Bhagavatatatparyanirnaya/C11/S4
Appearance
भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् ।स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥
'विष्णोस्तु पुरुषाख्यानि त्रीणि रूपाण्यतो विदुः ।
प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् ।
तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यते॥ इति माहात्म्ये ॥३॥यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
यत्काये ॥ ४ ॥
आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
'ब््राह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।
पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः॥ इति ब््र•ह्मे ॥
रजसा तमसा च ब््राह्मरुद्रदेहसृष्टेः । रागक्रोधकारणत्वाच्च ॥ ५ ॥धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
स्वविषयज्ञानरूपः प्रभावरूपश्च ॥ ६ ॥
इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
'ज्ञानरूपानपि सुरान्विना प्राणं क्वचित्परे ।
आविशन्ति ह्यतस्तेषामज्ञानादि न तु स्वतः॥ इति देवतत्त्वे । 'अथैनमेव नाऽप्नोद्योऽयं मध्यमः प्राणः । एवमेता देवताः पाप्मना विद्धाः तं हासुरा ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवं हैव विध्वंस-माना विष्वञ्चो विनेशुः॥
'सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैनां मृत्युमत्यवहत सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्॥ इत्यादिश्रुतिश्च ॥ ७ ॥त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥
स्वभागं बलिं ददतो विघ्नमूर्धि्न यदि भवान्पदं धत्ते । तर्हि नान्यस्य बलिः॥ १० ॥
हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
'कुमारनामा तु हरिबर्््राह्मचारिवपुः स्वयम् ।
सनत्कुमाराय परं प्रोवाच जगदीश्वरःइति स्कान्दे ॥ 'विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम् ।
सनत्कुमारप्रमुखा योगेशाः परमेश्वरात्॥ इति प्रकाशसंहितायाम् ॥ १७ ॥संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
'सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा ।
ध्वान्तं निवारयास्माकं मुमुग्धीति च वादिनः॥ इति व्यासतन्त्रे ॥ 'स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् ।
हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः॥ इति भयभञ्जने ॥ १९ ॥देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्थोऽध्यायः ॥
'उपेन्द्ररूपी भगवान्प्रतिमन्वन्तरं प्रभुः ।
असुरान् हन्ति नियतं श्राद्धदेव्ये च वामनः॥ इति वामने ॥२०॥