Jump to content

Chandogya/C3

From Grantha
Revision as of 07:06, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
ॐ असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥


य आदित्यगतो विष्णुः स एव मधुनामकः ।
           मदधिर्मध्विति प्रोक्तो मदः सुखमिहोच्यते ॥
           अ इत्याधिक्यमुद्दिष्टं मद् ज्ञानततिरुच्यते ।
           तद्वत्ता ततिरुद्दिष्टा तेनानुभव ईरितः ॥
           अधिकोऽनुभवो यस्य सर्वस्मादीप्सितादपि ।
           सोऽयं मद इति प्रोक्तः सर्वं हि सुखसाधनम् ॥
           तत्पूर्णो मधुनामा स्यात् तृतीयोऽतिशयार्थकः ।
           देवानामुपजीव्यत्वात् स देवमधुनामकः ॥
           आदित्वादाततत्वाच्च ज्ञानरूपत्वतस्तथा ।
           आदित्य इति सम्प्रोक्तः प्रसिद्धमधुवच्च सः ॥
           तिरोवंशादिसंयुक्तो द्युनाम्नी च द्युसंस्थिता ।
           प्रकाशादिगुणैः श्रीस्तु वायोराश्रयरूपतः ॥
           तिरोवंश इतिप्रोक्ता मध्वपूपस्तु मारुतः ।
           तस्मिन् सन्निहितो विष्णुर्विशेषेण यतः सदा ॥
           सोऽन्तरिक्षमितिप्रोक्तः स्वान्तस्सम्यग्घरीक्षणात् ।
           अन्तरिक्षस्थितश्चासौ वस्वाद्या मधुकारिणः ॥
           तत्पुत्रास्तु मरीच्याद्यास्सूर्यरश्मिषु संस्थिताः ।
           तिर्यक् स्थित्वा वशे कुर्याद्यस्माद्देवी रमा हरिम् ॥
           भक्त्यैवातस्तिरोवंशस्तिर्यक्त्वं प्रणतिः स्मृता ।
           तिर्यक्स्थित्वा स्वसंस्थं तु वशीकुर्याद्यतस्ततः ॥
           वंशस्तिरश्चीनोऽन्योऽपि यस्मिन्नाप्यमुपस्थितम् ।
सोऽपूप आप्यो भगवान् मध्वाज्यादिप्रसिद्धगम् ॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥


एतमृग्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३ ॥


तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य रोहितं रूपम् ॥ ४ ॥ १ ॥


प्राच्यरश्मिषु संस्थस्तु रतिशंमानरूपतः ।
           प्राच्यरश्मिरिति प्रोक्तो वासुदेवाभिधो हरिः ॥
           एतद्विद्या नालमिति नाडीत्यंश उदाहृतः ।
           स्वरूपांशैर्विना प्राप्तुं नालं हि प्रापितांशिनम् ॥
           ऋग्वेदमानिनश्चैव वह्न्याद्या वसवस्त्वृचः ।
अर्च्यत्वात् प्रथमं चैव विशेषाद्यज्ञदेवताः ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥


तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥


तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तदा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३ ॥ २ ॥


इन्द्राद्या यजुरुद्दिष्टा रुद्रा इन्द्रसहायतः ।
           इन्द्रशब्दोदितो वायुः स याज्यः सोमभुक्पुरः ॥
स हि शङ्करपूर्वाणां रुद्राणां मुख्य एव च ।
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥


तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥


तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ३ ॥


सामनामान आदित्या मासशः समभोगतः ॥
           इन्द्रो वरुण उद्दिष्टो यज्ञेषु व्रियते यतः ।
           आदित्यानामधिपतिः स हि विष्णुनियोजितः ॥
विष्णुस्तूपास्यरूपत्वान्नोपासकगणे युतः ।
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः॥१॥


ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीयमन्नाद्यं रसोऽजायत ॥ २ ॥


तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ४ ॥


इतिहासपुराणानां सोमाद्या अभिमानिनः ॥
           अथर्वाङ्गिरसां चैवाप्यथर्वाङ्गिरनामकाः ।
           अधरं वर्तयेयुस्ते वृष्टिमङ्गरसास्तथा ॥
मानस्त्वात् प्राणरूपत्वादथर्वाङ्गिरसस्ततः ।
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥


ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥


तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥


ते वा एते रसानांरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥५॥


गुह्यादेशा ब्रह्मपदे ये योग्या ब्रह्मणा सह ॥ सर्वगुह्योपदेष्टारः सर्वेषां गुरवो हि ते । ब्रह्मेति सर्वदेवानां नामानन्तत्त्वतः स्मृतम् ॥ ऋग्वेदादींस्तु ते देवा अग्न्याद्याः संव्यचारयन् । मधु ब्रह्मव्यक्तिकृत्वात् ते वै मधुकृतः स्मृताः ॥ ज्ञानपोषकरत्वात् तु वेदाः पुष्पाभिधाः स्मृताः । अन्यत्र मधुकृत् पोषन्नित्यत्वादमृताश्च ताः ॥ वेदवाचः सुरैः पेया भोग्यत्वादाप ईरिताः । वेदपानं विचारश्च श्रवणं पाठ एव च ॥ देवैर्विचारितेभ्यश्च वेदेभ्यो व्यक्ततां गतः । ज्ञानानन्दस्वरूपत्वाद् यशस्तेजस्वरूपकः ॥ इन्द्रियं परमैश्वर्याद्वीर्यरूपश्च सर्वदा । सर्वानुग्रहशक्तित्वादन्नाद्यो बलरूपतः ॥ रसनामा च भगवान् संस्थितः सूर्यमण्डले । व्यक्षरद्धर्ममोक्षादीन् देवानां भगवान् हरिः ॥ ऋक्प्रोक्तो लोहिताकारो वासुदेवः परः पुमान् । स एव सूर्यलोहित्ये प्राच्यरश्मिषु संस्थितः ॥ सङ्कर्षणः शुक्लवर्णो यजुर्वेदोदितः प्रभुः । शुक्ले वर्णे च सूर्यस्य दक्षरश्मिषु संस्थितः ॥ प्रद्युम्नः श्यामवर्णस्तु सामवेदोदितः प्रभुः । प्रत्यग्रश्मिषु सूर्यस्य श्यामवर्णेऽपि च स्थितः ॥ अनिरुद्धः सुनीलश्च इतिहासपुराणयोः । अथर्ववेदे चोक्तस्सन्नुदग्रश्मिषु संस्थितः ॥ सुकृष्णे सूर्यरूपे च मध्ये नारायणः प्रभुः । ऊर्ध्वरश्मिषु संस्थश्च प्रोद्यदादित्यसप्रभः ॥ महामरीचिपुञ्जेन चलतीवाचलोऽपि सन् । स वाच्यः सर्ववेदानामेवं पञ्चात्मको हरिः ॥ वेदानां सारभूतोऽसौ वेदानां नित्यताप्रदः । अतोऽमृतानाममृतो रसानां रस एव च ॥ इति सामसंहितायाम् ॥ न चाचेतनमात्रमुपासितं पुरुषार्थप्रदानशक्तम् । ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् इति वाक्यशेषाच्चैतदवगम्यते । य एतामेवं ब्रह्मोपनिषदं वेद इति च । कथं चाचेतनोपासनं ब्रह्मादिपदप्रदं भवति । न वै तत्र न निम्लोचः नोदियाय कदाचन । सकृदिव हैवास्मै भवति इत्यादि च मुक्तस्यैव मुख्यतो युज्यते । यशस्तेजइन्द्रियवीर्यान्नाद्यरसत्वं च भगवन्तं विना कस्य मुख्यतो युज्यते । तस्य नाम महद्यशः । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ रसो वै रसः सुखात्मकं षड्गुणविग्रहं परं हृदि स्थितं ब्रह्म निरञ्चनं स्वरुक् । ऐश्वर्यवैराग्ययशोविबोधवीर्यश्रिया पूर्णमहं प्रपद्ये ॥ अहं तत्तेजोरश्मीन्नारायणं पुरुषम् इत्यादेश्च । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः इति च । न चाचेतनस्यैश्वर्यादिरूपत्वं युज्यते । ज्ञानात्मको भगवानैश्वर्यात्मको भगवान् शक्त्यात्मको भगवान् इति च श्रुतिः । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् इति सर्ववेदप्रतिपाद्यत्वं भगवत उक्तं भगवता । स सर्वनामा स च विश्वरूपः प्रसीदतां ब्रह्म महाविभूतिः इति च । सर्वे वेदा यत्पदमामनन्ति ता वा एताः सर्वा ऋचः सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव । वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥ नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति इत्यादेश्च । उपनिषत्वाच्च विशेषतो न यत्किञ्चिदुच्यत इति वक्तुं युक्तम् । विष्णुरुक्तः सर्ववेदैर्मन्त्रेषु च विशेषतः । आरण्यके विशेषेण नैवान्यत् किञ्चिदुच्यते ॥ कर्मार्थं च ब्राह्मणं स्यादमुख्यार्थविवक्षया । मुख्यतो विष्णुरेवैको ब्राह्मणेष्वपि कथ्यते ॥ आरण्यकेष्वृते विष्णुं नैवान्यत् किञ्चिदुच्यते । सूत्रात्मा तूच्यते विष्णोस्तद्विशिष्टत्ववित्तये ॥ कुत्रचित् तदुपास्तिश्च तस्याध्यर्धतनुत्वतः । तस्मिन् विष्णोरुपास्त्यर्थं नान्यथा किञ्चिदुच्यते ॥ इति ब्रह्माण्डे । यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारैधितकर्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ यन्न व्रजन्त्यघभिदो रचनानुवादाः शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तवीर्यास्तांस्तान् क्षिपन्त्यशरणेषु तमस्सु हन्त ॥ इत्यादिभगवद्वचनाच्च । सर्वासु शाखास्वारणमावर्तयेदारणकमावर्तयेदुपनिषदमावर्तयेद् उपनिषदमावर्तयेत् इत्युपनिषदभ्यासस्य सतात्पर्यं विहितत्वादभगवद्विषयस्य निन्दितत्वाच्च नोपनिषत्स्वन्यदुच्यते । अभ्यसेदधियज्ञं चाप्यधिदैवं विशेषतः । अध्यात्मं तु विशेषेण यस्माद् विष्णुस्त्रिषूदितः ॥ इति स्कान्दे । मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम् । इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन ॥ इत्यादेश्च भगवदुपासना एव सर्वत्रोक्ताः ॥ ५ ॥
तद्यत् प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥


त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥


स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥


स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ६ ॥


प्रथमामृतस्य द्रष्टारो वसवस्त्वग्निपूर्वकाः ।
           यावत् पश्यन्ति तं विष्णुं तावत् ते नान्यभोगिनः ॥
           एतदेव विशन्त्यद्धा मोक्षे ते तत एव च ।
स्वेच्छयैव समुद्यन्ति मुक्ताः सन्तो बहिस्तथा ॥
अथ यद्वितीयममृतं तद्रुद्राः उपजीवन्तीन्द्रेण मुखेन । न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥


त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥


स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥


स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ७ ॥


एवं द्वितीयरूपं तु शिवाद्या वायुसंश्रिताः ।
           वायोर्हिरण्यगर्भत्वात् पदद्वयमुदाहृतम् ॥
           रुद्राणामाश्रयत्वं च साध्यानामपि सर्वशः ।
           अतो यजुर्विचारश्च सर्ववेदात्मनस्तथा ॥
           वायोरेव विचारः स्याद् ब्रह्मणोऽपि विशेषतः ।
उभयाश्रयः स मोक्षोऽपि वायुरेव हि सर्वदा ॥
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥


त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥


स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥


स यावदादित्यो दक्षिणतः उदेतात्तरतोऽस्तमेता द्विस्तावत् पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ८ ॥


द्रष्टारोऽथ तृतीयस्य शक्रमुख्यादितेः सुताः ।
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥


