नारद उवाच—देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।
विजानीहि विज्ञापय । 'व्यत्ययो भेदस्वातन्त्र्यकरणेषु। इति वचनात् ॥ १ ॥
यद्रूपं यदधिष्ठानं यतः सृष्टमिदं विभो ।यत्संस्थं यत्परं यच्च तत्तत्वं वद तत्वतः ॥ २ ॥
'तद्वशत्वादिदं रूपं हरेर्नैव स्वरूपतः
। इति मानससंहितायाम् ।
'अधिष्ठानमिति प्रोक्तं मूलाधारं विचक्षणैः ।
यत्स्थितं दृश्यते वस्तु संस्थानं तदुदीरितम् ।
उभयं हरिरेवास्य जगतो मुनिपुङ्गव। इति वामने ॥
'हरिः परोऽस्य जगतो ह्यव्यक्तादेश्च कृत्स्नशः ।
अतस्तत्परमेवेदं वदन्ति मुनयोऽमलाः॥ इति सात्वतसंहितायाम् ।
'यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।
विद्यमाने विभेदेऽपि मिथो नित्यं स्वरूपतः
इति भविष्यत्पर्वणि ॥२॥
यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः ।एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
तदधिकं ज्ञातुं पूर्वपक्षं दर्शयति–
'एकः सृजसिइत्यादिना ॥ ४ ॥
नाहं वेद परं त्वस्मात् नावरं न समं विभो ।नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ ६ ॥
'त्वदधीना यतः सत्ता अवरस्यापि केशव ।
अतः स्वरूपतः सम्यक्सति भेदेऽपि तद्भवान्इति मात्स्ये ॥ ६ ॥
नानृतं बत तच्चापि यथा मां प्रब्रवीषि भोः ।अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
नानृतमित्याक्षेपः ॥ १० ॥
नमस्तस्मै भगवते वासुदेवाय धीमहि ।यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥
'मुख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मता ।
अथामुख्यतमा चैव माया दीना प्रकीर्तिता॥ १२-१३ ॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तात्वतः ॥ १४ ॥
परः अधिकः ।
'तद्वदेव स्थितं यत्तु तात्वतं तत्प्रचक्षते। इति कौर्मे ॥ १४ ॥
नारायणपरा वेदा देवा नारायणाङ्गजाः ।नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥
वेदप्रतिपाद्येषु स पर इत्यादि ।
'गम्येज्यज्ञेयवाच्येषु योज्येषु च परो हरिः ।
तपसा पूज्यमानानां सर्वलोकेभ्य एव च
॥ इति वाराहे ॥ १५ ॥
सत्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥
युगपत्क्रमशोऽपि वेत्यस्य परिहारः 'सत्वं रजस्तम
इति ।
'नित्यं गृहीताः सत्वाद्याः स्थित्यादिषु विशेषतः ।
युगपत् क्रमशश्चैव गृह्णाति भगवान्स्वयम्
॥ इति ब्रह्मवैवर्ते ॥ १८ ॥
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥
'ज्ञानेन्द्रियैश्च मनसा सत्वं बध्नाति पूरुषम् ।
रजः कर्मेन्द्रियैर्नित्यं शरीरेण तमस्तथा ।
आन्तरं यत्तु कर्तृत्वं तत्सत्वेनाभिमन्यते ॥
रजसा त्वभिमन्येत करणैः कर्मकारणैः ।
शारीरं वेदनाद्यं तु तमसा ह्यभिमन्यते ॥
अकर्ता करणैर्हीनः शरीरेण विवर्जितः ।
नित्यज्ञानस्वरूपोऽसौ गुणैरेवाभिमन्यते ॥
एवं जीवः परेणैव प््रोरितः संसृतिं व्रजेत् ।
न परः संसृतिं क्वापि स्वातन्त्र्यादधिकत्वतः ॥
एवं जीवपरौ भिन्नौ किमन्यच्छ्रोतुमिच्छसि॥ इति पाद्मे ॥
मायिनं ज्ञानिनं स्वतः ॥ १९ ॥
स एष भगवाल्लिङ्गैस्त्रिभिरेतैरधोक्षजः ।स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ २० ॥
लिङ्गैः ज्ञापकैः । त्रिगुणैः । एतैर्लिङ्गैः । स्वप्रसादाज्जीवेन लक्षितगतिः ।
'स्वप्रसादादिमं जीवः पश्येत्तेन स्वलक्षितःइति षाड्गुण्ये ॥ २० ॥
कालं कर्म स्वभावञ्च मायेशो मायया स्वया ।आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
स्वया मायया स्वशक्त्या ।
'यत्रान्यहेत्वभावः स्यादीश्वरेच्छादिना विना ।
तदिच्छा हि यदृच्छा स्यादतस्तत्र यदृच्छया। इति ब्रह्मतर्के ।
'कालकर्मस्वभावादि नित्ययेशेच्छया सदा ।
प्राप्तमेव विशेषेण सृष्ट्यादावुन्नयत्यजः॥ इति च ।
विबुभूषुः बहुधा बुभूषुः ।
'ईशो बह्वीः पुरः सृष्ट्वा तत्रैव बहुरूपताम् ।
तत्तन्नियामकतया प्राप्तुं कालाद्युपाददे
॥ इति च ॥ २१ ॥
