Anubhashya/C3
Appearance
शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा।मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम्॥ १॥
याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत्।सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान्॥ २॥
सर्वदेशेषु कालेषु स एकः परमेश्वरः।तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम्॥ ३॥
सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः।यथाक्रमं बहुगुणैर्ब्रह्मणा त्वखिलैर्गुणैः॥ ४॥
उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम्।ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरम्॥ ५॥
सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः।न लिप्यते ज्ञानावांश्च सर्वदोषैरपि क्वचित्॥ ६॥
गुणदोषैः सुखस्यापि वृद्धिह्रासौ विमुक्तिगौ।नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम्॥ ७॥
॥ इति तृतीयोऽध्यायः॥