त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥


स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥


स यावदादित्यः पश्चादुतेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥४।९॥


चतुर्थस्य तु सोमाद्या मरुतः .................
अथ यत्पञ्चमममृतं तत्साध्याः उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥


त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥


स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३ ॥


स यावदादित्यः उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वं उदेताऽर्वाङ्गस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ १० ॥


....... ...... .......... पञ्चमस्य च ॥
           ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च ।
           सरस्वती सुपर्णी च वारुणी साध्यनामकाः ॥
           अन्योन्यमुखता मुक्तौ ब्रह्मणा समता तथा ।
           वाक्शेषादेर्मुखं ब्रह्मा मुक्तावपि विशेषतः ॥
           द्रष्टोभयस्यापि शिवो द्वितीयस्यान्तगस्य च ।
           मोक्षे त्वन्यत्र चैकस्य परतः शेषभावतः ॥
           ये चेैतत्पदयोग्यास्स्युर्देवाः पञ्च महागणाः ।
           तेषामपि यदोपासा निच्छिद्रा मधुनामके ॥
           तदा वस्वादितां प्राप्य मुक्तिमेष्यन्त्यसंशयम् ।
           उदेत्यास्तमयं यावद्याति भानुस्तु पर्वते ॥
           उदयास्ताद्रिमध्यस्य वसवः पतयः स्मृताः ।
           ततश्चास्तमयाद्यावदर्धरात्रं दिवाकरः ॥
           दक्षिणादुत्तरं याति किञ्चित् पूर्वसमन्वितम् ।
           तद्देशकालयोरीशा रुद्रा वायुपुरःसराः ॥
           वसुभोज्यदर्धकालमर्धदेशस्तथैव च ।
           रुद्रभोज्योऽर्धरात्रात्तु याम आदित्यदैवतः ॥
           पश्चिमात् पूर्वमार्गस्तु रौद्रादर्धः प्रकीर्तितः ।
           ततः परोऽर्धयामस्तु सौम्याद् दक्षिणमार्गकः ॥
           मारुतः काल उद्दिष्ट आदित्यार्धश्च देशतः ।
           पश्चात्पश्चादुदेत्येव पूर्वतोऽस्तमुपैति च ॥
           ततस्तदर्धकालेन चोत्तरादुदितस्तथा ।
           अस्तं दक्षिणतो याति स कालो मारुतः स्मृतः ॥
           उदेत्यैन्द्रपुरे चोर्ध्वमर्वागुदयपर्वते ।
           अस्तमेति तदर्धेन ब्रह्मा तस्य पतिः स्मृतः ॥
           एकत्रिंशत्तु घटिकाः साधिका वसुदैवताः ।
           तदर्धा रुद्रदैवत्यास्तत आदित्यदैवताः ॥
           तदर्धा मारुता ब्राह्मास्तदर्धा देशतस्तथा ॥ इति च ।
           रौद्रो द्विगुणीभूतो वसुकालो यावांस्तावान् भवतीति द्विस्तावत् । अर्ध इत्यर्थः । ब्राह्मे मुहूर्त इत्युषःकालस्य प्रसिद्धेश्च । रौद्रः काल इति पूर्वरात्रस्य प्रसिद्धेः । अपररात्रस्य सौम्यकालत्वाच्च तस्मिन् काले शीतमुत्पद्यते । मारुतकालत्वाद् वायुश्च वाति । आग्नेयकालत्वादेवाह्नि सैकघटिकं होमकर्माणि विशेषतः प्रवर्तन्ते ।
           अहः सर्वं वसूनां तु परेषां रात्रिरेव च ।
           प्रदत्ता विष्णुना पूर्वं नालमित्यब्रुवन् परे ॥
           पुनर्विशेषतो दत्तं रुद्राणां मरुतां तथा ।
           माध्यन्दिनं तृतीयं चाप्यादित्यानां प्रदत्तवान् ॥
           विश्वेषामपि देवानां सामान्याद् वसुनामहः ॥ इति च ।
           सर्वस्याधिपतिर्ब्रह्मा रुद्राद्यास्तु द्वयोर्द्वयोः ।
           वसवस्त्वह्न एवेशाः सामान्यान्न विशेषतः ॥ इति च ।
           माध्यन्दिने तृतीये च रुद्रादे राज्यमिष्यते ।
           तद्भृत्यत्वात् वसूनां तु प्रातःकाले विशेषतः ॥
           तत्रापि वाय्वधीनत्वमग्न्यादीनां प्रकीर्तितम् ।
           एवं पृथिव्यां रुद्राणामन्तरिक्षं प्रकीर्तितम् ॥
           मरुतां च द्विलोकेशा आदित्याः परिकीर्तिताः ।
           सर्वेषामधिपो ब्रह्मा युवाधीशस्तु मारुतः ॥