कालाद्गुणव्यतिकरात्परिणामस्वभावतः ।कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२ ॥
प्रकृतेः परिणामस्वभावतः ।
'गुणकालस्वभावेभ्य ईशेनाधिष्ठितत्वतः ।
जगदादि महत्तत्त्वमभूत्तस्येच्छया हरेः ॥
इति षाड्गुण्ये ॥ २२ ॥
महतस्तु विकुर्वाणाद्रजस्सत्वोपबृंहितात् ।तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥
'भूतानि द्रव्यनामानि ज्ञानं ज्ञानेन्द्रियाण्यपि ।
क्रिया कर्मेन्द्रियाण्याहुस्तन्मूलत्वादहं त्रिधा। इति गारुडे ॥ २३ ॥
सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा ।वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
'विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः ।
अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥
तामसानि तु भूतानि यतस्तावन्न तूभयम्॥ इति पाद्मे ।
ज्ञानेन्द्रियाणां देवानां ज्ञानशक्तिरुदीरिता ।
क्रिया कर्मेन्द्रियाणां च भूतानां द्रव्यशक्तिता॥ इति स्कान्दे ।
'द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः ।
पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशतः
॥ इति प्रकाशसंहितायाम् ॥ २४ ॥
तामसादपि भूतादेर्विकुर्वाणादभून्नभः ।तस्य मात्रागुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५ ॥
'पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरितः
॥ इति मात्स्ये ।
'शब्देनैव परो द्रष्टा ज्ञायते जगदेव च ।"
इति विष्णुसंहितायाम् ॥ २५ ॥
नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः ।परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥
'सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः ।
ओजस्त्वनभिभाव्यत्वात्सहश्च स्वेच्छया कृतेः ॥
बलं विधारकत्वाच्च विधृतिर्वायुरुच्यते
। इति भारते ॥ २६ ॥
वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥
'अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः ।
अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग्विभुः ॥
पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम् ।
सर्वं विधारयन्देहे वर्ततेऽनन्तशक्तिधृक्
॥ इति वह्निपुराणे ॥ ३० ॥
तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ॥ ३३ ॥
सदसत्वं व्यक्ताव्यक्तत्वम् । नः भयम् । अदो ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्तीति जीवानां भयकारणम् । तत्र हि संसृतिः ।
'आकाशवायू त्वव्यक्तावितरेऽण्डे प्रकाशिताः ।
तथात्वाद्बाह्यभूतानामण्डस्थानां च सा गतिः
॥ इति मात्स्ये ॥३३॥
वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।कालकर्मस्वभावस्थोऽ)जीवोऽ)जीवमजीजनत् ॥ ३४ ॥
कालकर्मस्वभावस्थ अजीवः परमेश्वरः । अजीवं स्वात्मानम् अजीजनत् । तदण्डं यथा स्वात्मानं प्रासूते तथा चकार ।
'यः प्रणधारणं प्रणप्रासादात्कुरुतेऽनिशम् ।
स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते ।
यत्प्रासादात्स तु प्रणः कुरुते स्वस्य धारणम्॥ इति वायुप्रक्ते ॥
'कालकर्मस्वभावस्थो वासुदेवः परः पुमान् ।
अकरोदण्डमुद्वृद्धमात्मप्रसवकारणम् ॥इति ब्रह्माण्डे ।
जीव इति वा ।
'प्र•णं धारयते यस्मात्स जीवः परमेश्वरः ।
अजीवोऽपि महातेजास्त्वथवा जीवयन् जगत्॥
इति स्कान्दे ॥ ३४ ॥
स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ॥ ३५ ॥
'अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च ।
अनादिस्तु हरिस्तत्र ब्रह्मा सादिरुदाहृतः। इति च ॥ ३५ ॥
यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥
'हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम् ।
साक्षात्सत्यमतोऽन्यस्मात् व्यावहारिकमुच्यते॥ इति मात्स्ये ॥३६॥
पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
'ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः ।
यथावदत् श्रुतौ तद्वज्जीवो ब्रह्मेति वाग्भवेत्॥ इति ब्राह्मे ॥ ३७ ॥