Anuvyakyanam/C2/S3
अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥
स्वरूपनिर्णयायैव वचनानां परस्परम् ।पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥
दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥
उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने ।नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥
विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।
वियदधिकरणम्
प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः(देवास्तदभिमानिनः) ॥9॥
मातरिश्वाधिकरणम्
एवं प्रलयकालेऽपि प्रतिभातपरावरः ।मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥
असम्भवाधिकरणम्
...... स्वतन्त्रत्वात् परात्मनः ॥24॥
व्यतिरेकाधिकरणम्
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥
पृथगधिकरणम्
एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥
अंशाधिकरणम्
भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