Jump to content

Bhagavatatatparyanirnaya/C6/S19

From Grantha
Revision as of 09:01, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
तस्या अधीश्वरः साक्षात् त्वमेकः पुरुषः परः ।त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ ११ ॥


गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् ।त्वं हि सर्वशरीरात्मा श्रीः शरीरेन्द्रियाशया ॥ १२ ॥


नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ।यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥
॥ षष्ठः स्कन्धः समाप्तः ॥
इज्या क्रिया ।

'अन्तर्यामी तु यज्ञादेर्विष्णुरिज्यादिनां रमा । तत्तच्छब्दैस्ततो वाच्यौ न तु सर्वस्वरूपतः ॥ अन्तर्यामी श्रियश्चापि विष्णुरेव न संशयः ।

नान्तर्यामी कश्चिदस्ति विष्णोः क्वापि कुतश्चन॥ इति ब्रह्मतर्के ॥ ११-१३ ॥