Jump to content

Bhagavatatatparyanirnaya/C5/S11

From Grantha
Revision as of 09:41, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
तथैव राजन्नुरुगार्हमेध-वितानविद्योरुविजृम्भितेषु ।


'न वेदेष्वल्पबुद्धीनां ब्रह्मतत्त्वं समीक्ष्यते । महाबुद्धिस्तु वेदेषु पश्येद् ब्रह्मैव केवलम्॥ इति च ॥ २ ॥
स वासनात्मा विषयोपरक्तोगुणप्रवाहो विकृतः षोडशात्मा ।


दुःखं सुखं व्यतिमिश्रं च तीव्रंकालोपपन्नं फलमाव्यनक्ति ।


स मायारचित अन्तरात्मा मनः ॥ ५-६ ॥
तावानयं व्यवहारः सदा वैक्षेत्रज्ञसाक्ष्योर्भवति स्थूलसूक्ष्मः ।


'क्षेत्रवित्तु हरिः प्राणः साक्षी ताभ्यां पुमान्सरेत्॥ इति च ॥ ७ ॥
गुणानुरक्तं व्यसनाय जन्तोःक्षेमाय नैर्गुण्यमथो मनः स्यात् ।


पदं विषयम् ।एकादशासन्मनसोऽस्य वृत्ती-


'एकादशेन्द्रियद्वारा स्युरेकादशवृत्तयः ।

शब्दाद्यास्तदभीमानास्तदिच्छाश्चैव पञ्चशः ॥ स्पर्शान्तर्भावतः कर्मखानां नैव पृथग्गतिः । एकादशैव चेष्टाः स्युरिन्द्रियाणां पृथक् पृथक् ॥

गोलकास्तदधिष्ठानं चैकादश निगद्यते॥ ९ ॥
गन्धाकृतिस्पर्शरसश्रवांसिविसर्गगत्यत्त्यभिजल्पशिल्पाः ।


'एष संसृतिसंभारो द्वादशैवाथवा भवेत् ।

दशकं विषयाणां च ममाहमिति च द्वयम् ॥ द्वयमेव ममाहं वा संसृतिस्त्वहमेव वा। इति च ।

अत्तिरुपस्थविषयः ॥ ११ ॥
द्रव्यस्वभावाशयकर्मकालै-रेकादशामी मनसो विकाराः ।


द्रव्यं देहादिः । स्वभावो योग्यता । जीवस्य क्षेत्रज्ञतः स्युः । मिथः स्वतश्च न स्युः ॥ १२ ॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणःसाक्षात्स्वयं ज्योतिरजः परेशः ।


स्वमाययाऽऽत्मन्व्यवधीयमानः स्वेच्छया स्वस्मिन्नेव तिरोहितत्वेन स्थितः ।

'स्वात्माधारः स्वेच्छयैव जीवदृष्टेस्तिरोहितः ।

क्षेत्रज्ञेत्युच्यते विष्णुर्जीवस्थः पुरुषोत्तमः॥ इति च ॥ १४ ॥
भ्रातृव्यमेनं त्वमदभ्रवीर्य-मुपेक्षयाऽप्येधितमप्रमत्तः ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे एकादशोऽध्यायः ॥
अभिमानादेव संसारोऽन्यथा नेति परिहारः ॥ १८ ॥