           त्रिलोकाधिपतिश्चेन्द्रस्तेषामप्यधिपो हरिः ॥ इति च ।
           स्वाराज्यं भोगः । स्वरञ्जनात् ।
           न त्विन्द्राद्यमो द्विगुणकालं तिष्ठति तस्माद्वरुणस्तस्माद् सोम इत्यत्र किञ्चिन्मानम् । न च सोमाद् द्विगुणेव ब्रह्मा तिष्ठति । द्विपरार्धं हि तस्य कालः । इन्द्रादयो हि मन्वन्तरमात्रं तिष्ठन्ति । न च वसूनां पूर्वोदेशो रुद्राणां दक्षिण आदित्यानां पश्चिमो मरुतामुत्तर एव । नान्यत्रेत्यत्र प्रमाणमस्ति । तत्पक्षे रुद्रैः सहेन्द्रस्य दक्षिणत्वप्राप्तेश्च । न चेन्द्रशब्देन वायुस्तैर्गृहीतः । अत इन्द्रादेवेन्द्रस्य द्विगुणकालत्वमिति विरोधः । इन्द्रादिपुरीणामुद्वासत्वेनैवमङ्गीकारे तत् षोडशगुणत्वाद् ऊर्ध्वोदयस्यैकेन्द्रात् परतोऽनिन्द्रत्वमेव स्यात् । अथ तं त ऊर्ध्वं उदेत्येति तत्पक्षे पश्चादप्यादित्यभावात् कल्पान्तलयो न स्यादित्यत्याद्यनन्तदोषदुष्टत्वेऽपि ग्रन्थाल्पत्वायैवोपरम्यते ॥
           वस्वादीनां तु सर्वेषां सर्वदिक्षु पुराण्यपि ।
           सन्त्येवमपि धीवृत्यै प्रत्येकं दिक्षुकथ्यते ॥ इति च ।
           ऐन्द्रया उद्वासे रुद्राणामेवोदयाभाव इति च दोषः । अतो यत्किञ्चिदेतत् ।
           उदेति पूर्वतः सूर्यो निम्लोचति च पश्चिमे ।
           एवं नियम उद्दिष्टो ब्रह्मणा विष्णुचोदनात् ॥
           द्विगुणं द्विगुणं कालमुदित्वा दक्षिणादिषु ।
           मध्ये चावस्थितिः पश्चाद् ब्रह्माणं याचिता पुरा ॥
           हिरण्यकेन सूर्यस्य हिरण्याक्षेण वै पुनः ।
           तदासुराणां देवत्वं ब्रह्मा तत्प्रददौ तयोः ॥
           तच्छ्रुत्वेन्द्रादिभिः प्रोक्तः कथं प्रादा वराविमौ ।
           देवता हि विनश्येयुरेवं दत्ते वरे त्वया ॥
           इत्युक्तो देवतैः प्राह ब्रह्मा लोकपितामहः ।
           न मया स वरो दत्तो दैतेयानां सुराः क्वचित् ॥
           येन युष्मद्विनाशः स्यात् ततो व्यैतु च वो भयम् ।
           दक्षिणाद्युदयो यस्तु स हि दैनन्दिनो मया ॥
           अभिप्रेतो नैव चायं कालान्तरगतः क्वचित् ।
           अर्धनाड्युत्तरा नाडीः सकाष्ठा नित्यशो रविः ॥
           पञ्चादशोत्तरां गच्छेत् पूर्वं रात्रे तु दक्षिणात् ।
           तदर्धं पश्चिमात् पूर्वं तदर्धं चोत्तरादपि ॥
           दक्षिणां च तदर्धं स ऊर्ध्वादर्वाक्च गच्छति ।
           दक्षिणाद्युदयस्त्वेष न तु कालान्तरे क्वचित् ॥
           यदोत्तरस्मात् द्विगुणः पूर्वो भवति वै सुराः ।
           तदापि द्विगुणत्वं स्यात् तन्मयाऽत्र विवक्षितम् ॥
           अहःसाम्येऽपि क्रमश आतपस्याल्पकालतः ।
           गिर्यावृत्तेः क्षिप्रमन्येषूदयास्तमयाविव ॥
           कालान्तरे भाविनं तु दक्षिणाद्युदयं पुनः ।
           अपेक्ष्यैव वरो दत्तो द्वितीयो देवता मया ॥
           समयश्च कृतो नित्यो मया सूर्यस्य चानघाः ।
           पूर्वस्मादुदयो नित्यं पश्चिमेऽस्तमयस्तथा ॥
           नियमो नान्यथाऽयं स्यात् कदाचित् केनचित् क्वचित् ।
           तस्मान्न वो भयं क्वापि प्रोक्ता इत्थं सुरास्तदा ॥
           विशोका अभवन् सर्वे ययुः स्वं स्वं निकेतनम् ॥ इति च ।
           एतदेव मोक्षधर्मेषु बलिवासवसंवाद उक्तम् । देवान् प्रति ब्रह्मणो वचनं रहस्यत्वादविज्ञाय बलिना दक्षिणाद्युदय उक्तः । इन्द्रेण तु ब्रह्मवचनं जानता दक्षिणाद्युदयो नास्तीत्युक्तम् ।
           दैतेययोर्वरं ज्ञात्वा त्वविज्ञाय सुरान् प्रति ।
           ब्रह्मणोक्तं हि बलिना वासवं प्रत्युदीरितम् ॥
           दक्षिणाद्युदयान्ते तु त्वां जेष्यामि पुरन्दर ।
           इत्युक्तस्तमुवाचेन्द्रो न कदाचन तद्भवेत् ॥
           ब्रह्मणा नियमो यस्मात् कृतः प्रागुदयो रवेः ।
           इत्युक्त्वा तु जगामेन्द्रो दिवमैरावतस्थितः ॥
इति च ॥ ६१० ॥
अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥


