तच्छ्रद्धयाक्राऽऽन्तमतिः पितृदेवव्रतः पुमान् ।गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
'ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति ।
अभक्तो निरयं याति सुकर्माऽपि न संशयः॥ इति वामने ॥ ३ ॥
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ ११ ॥
भेददृष्ट्याऽभिमानेन निःसङ्गेनापि कर्मणा ।कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १२ ॥
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ।जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ १३ ॥
अभिमानेन पूर्णज्ञानेन । सङ्गत्य लये परमेश्वरं प्रविश्य ।
'यथापूर्वं प्रजायतेउच्चनीचादिभावेन जायते ।
'अगुणव्यतिकरेबहिः श्वेतद्वीपे निर्गच्छति ।
'गुणव्यतिकराभावेऽप्युच्चनीचादिपूर्ववत् ।
विष्णोश्चैव विमुक्तानां न कदाचन गच्छति
॥ इति गारुडे ॥ ११-१३ ॥
ऐश्वर्यं पारमेष्ठ्यं यत् तेऽपि धर्मविनिर्मितम् ।निषेव्य पुनरायान्ति गुणव्यतिकरेऽसति ॥ १४ ॥
गुणव्यतिकरे असति । प्रलये प्राप्ते पुनः परमेश्वरमायान्ति ।
'ब्रह्मा देवैः परिवृतः प्रलये परमेश्वरम् ।
प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते ॥
ज्ञानधर्मफलांस्तत्र भोगान्भुक्त्वा लये पुनः ।
नारायणं समाविश्य ज्ञानव्यक्तं निजं सुखम् ॥
भुञ्जते त्वेवमेवैषां काले संसर्गनिर्गमौ ।
नित्यौ नित्यसुखं चैव सृष्टौ भोगास्तथोत्तमाः ॥
यथापूर्वं हरेः सर्वगुणैर्नीचोच्चता तथा ।
ब्रह्मणश्च तथान्येषामन्येषां च यथापदम्
॥ इति स्कान्दे ॥ १४ ॥
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥
नूनं दैवेन विहता ये त्वच्युतकथासुधाम् ।हित्वा शृृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
दक्षिणेन पथाऽर्यम्णः पितृलोकं व्रजन्ति ते ।प्रजायां तु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
'अत्यल्पभक्ता विष्णौ च सदा श्राद्धादिकारिणः ।
पितृलोकं समाविश्य स्वसन्ताने पुनःपुनः ॥
क्षिप्रमेव प्रजायन्ते ये तु भक्तिविवर्जिताः ।
अन्यसामान्यवेत्तारस्तदन्योत्तमवेदिनः ॥
तद्भक्तनिन्दकाश्चैव यान्त्येव निरयं ध्रुवम् ।
अपि धर्मैकनियमा नात्र कार्या विचारणा॥ इति च ॥
'मुक्तियोग्यास्तु देवाद्या मानुषा यज्ञभागिनः ।
मनुष्यभेदाः श्राद्धादिकृतो विद्वेषिणोऽसुराः
इति च ॥ १६-२१ ॥
ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणाम् ॥ २८ ॥
'मत्स्यकूर्मादिरूपं च विष्णोर्ज्ञानैकमात्रकम् ।
तन्मन्यन्ते भौतिकं तु ये गच्छन्त्यधरं तमः॥ इति ब्राह्मे ॥ २८ ॥
यथा महानहङ्कारस्त्रिवृत् पञ्चविधः स्वराट् ।एकादशविधस्तस्य वपुरण्डं जगद् यतः ॥ २९ ॥
'एकादशेन्द्रियात्मा च पञ्चभूतात्मकस्तथा ।
सर्वाभिमानी भगवान्स्वराडिन्द्रः पुरन्दरः ॥
इदमण्डं जगत्सर्वं शक्रदेहं विदुर्बुधाः ।
तत्पतिस्त्रिगुणो रुद्रस्तस्य ब्रह्मा ततो हरिः॥ इति वामने ॥
यथैतान्पश्यन्ति तद्वदेव ज्ञानात्मकं मत्स्यादिरूपं पश्यन्त्यज्ञाः॥ २९ ॥
ज्ञानं योगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥
'ज्ञानभक्ती विना नैव मुक्तिः कस्यापि विद्यते ।
तयोरेकतरेणापि विष्णुगेनोभयं विना ॥
एवमप्येतयोरेकभावेऽन्यनियतेर्ध्रुवम् ।
एकेनापि भवेन्मुक्तिस्तदर्थं त्वन्यसाधनम्
॥ इति हरिवंशेषु ॥३२॥