Jump to content

Bhagavatatatparyanirnaya/C1/S9

From Grantha
Revision as of 09:39, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
नैनो राज्ञः प्रजाभर्तुः धर्मो युद्धे वधो द्विषाम् ।इति मे न तु बोधाय कल्पते शाश्वतं वचः ॥ ५ ॥


'यः पदातिं हन्ति स भवति चातुर्मास्ययाजी यः सादिनं सोऽग्निष्टोमस्य यो हन्ति गजरथौ सोऽश्वमेधराजसूयाभ्याम्इत्यादि शाश्वतं वचः ॥ ५ ॥
शितविशिखहतो विशीर्णदंसः क्षतजपरिप्लुत आततायिनो मे ।प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् मुदे मुकुन्दः ॥ ४५ ॥


'असङ्गश्चाव्यथोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।

विद्धोऽसृगञ्चितो बद्ध इति विष्णुः प्रदृश्यते ॥ असुरान् मोहयन् देवः क्रीडयैव सुरेष्वपि ।

मानुषान् मध्यया दृष्ट्या न मुक्तेषु कथञ्चन। इति स्कान्दे ॥ ४५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे नवमोध्यायः ॥