न वै तत्र न निम्लोचो नोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणा ॥ इति ॥ २ ॥


अथ सूर्यस्थितो विष्णुरादित्यस्त्वादिमूलतः ।
           आदानाद्वापि देवानामूर्ध्वं गच्छति मण्डलात् ॥
           प्राप्य वैकुण्ठलोकं च नोदेत्यस्तं न चैति सः ।
           एकलः प्रलये स्थाता देवता नात्र संशयः ॥
           तेन सत्येन न व्यृदि्धमाप्नुयां ब्रह्मणा क्वचित् ।
इत्युवाच पुरा ब्रह्मा देवेभ्यः स चतुर्मुखः ॥
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति च एतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥


एतां विद्यां तु यो वेद नित्यमस्य दिवा भवेत् । वैकुण्ठधामसंस्थस्य मुक्तस्यानुदयास्तकम् ॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥


इदं वा व तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वाऽन्तेवासिने ॥ ५ ॥


नान्यस्मै कस्मैचन यद्यप्यस्मा इमामदि्भः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६ ॥ ११ ॥


तदेतद्भगवान् विष्णुः प्रादाज्ज्ञानं विरिञ्चये ।
           विरिञ्चिर्मनवे प्राह प्रजाभ्यो मनुरेव च ॥
           पूरयित्वा तु पृथिवीं रत्नैः सप्तसमुद्रिणीम् ।
           दत्वापि गुरवे नैव पूर्यते गुरुदक्षिणा ॥
           देवास्तूपासनायोग्या एकैकस्यामृतस्य हि ।
           सर्वस्योपासने ब्रह्मा तदन्ये ज्ञानमात्रके ॥
           उपासने नैव योग्यास्तद्योग्या हि सुरा यतः ॥ इति देवश्रुतौ ।
ब्रह्मणा परेण मा विराधिषि । भगवत्प्रसादादवृदि्धं न प्राप्नुयामित्यर्थः ॥ ११ ॥
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥


यदिदं किञ्च भूतं प्रभूतं परिपूर्णं तत्सर्वं गायत्री भगवानेव । भू बहाविति धातोः । बहुः पूर्णतायामिति च ।
           यदिदं परितः पूर्णं मत्स्यकूर्मादिरूपकम् ।
           तदिदं भगवान् विष्णुस्सर्वान्तःस्थित एव च ॥
           तन्निःसृतत्वाद् वेदानां गायकस्त्राति चाखिलम् ।
           अतो गायत्रिनामासौ वासुदेवः परः पुमान् ॥
           भूमा भूतमिति प्रोक्तः पूर्णत्वात् पुरुषोत्तमः ।
           अनन्यापेक्षमुद्रिक्तं सर्वस्य च नियामकम् ॥
           यद्यत्तत्तद्विष्णुरेव नान्यदेतादृशं क्वचित् ।
           स एव भगवान् विष्णुर्वाङ्ग्नामा वाचि संस्थितः ॥
वचनाद्धयशीर्षाख्यो गायत्र्यां च स आस्थितः ।
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयन्ते ॥ २ ॥


स एव पृथिवीनामा पृथिव्यामपि संस्थितः ॥
           विष्णौ हि पृथिवीसंस्थे जगत्सर्वं प्रतिष्ठितम् ।
           नातिशेते च तं कश्चित् स हि सर्वाधिको हरिः ॥
पृथुत्वात् पृथिवीनामा ........ ..........
या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीर्यन्ते ॥ ३ ॥


........ .......... स एवान्तःशरीरगः ।
           शरित्वादीरणाच्चैव शरीरं भगवानजः ॥
पुरुषो जीव उद्दिष्टस्तस्मिन्नेव स्थितो विभुः ।
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥


योऽसौ जीवे स्थितो विष्णुः शरीरमिति नामकः ॥
           शन्त्वाच्च रतिरूपत्वादीरणाच्च स एव तु ।
           जीवचैतन्यरूपस्य हृदयेऽपि व्यवस्थितः ॥
अयनाद्धृदि विष्णुः स हृदयं कीर्तितो बुधैः ।
सैषा चतुष्पदा षडि्वधा गायत्री ।


गायत्र्यां संस्थितो विष्णुः स्त्रीरूपः सूर्यसप्रभः ॥
           द्वितीयश्चैव मत्स्यादिर्भूतनामावतारगः ।
           तृतीयो वाचि संस्थश्च स्त्रीरूपो हयशीर्षकः ॥
           चतुर्थः पृथिवीसंस्थः स्त्रीरूपः पीतवर्णकः ।
           जीवस्यान्तर्गतो व्याप्य शरीरमितिनामकः ॥
           पञ्चमस्तद्धृदिस्थस्तु षष्ठो हृदयनामकः ।
           गायत्रीनामको विष्णुरेवं षडि्वध उच्यते ॥
           त्रिभिः स्वरूपपादैश्च भिन्नेनैकेन चैव हि ।
गायत्रीनामको विष्णुश्चतुष्पात् सम्प्रकीर्तितः ॥
तदेतदृचाभ्यनूक्तं– तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥


भिन्नपादः सर्वजीवास्तस्य सादृश्यमात्रतः ।
           स्वरूपपादा विष्णोस्तु त्रयो हि दिवि संस्थिताः ॥
           नारायणो वासुदेवो वैकुण्ठ इति ते त्रयः ।
           अनन्तशयनं चैव तथाऽनन्तासनं हरेः ॥
           बहुलक्षोच्छ्रिते नित्ये विमाने संस्थिते यतः ।
           चित्प्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ ॥
           लोकत्रयविवक्षायां परतो लक्षयोजनम् ।
           सर्वं द्यौरिति विज्ञेयं ततस्ते दिविसंस्थिताः ॥
दिवः परश्च भगवान् सप्तलोकविवक्षया ।
यद्वै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥


अयं वाव स योयमन्तः पुरुष आकाशो यो वै सोन्तः पुरुष आकाशः ॥ ८ ॥


अयं वाव स योऽयमन्तर्हृदय आकाशो यो वै सोऽन्तर्हृदय आकाशस्तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीं श्रियं लभेत य एवं वेद ॥ ९ ॥ १२ ॥


