Jump to content

Bhagavatatatparyanirnaya/C4/S7

From Grantha
Revision as of 09:00, 10 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
उपलभ्य पुरैवैतद् भगवानब्जसम्भवः ।नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥


त्रिमूर्तिगेन रूपेण नारायणो नाययौ ॥
नाहं न यज्ञो न च यूयमन्येये देहभाजो मुनयश्च तत्त्वम् ।


यज्ञ इन्द्रः ।

'यज्ञो यज्ञपतिस्त्विन्द्रः पुरुहूतः पुरुष्टुतः। इत्यभिधानम् । तस्यात्मतन्त्रस्य । तस्य विष्णोर्मनोवशस्य । 'नाहं नेन्द्रो न चैवान्ये यत्तत्त्वं न विदुः परम् । तस्य विष्णोर्वशे रुद्रो मम वायोरथापि वा ।

नान्यस्य कस्यचित्पुंसस्तस्येत्थं वः कुतः कृतम्॥ इति ब्रह्मवैवर्ते ॥
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥


'मुमुक्षवो ब्रह्मणश्च शिवादिन्द्रादिभिस्तथा । श्रुत्वा ज्ञानं परं गुह्यं मुच्यन्ते ब्रह्मणा सह॥ इति कौर्मे ॥ ३३ ॥
स तूपलभ्यागतमात्मयोनिंसुरासुरेशैरभिवन्दिताङ्घ्रि ।


महत्तमः तेजस्वितमः अर्कस्य सकाशादपि ।

'तेजोऽर्थ उत्तमार्थे च पूज्यार्थे च प्रयुज्यते ।

महच्छब्दो महःशब्दो मान्यशब्दस्तथैव च॥ इति शब्दनिर्णये ॥४०॥
ब्रह्मोवाच–जाने त्वामीश विश्वस्य जगतो योनिबीजयोः ।


अन्तर्याम्यपेक्षया शक्तेः शिवस्य च परमिति ।

'क्रियन्ते स्तुतयोऽन्यत्र तदन्तर्याम्यपेक्षया ।

न जीवेषु गुणाः पूर्णा यथायोग्या हि तद्गताः॥ इति ब्राह्मे ॥४२॥
त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः ।विश्वं सृजसि पास्यत्सि क्रीडयोर्णपदो यथा ॥ ४३ ॥


'तद्वशत्वात्स्वरूपं तु विष्णोः सर्वमुदीर्यते ।

स्वरूपं स च सर्वत्र बिम्बत्वादेव तूच्यते ॥ साक्षात्स्वरूपं मत्स्याद्या विष्णोर्नान्यत्कथञ्चन ।

तस्मादन्यगता दोषा न तस्मिन् पुरुषोत्तमे॥ इति तत्त्वनिर्णये ॥ ४३ ॥
त्वमेव धर्मार्थदुघाऽभिपत्तयेदक्षेण सूत्रेण विसर्जिताध्वरः ।


अभिपत्तये प्रतीकाराय । सूत्रेण दोषसूचकेन ॥ ४४ ॥
न वै सतां त्वच्चरणार्पितात्मनांभूतेषु सर्वेष्वभिपश्यतां तव ।


तव त्वाम् । 'चतुर्षु षष्ठीइति सूत्रात् ॥

'विष्ण्वधीना जगत्सत्ता प्रतीतिश्चेष्टितं गतिः । इति यन्नियतं ज्ञानमपृथग्दर्शनं स्मृतम् ॥ मिथ्याज्ञानं पृथग्ज्ञानमिति वेदविदो विदुः ।

यथैवार्थस्तथाज्ञानमपृथग्दृष्टिरुच्यते॥ इति गारुडे ॥ ४६ ॥
येऽस्मिन् यदा पुष्करनाभमाययादुर्लङ्ध्यया स्पृष्टधियः पृथग्दृशः ।


यदा यस्मात् ।

'हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते ।

उपकारं कर्तुमिच्छा कृपेत्याहुर्मनीषिणः॥ इति शब्दनिर्णये ॥४८॥
भवान् हि पुंसः परमस्य माययादुरन्तयाऽस्पृष्टमतिः समस्तदृक् ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे सप्तमोऽध्यायः ॥
मायया विष्ण्वधीनया बन्धकशक्त्या ।

'विष्णुमाया हरेरिच्छा बन्धशक्तिश्च तद्वशा ।

सर्वत्रगा हरेरिच्छा बन्धशक्तिर्ज्ञवर्जिता॥ इति शब्दनिर्णये ॥४९॥