद्युम्नादीन् दिनैः कैश्चित् स्वयं चागात् सहाग्रजः ॥ ३०१॥


विदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् ।भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट् ।सार्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम् ॥ ३०२॥


ज्येष्ठाज्ञयैव विदुर आह्वायन्नपि धर्मजम् ।नाऽगन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून् ॥ ३०३॥


इतीह दोषसञ्चयस्तथापि ते पितुर्वचः ।समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः ॥ ३०४॥


इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः ।विचित्रवीर्यजं च तं समासदत् ससैनिकः ॥ ३०५॥


कल्याविशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा ।आहूतो (द्यूतकरणात्) द्यूतरणान्निवर्तेयं नैव वारितोऽपीति ॥ ३०६॥


तेनाऽयात् (स सुहृद्भिः)स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाशु ।नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः ॥ ३०७॥


वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यवसन् निशायाम् ।प्रातश्च भीष्ममुखराः सकलाश्च भूपा आसेदुराशु च सभां सह पाण्डुपुत्रैः ॥ ३०८॥


वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः ।प्राप्ताः सभातलमथाऽह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय ॥ ३०९॥


सर्वांश्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् ।क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाशनकर्मवृत्ताः ॥ ३१०॥


भीमादिभिः स विदुरेण च वार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् ।गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय ॥ ३११॥


तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण ।राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः ॥ ३१२॥


सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसिक्षिप्रं चाऽयाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत् ।नाहं यास्ये गुरूणां(कुरूणां) समितिमिति ययौ सोऽप्यमुं भीमभीतंज्ञात्वा दुःशासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम् ॥ ३१३॥


स पापपूरुषोत्तमः प्रगृह्य केशपक्षके ।पुरः स्वमातुरानयत् सभामयुग्मवाससीम् ॥ ३१४॥


समाहृता रजस्वला जगाद भीष्मपूर्वकान् ।अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः ॥ ३१५॥


कथं छलात्मके द्यूते जिते धर्मजयो भवेत् ।नहि द्यूतं धर्ममाहुः(धर्म्यमाहुः) विशेषेण तु भूभुजाम् ॥ ३१६॥


येऽधर्मं(ये धर्मं) न वदन्तीह न ते वृद्धा इतीरिताः ।अवृद्धमण्डितां नैव सभेत्याहुर्मनीषिणः ॥ ३१७॥


कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते ।समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्चितः ॥ ३१८॥


सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया ।दासीत्वं न पृथङ् मे स्याज्जितेऽपि हि पतौ ततः ॥ ३१९॥


इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः ।पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे ॥ ३२०॥


दुर्योधनप्रतीपं हि न कश्चिदशकत् तदा ।उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम् ॥ ३२१॥


न तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः ।ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयंस्तदा ॥ ३२२॥


स्वाशक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः ।अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति ॥ ३२३॥


एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् ।आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाशयन् ।अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत् ॥ ३२४॥


दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा ।राजा शास्यो युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे ॥ ३२५॥


इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ ।नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः ॥ ३२६॥


वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् ।उत्तमे वचसा शिक्षा मध्यमेऽर्थापहारणम् ।अधमे देहदण्डश्च तस्माद् वाच्यो युधिष्ठिरः ॥ ३२७॥


अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने ।धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत् ।परस्परविरोधार्थं पाण्डवानामिदं वचः ॥ ३२८॥


युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः ।इति ब्रूयुरथवा भीमपार्थावेकोऽपिवा भीम इहोत्सृजे त्वाम् ॥ ३२९॥


इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसंशयेन ।गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः ॥ ३३०॥


बलज्यैष्ठ्ये यदि वः संशयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः ।मृद्गामि वः पादतलेन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः ॥ ३३१॥


इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा ।विघूर्णिता सभाऽखिला भयान्नचाऽह किञ्चन(कश्चन) ॥ ३३२॥


भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ ।गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चाऽपिरे धार्तराष्ट्राः ॥ ३३३॥


निवारितो धर्मजेन गुरुभिश्चापरैस्तदा ।माननार्थं गुरूणां तु न भीमस्तान् जघान ह ॥ ३३४॥


न चात्यवर्तत(न चातिवर्तते) ज्येष्ठं धर्मात्मानं युधिष्ठिरम् ।तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन् ॥ ३३५॥


