Jump to content

Bhagavatatatparyanirnaya/C10/S76

From Grantha
Revision as of 16:48, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
रामा गृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदा हसन्त्यः । गात्रान्तराण्यपिदधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥ ६ ॥


गात्रान्तराण्यपिदधुः । पिधातव्येभ्योऽन्यान्यपि । येषां पिधानेन क्लेशो भवत्यात्मनः । निजभर्तुरप्यपिदधुः । निर्लज्जा इत्यकामो भवत्यसाविति भयात्॥ ६ ॥
निहते रुग्मिणि श्याले नाब्रवीत् साध्वसाधु वा ।रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः ॥ ५० ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षट्सप्ततितमोऽध्यायः ॥
'न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य तु । स्नेहभीत इवाथाऽपि नोचे रुग्मिवधे हरिः॥ इति ब्रह्माण्डे ॥ ५० ॥