Anuvyakyanam/C3/S4
Appearance
एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥1॥
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥2॥
सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः ।बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥
कामचाराधिकरणम्
विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् ।गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥
आधिकारिकाधिकरणम्
अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥
फलश्रुत्यधिकरणम्
स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ।अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ॥255॥
अन्वयाधिकरणम्
ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः ।‘मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोचनम् ॥271॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ॥