अथ दुर्योधनः पापो भीमसेनस्य पश्यतः ।ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम् ॥ ३३६॥


तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः ।ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय ॥ ३३७॥


अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः ।निपात्य भूतले हि ते शिरो मृदिष्य इत्यलम् ॥ ३३८॥


स वध्य एव मे सदा परोक्षतोऽपि यो हरिम् ।विनिन्दयेदिति ध्रुवं प्रतिश्रुतं(प्रतिश्रवं) हि मारुतेः ॥ ३३९॥


पुनश्च पापवृद्धये तदैव नो जघान तम् ।विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम् ॥ ३४०॥


प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः ।इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः ॥ ३४१॥


उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे ।ततो विषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत् ॥ ३४२॥


दुःशासनैषां वासांसि दासानां नो व्यपाकुरु ।इत्युक्तोऽभ्यगमत् पार्थान् स्ववासांस्यथ ते ददुः ॥ ३४३॥


ते चर्मवसना(अचर्मवसना) भूत्वा तानशिष्टान् प्रकाश्य च ।निषेदुश्च क्षमायान्ते(क्षमायां ते, सभायान्ते, क्षमाया अन्ते) क्षमामालम्ब्य विस्तृताम् ॥ ३४४॥


पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् ।चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः ॥ ३४५॥


पापेषु पूर्वस्य तथाऽधमस्य वंशे कुरूणामुरुधर्मशीलिनाम् ।दुःशासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम् ॥ ३४६॥


विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि ।तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम् ॥ ३४७॥


पुनःपुनश्चैव विकर्षमाणे दुःशासनेऽन्यानि च तादृशानि ।बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम् ॥ ३४८॥


वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः ।प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः ॥ ३४९॥


तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा ।भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।शकुनिं त्वक्षकितवं सहदेवो वधिष्यति ॥ ३५०॥


इत्युक्ते तत् तथेत्याह भीमसेनः सभातले ।प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा ।नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति ॥ ३५१॥


ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् ।गृहाय तन्निशाम्य तु क्रुधाऽऽह मारुतात्मजः ॥ ३५२॥


अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते ।पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च ।फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति ॥ ३५३॥


इति वेदोदितं वाक्यं न सुतो दारधर्षणे ।दुष्टदारो नचाऽप्नोति लोकानर्द्धो हि दूषितः ।अरक्षणाद् दूषिताया(अरक्षणाद् दूषितायां, अरक्षणे दूषितायाः) न त्यागाच्च शुभं भवेत् ॥ ३५४॥


अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान् ।इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा ॥ ३५५॥


ददर्श च महाघोरमादातुं परिघं रुषा ।कर्तुं व्यवसितो बुद्ध्या निश्शेषान् धृतराष्ट्रजान् ॥ ३५६॥


तदा शिवा ववाशिरे सुयोधनाग्निगेहतः ।तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु ॥ ३५७॥


निमित्तान्यतिघोराणि कुपिते मारुतात्मजे ।दृष्ट्वाऽऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम् ॥ ३५८॥


आह तं विदुरो ज्येष्ठं क्षणेऽस्मिंस्तव पुत्रकाः ।सानुबन्धा नशिष्यन्ति(न शिष्यन्ति) वृकोदरबलाहताः ॥ ३५९॥


क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति ।अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान् ॥ ३६०॥


स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा ।न दत्तमाहुर्विद्वांसस्तस्य बन्धुभिरेव च ॥ ३६१॥


आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः ।तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम् ॥ ३६२॥


इत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् ।न भवेदिति स प्राह द्रुतं कृष्णा विमोच्यताम् (विमुच्यताम्) ॥ ३६३॥


तोषयस्व वरैश्चैनामन्यथा ते सुतान् मृतान् ।विद्धि भीमेन निष्पिष्टान् माऽत्र(नात्र) ते संशयो भवेत् ॥ ३६४॥


कृष्णा च पाण्डवाश्चैव तपोवृद्धिमभीप्सवः ।तपसा नैव धक्ष्यन्ति तेन जीवन्ति ते सुताः ॥ ३६५॥


तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् ।हनिष्यति न सन्देहो बलेनैव वृकोदरः ॥ ३६६॥


