ब्रह्मसूत्रभाष्यम्/C03/S02/A027
Appearance
सम्पत्त्यधिकरणम्
ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ 10-333 ॥
मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।
‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥
सोऽपि तत एवेति सिद्धम् ।
इति हि कौर्मे ॥ 10 ॥‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।
स ईशः परमो ज्ञेयः परमानन्दलक्षणः’