Jump to content

Bhagavatatatparyanirnaya/C7/S15

From Grantha
Revision as of 09:41, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १४ ॥


नभश्छदिः नभोव्याप्यस्थितः परमात्मा ॥ १४ ॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २२ ॥


'सप्तम्यादित्रयं चैव तथा चैत्रत्रयोदशी ।

चतस्रस्त्वष्टकाः प्रोक्ताः सर्वपक्षाद्विशेषतः॥ इति च व्यासस्मृतौ ॥

'हेमन्ते शिशिरे चैव नित्यश्राद्धं गुणोत्तरम्। इति च ॥ २२ ॥
पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३८ ॥


जीवेन रूपेण सह ॥ ३८ ॥
तेष्वीशो भगवान् राजन् तारतम्येन वर्तते ।तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३९ ॥


ब्रह्मादिस्थावरान्तेषु न विशेषो हरेः क्वचित् । व्यक्तिमात्रविशेषेण तारतम्यं वदन्ति च॥ इति च ॥ ३९ ॥
पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४२ ॥


तन्वोऽस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४३ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे पञ्चदशोऽध्यायः ॥
'शिलावत्प्रतिमाः सन्तो विप्राद्याश्च हरेः स्मृताः इति च ॥ ४२-४३ ॥