इतीरितो विनिर्भर्त्स्य(विनिर्भत्स्य) पुत्रं दुःशासनं नृपः ।अमोचयद् वरैश्चैनां छन्दयामास पार्षतीम् ॥ ३६७॥


छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता ।नैवाऽत्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम् ॥ ३६८॥


युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् ।ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत् ॥ ३६९॥


भर्तुर्विष्णोश्च नान्यस्माद् वरस्वीकार इष्यते ।एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम् ॥ ३७०॥


अधर्मतो हृतत्वात्तु तद् दानं न वरो भवेत् ।इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम् ॥ ३७१॥


श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः ।उक्ताः शतं च विप्राया धर्मे भागवते ततः ।हेतुनाऽनेन वव्रे सा नान्यत् किञ्चिदतः परम् ॥ ३७२॥


ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः ।दुर्योधनानन्तरजो जगाद तातं निजं पापकृतां प्रधानः ॥ ३७३॥


समस्तपाण्डवश्रियं समागतामहो पुनः ।व्यमोचयो वृकोदराद् वधश्च नो ध्रुवो भवेत् ॥ ३७४॥


अतः पुनश्च पाण्डवान् समाह्वयस्व(समानयस्व) नः कृते ।पुनश्च देवनं भवेज्जिता वनं प्रयान्तु च ॥ ३७५॥


तेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् ।पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः ।भ्रातृभिर्वार्यमाणोऽपि कृष्णया चाऽगमत् सभाम् ॥ ३७६॥


द्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् ।वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः ॥ ३७७॥


कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् ।एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम् ॥ ३७८॥


वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा ।दुर्योधनः पणं चक्रे बुद्ध्या दुःशासनोक्तया ॥ ३७९॥


गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः ।पराजितो वनं यातुमैच्छत् सभ्रातृको यदा ॥ ३८०॥


तदा ननर्त पापकृत् सुयोधनानुजो हसन् ।वदंश्च मारुतात्मजं पुनःपुनश्च गौरिति ॥ ३८१॥


उवाच च(स) पुनः कृष्णां नृत्यन्नेव सभातले ।अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम् ॥ ३८२॥


एतेऽखिलाः षण्ढ(ड)तिलास्तमोऽन्धमं प्राप्ता नचैषां पुनरुत्थितिः स्यात् ।इति ब्रुवाणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राश्च सर्वे ॥ ३८३॥


तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो ह्यखिलान् सङ्गरेऽहम् ।इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः ॥ ३८४॥


यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा ।नचात्येति गुरून् भीम इति तं शरणं ययुः ॥ ३८५॥


अब्रवीद् धार्तराष्ट्रांश्च द्रोणो विप्रोऽपि सन्नहम् ।सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते ॥ ३८६॥


रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः ।नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम् ॥ ३८७॥


ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः ।गत्याऽनुचक्रे युवसिंहखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य ॥ ३८८॥


दृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह संरक्तनेत्रः ।ऊरुं तवान्यं च रणे विभेत्स्य इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः ॥ ३८९॥


प्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी ।रोरुद्यमानां विदुरः स्थापयामास तां गृहे ।प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः ॥ ३९०॥


युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा ।दहेयं कौरवान् सर्वानिति कारुणिको नृपः ॥ ३९१॥


उद्धृत्य बाहू प्रययौ बाहुषाली वृकोदरः ।आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति ॥ ३९२॥


अबद्धकेशा प्रययौ द्रौपदी सा सभातलात् ।मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति ॥ ३९३॥


वर्षन् पांसून् ययौ पार्थ इत्थं शत्रुषु सायकान् ।वर्षयानीत्यभिप्रायः परमास्त्रविदां वरः ॥ ३९४॥


यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् ।पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ ॥ ३९५॥


प्रेतसंस्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ ।हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति ॥ ३९६॥


तानथानुययुः सूता रथैः परिचतुर्दशैः ।सूदाः पौरोगवाश्चैव भृत्या ये त्वाप्तकारिणः ॥ ३९७॥


ततस्ते जाह्नवीतीरे वने वटमुपाश्रिताः ।न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः ॥ ३९८॥


ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् ।स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम् ॥ ३९९॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये पाण्डववनप्रवेशो नाम एकविंशोऽध्यायः