परम्ब्रह्मेति भगवान् सर्वगः सम्प्रकीर्तितः ॥
           स एव जीवस्य बहिर्हृदयाकाश आस्थितः ।
           योऽयं हृदयगः सोऽथ जीवान्तर्व्याप्य संस्थितः ॥
           व्याप्तो जीवान्तरे योऽसौ स जीवहृदि संस्थितः ।
           एवं चापि चतुष्पात्त्वं वासुदेवस्य कीर्तितम् ॥
           स एव पूर्णो भगवानप्रवर्त्यस्तथाऽखिलैः ।
           अन्यैः प्रवर्त्यते योऽसौ स प्रवर्तीति गीयते ॥
           अप्रवर्त्यो हरिर्नित्यस्वतन्त्रत्वात् सदैव च ।
           अस्य प्रवृत्तिर्नास्तीति सोऽप्रवर्तीति कीर्तितः ॥
           पूर्णा स्वतन्त्रा श्रीश्चास्य वेत्तुर्भवति शाश्वती ।
           साक्षाद्गायत्र्युपासायां योग्य एकश्चतुर्मुखः ॥
           तस्मादननन्यतन्त्राऽस्य श्रीर्भवेन्नान्यथा क्वचित् ।
           विष्णुतन्त्रत्वमस्य स्यात् परेषां तस्य तन्त्रता ।
           यथाक्रमेण तन्त्रत्वं योग्यताक्रमतो भवेत् ॥ इति सत्तत्त्वे ।
           ब्रह्मशब्दाच्च भगवानित्यवसीयते । पूर्णाप्रवृत्तित्वं च तस्मिन्नेव मुख्यम् । तावानस्य महिमेति मन्त्राच्च । पादोऽस्य विश्वा भूतानीति जीवानां चतुष्पादान्तर्भावात् । भूतं यदिदं किञ्चेति षडि्वधान्तर्भूतं भूतं मत्स्याद्यवताररूपमेव ।
           द्वाविंशेष्ववतारेषु जीवोऽप्युक्तो यथा पृथुः ।
           तथा पादेषु चतुर्षु सान्निध्याज्जीव ईरितः ॥
           यथा कालः पुमान् व्यक्तं प्रकृतिश्च परस्य तु ।
           विष्णो रूपाणि गण्यन्ते पररूपेण वै सह ॥
           एवं भूतानि गण्यन्ते भिन्नान्यपि पदैः सह ।
           मूर्तामूर्ते यथा रूपे ब्रह्मणस्तु तथैव च ॥
           भिन्नान्यपि तु भूतानि पदानि स्वपदैः सह ॥ इति प्राथम्ये ।
           सुदर्शनाख्यं स्वास्त्रं तु प्रायुङ्क्त दयितं त्रिपात् इति श्रीभागवते प्रयोगाच्च न जीवो भगवत्स्वरूपम् ।
           सुवर्चला यथा सूर्यपत्न््नयंशः समुदाहृता ।
एवं जीवा भगवतो वस्तुभेदेऽपि सर्वदा ॥ इति च ॥ १२ ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्ग्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत् तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥


अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी भवति य एवं वेद ॥ २ ॥


अथ योऽस्य प्रत्यङ्ग्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद् ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद ॥३॥


अथ योऽस्योदङ्ग् सुषिः स समानस्तन्मनः स पर्जन्यस्तदेत् कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ४ ॥


अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान् भवति य एवं वेद ॥५॥


ते वा एते पञ्चब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ६ ॥


अस्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ।


प्राणाभिमानी चक्षुश्च सूर्य एव ह्युदाहृतः ।
           तेजोऽन्नाद्यभिमानी च प्राग्द्वाराधिपतिर्हरेः ॥
           दक्षिणाधिपतिस्सोमो व्यानः श्रोत्राभिमानवान् ।
           यशोलावण्यरूपश्च पश्चिमद्वारपस्तथा ॥
           वागपानात्मको वह्निर्ब्रह्मतेजोऽन्नदेवता ।
           उत्तरद्वारपस्त्विन्द्रः समानो मनआत्मकः ॥
           कीर्त्यैश्वर्यात्मको नित्यमूर्ध्वद्वारप एव च ।
           प्रधानवायुराकाशः सर्वज्ञादुन्नतेस्तथा ॥
           उदान ऊर्जितत्वात् स ओजः पूर्णत्वतो महः ।
           परस्य ब्रह्मणस्त्वेते पुरुषाः पञ्च कीर्तिताः ॥
           द्वारपा हृदये चैव विष्णुलोके च सर्वदा ।
           आन्तरद्वारपा ह्येते जयाद्या बाह्यतः स्मृताः ॥
           एवमेतानुपास्यैव तद्गुणांशांशभाग् भवेत् ।
विष्णुलोकं तथा गच्छेद् भवेदपि सुसन्ततिः ॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिः ॥ ७ ॥


यत्रैतदस्मिञ्च्छरीरे संस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥ १३ ॥


योऽसौ वैकुण्ठगो विष्णुः सप्तलोकोपरिस्थितः ।
           स एव सर्वलोकेषु विश्वतो ब्रह्मणस्तथा ॥
           उच्चेषूत्तमलोकेषु तथा प्रत्यवरेषु च ।
           पुरुषेषु च सर्वेषु स एकः संव्यवस्थितः ॥
           प्राणसंस्थस्स वै विष्णुः प्राणोऽग्नौ संव्यवस्थितः ।
           स्पर्शेन दृश्यते चाग्निस्तद्दृष्टिरिव सा ततः ॥
           स प्राणः स्तौति तं विष्णुं सा स्तुतिः श्रूयते सदा ।
           कर्णौ पिधाय तद्विद्वान् दिव्यचक्षुः सुकीर्तिमान् ॥
           मुक्तो भूत्वा भवेद्यस्मादुपासीतैव सन्ततम् ॥ इति संस्तत्त्वे ।
           दिक्षु यानाद्यशो व्याप्तं कीर्तिः प्रत्यक्षतः स्तुतिः इति शब्दनिर्णये । सर्वतः पृष्ठेषु सर्वत उच्चेषु वैकुण्ठक्षीरसागरानन्तासनादिषु विश्वतो ब्रह्मणोऽप्युच्चेषु । तत उत्तमोऽन्यो नास्तीत्यनुत्तमाः सर्वतः स्वयमुत्तमाः ।
           पृथिवीस्थेषु सर्वोच्चो लोकोऽनन्तासनात्मकः ।
           अन्तरिक्षात्मकेभ्यश्च श्वेतद्वीपे स्थितो हरेः ॥
           द्व्यात्मकेभ्यश्च सर्वेभ्यो वैकुण्ठश्चोच्च उच्यते ।
           पृथिव्यां द्यौर्महामेरुराकाशे सूर्यमण्डलम् ॥
           दिवीन्द्रसदनं चैव तत्परे तु दिवः परे ।
           पृथिव्यां ब्रह्मणो मेरौ जयन्तं त्वन्तरिक्षगम् ॥
           तृतीयं सत्यलोके च सदनं त्रिविधं स्मृतम् ।
           तेभ्योऽनन्तासनाद्या यत्परतो विश्वतः परः ॥ इति सत्तत्वे ।
           निनदः समुद्रघोषः स्यान्नदथुर्मेघसम्भवः इति सत्तत्वे ।
चक्षुष्यश्चक्षुषि ब्रह्मण्येष यातीत्युपासकः इति च ॥ १३ ॥
सर्वं खल्विदं ब्रह्म । तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥


मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः आकाश आत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥


इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः ।
           तच्च ब्रह्मजलान् साक्षाद्योऽसौ विष्णुर्जलेऽनिति ॥
           आनीदवातमिति यं वेदवागवदत् स्फुटम् ।
           अप्रकेते तु सलिले ब्रह्म नारायणोऽपि सः ॥
           इति शान्त उपासीत यस्माज्ज्ञानमयः पुमान् ।
           क्रतुस्तु निश्चितं ज्ञानं तद्वशः पुरुषो मृतौ ॥
           तस्माद्विनिश्चितं ज्ञानं कुर्याद्विष्णौ महद्गुणे ।
           महाज्ञानात्मकत्वात् तु प्रोक्तो विष्णुर्मनोमयः ॥
           यस्माद्बलशरीरोऽसावतः प्राणशरीरकः ।
           आसमन्तात् प्रकाशात् स आकाशात्मा प्रकीर्तितः ॥
           सर्वगन्धादिरूपश्च भोक्ता चैषां सदैव हि ।
इति निश्चयकृद्याति तमेव पुरुषोत्तमम् ॥ इति सद्गुणे ।
एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामकतण्डुलाद्वा एष मे आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ॥३॥


सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसम्भविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ १४ ॥


एकत्र सर्वगन्धादिना चिदानन्दात्मकसर्वगन्धादिरूपत्वमुच्यते । अन्यत्र तद्भोक्तृत्वम् ॥ १४ ॥
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो वसुधानस्तस्मिन् विश्वमिदं श्रितम् ॥ १ ॥


क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तिता ।
           आनन्देच्छास्वरूपोऽसौ कोशो विष्णुः प्रकीर्तितः ॥
           तस्योदरेऽन्तरिक्षं च पृथिवी पादबुध्नयोः ।
           शिरोविवरगा द्यौश्च दिशो बाहुषु संस्थिताः ॥
           अजरोऽयं महाविष्णुर्वसवो देवतागणाः ।
तेषां निधानं भगवांस्तस्मिन् सर्वमिदं श्रितम् ॥
तस्य प्राची दिक् जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥


प्राचीदिक्संस्थितस्तस्य बाहुर्दक्षिण ऊर्ध्वगः ।
           जुहूः स होमकर्तृत्वाद् भुङ्क्ते ह्येतेन केशवः ॥
           दक्षिणस्त्वधरो बाहुर्दक्षिणादिक् स्थितो विभोः ।
           सहमानेति स प्रोक्तो मानं वेदात्मकं यतः ॥
           शङ्खो वेदात्मकः शङ्खसहितो दक्षिणाधरः ।
           बाहुर्जुहोति चक्रेण शत्रूनित्यथवा जुहूः ॥
           प्रतीचीदिक्स्थितस्तस्य वामबाहुस्तथोत्तरः ।
           राजीयुक्तगदायुक्तो राज्ञीनामा प्रकीर्तितः ॥
           अधरो वामबाहुर्य उत्तरादिक्स्थितो विभोः ।
           श्रिय आधारपद्मित्वात् सुभूतानामकः स्मृतः ॥
           दिङ्ग्नामानश्च ते प्रोक्ता धर्मज्ञानादिदेशनात् ।
           तेभ्यो जातो महावायुर्दिशां वत्सस्ततः स्मृतः ॥
           धर्मज्ञानादिरूपेण विष्णोर्बाहुचतुष्टयात् ।
           जातं वायुं विदित्वैव पुत्रो भूत्वा न रोदिति ॥
           न जायते न म्रियते मुक्तो भूत्वा सुखी भवेत् ।
           वायुं हरेः सुतं ज्ञात्वा नाहं पुत्रतयाऽरुदम् ॥
           हरेः प्रसादसामर्थ्यादजरा चामरा ह्यहम् ।
अनादिकालसम्बन्धादित्युवाच परा रमा ॥
अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना प्राणं प्रपद्येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽमुनाऽमुनाऽमुना ॥ ३ ॥


स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥


अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥


अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥


अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येतदवोचं तदवोचम् ॥ ७ ॥ १५ ॥


अविनष्टं परानन्दकामं विष्णुं सदा ह्यहम् ।
           प्रपद्ये तत्प्रसादेन केवलं नात्मशक्तितः ॥
           प्राणं सर्वप्रणेतारं प्रपद्ये केशवं सदा ।
           प्रभूतं यदिदं किञ्चित् प्रादुर्भावात्मकं हरेः ॥
           मत्स्याद्यं तत्प्राण एव विष्णुर्नास्त्यत्र संशयः ।
           तस्मान्मत्स्यादिरूपं तं विष्णुमेव प्रपद्यथ ॥
           हे जना इत्यवोचत् सा लक्ष्मीः सर्वाः प्रजाः प्रति ।
           प्राणनामा वासुदेवो मोक्षं स्वान् प्रणयेद्यतः ॥
           सङ्कर्षणस्तु भूर्नामा भूषयेज्ज्ञानतो यतः ।
           स पृथ्व्यां पृथिवीनामा स्वात्मानं प्रथयेद्यतः ॥
           अन्तरिक्षेऽन्तरिक्षाख्यो यतः साध्वन्तरीक्षते ।
           दिवि द्युनामा स विभुः सर्वक्रीडाकरत्वतः ॥
           प्रद्युम्नश्च भुवोनामा सृष्ट्या यद्भावयेज्जगत् ।
           सोऽग्निनामा परो वह्नावत्ति सर्वं यतो हुतम् ॥
           वायुनामा स वायुस्थो वात्यायुश्च यतोऽस्य तत् ।
           आदित्याख्यः स आदित्ये आददात्यायुरस्य यत् ॥
           स्वर्नामा त्वनिरुद्धोऽसौ परानन्दप्रदत्वतः ।
           ऋग्वेदाख्यः स ऋग्वेदे ज्ञानं वेदयते यतः ॥
           यजुर्वेदो यजुर्वेदे यज्ञं वेदयते यतः ।
           सामवेदः सामवेदे साम्यं वेदयते ह्ययम् ॥
           एवं चतुर्विधं तत्त्वं तदवोचमहं हरेः ।
           इत्युवाचेन्दिरा देवी स्तुवन्ती परमं हरिम् ॥ इति च ।
पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती यदि इति च ॥ १५ ॥
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥


तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥


अथ यानि चतुश्चत्वारिद्वर्षाणि तन्माध्यन्दिनंसवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभं मान्धन्दिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३ ॥


तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा रुद्रा इदं मे माध्यन्दिनं सवनं तृतीयं सवनमनुसन्तनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥४॥


अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत् तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वाव आदित्या एते हीदं सर्वमाददते ॥ ५ ॥


तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माहं प्राणानां आदित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ६ ॥


विष्णुपूजार्थयज्ञोऽहमित्युपासनमादरात् ।
           कुर्वीत पुरुषो नित्यं तस्य यत्षोडशोत्तरम् ॥
           शतमायुस्तत्सवनत्रयमीरितमुत्तमम् ।
           चतुर्विंशत्तु यत्पूर्वं प्रातःसवनमेव तत् ॥
           प्रार्थयित्वा वसूंस्तद्गं पुमान् मृत्युमपानुदेत् ।
           मध्ये चतुश्चत्वारिंशन्मध्यमं सवनं स्मृतम् ॥
           रुद्राणां प्रार्थनेनात्र पुमान् मृत्युमपानुदेत् ।
           ततोऽष्टचत्वारिंशत् तु तृतीयं सवनं स्मृतम् ॥
आदित्यानां प्रार्थनेन तद्गं मृत्युमपानुदेत् ॥ इति सर्वयज्ञे ।
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत् प्राह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥ १६ ॥


महिदासोऽन्यः । कृष्णश्चान्यः एव ।
           महिदासस्त्वैतरेयः कृष्णोऽन्यो देवकीसुतः ।
           कपिलश्च द्वितीयोऽन्यस्त्रय एते पुरा नराः ॥
           सङ्गत्योच्चैस्तपस्तेपुर्ब्रह्मणे परमेष्ठिने ।
           मातुः स्वस्य च नामैक्यं विष्णुना स्यादिति ह्युभौ ॥
           स्वात्मशिष्यप्रशिष्याणां नामैक्यं कपिलस्तथा ।
           एवमेव च वेदोक्ता भवेमेति त्वतन्द्रिताः ॥
           तान् वरान् प्रददौ तेषां ब्रह्मा लोकपितामहः ।
           तस्मात् तन्नामिनश्चासंस्त्रयस्ते मुनयोऽपि हि ॥
           महिदासस्त्वैतरेयो बह्वृचोपनिषद्गतः ।
           साक्षात् स भगवान् विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥
           कृष्णस्तु वासुदेवाख्यः परमात्मैव केवलम् ।
           तन्नामा देवकीपुत्रस्त्वन्योऽप्यभवदञ्जसा ॥
           कपिलो वासुदेवाख्यः साक्षान्नारायणः प्रभुः ।
           तन्नामा कपिलोऽन्यस्तु शिष्यनाम्ना सहाभवत् ॥
           स षोडशशतञ्जीवी महिदासोऽपरस्त्वृषिः ।
           घोरशिष्यस्तथा कृष्णः कपिलश्च कुशास्त्रकृत् ॥
           त्रय एते वरं प्राप्य ब्रह्मणः परमेष्ठिनः ।
           कृतकृत्याः प्रमुमुदुस्तन्नामानश्च तेऽभवन् ॥
इति कालकीये ॥ १६ ॥
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥


अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ २ ॥


अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥३॥


अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥


तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृथः ॥ ५ ॥


तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणशंसितमसीति ।


स्वरूपभूतयज्ञस्य क्षुत्पिपासाऽरतिस्तथा ।
           दीक्षा भोजनपाने च रतिश्चोपसदः स्मृताः ॥
           व्यवायहासभक्षास्तु स्तुतशस्त्रात्मकाः स्मृताः ।
           तपो दानार्जवाहिंसाः सत्यमप्यस्य दक्षिणाः ॥
           सोष्यत्यसोष्टेति ततो यज्ञवत्पुत्रजन्मनि ।
           आहुर्हि पुनरुत्पत्तिं प्रसवः प्रथमा पितुः ॥
           यज्ञस्नानं तु मरणं तदा ध्यायेत् त्रयं पुमान् ।
           भगवन्नक्षयोऽसि त्वमच्युतोऽसि गुणैः सदा ॥
प्राणाच्च सुखितो नित्यमाधिक्येनेति चिन्तयेत् ॥ इति सत्तत्त्वे ।
तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥


आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवा ॥


उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । स्वः पश्यन्त उत्तरम् ।


देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ इत्यगन्म ज्योतिरुत्तममिति ॥ ७ ॥ १७ ॥


आदित् तस्मादेव तत्प्रसादादेव । प्रत्नस्य पुरातनस्यानादेर्भगवतो रेतसः रतिरूपस्य ज्योतिः पश्यन्ति । वासेन रमयतीति वासरम् । दिवःपरतो वैकुण्ठे यदिध्यते । ऋद्धतममेव सर्वदा । अथ यदत परः इत्युक्तत्वाच्च । न चादित्यमण्डलं दिवः परतः । उत्तरं ज्योतिः पश्यन्तः स्वरानन्दरूपं परिपश्यन्तो वयं तमस उदगन्म । उत्तरं ज्योतिः पश्यन्तस्तदेवोत्तरं स्वश्च पश्यन्तः । द्विरुक्तिस्तात्पर्यार्था । उदाख्यं ज्योतिरुत्तमं तमसः सकाशादगन्म प्राप्ताः स्मेत्यर्थः । तस्योदितिनाम इति श्रुतेः । देवत्रादेवं देवविषयेऽपि देवं देवानां देवमित्यर्थः । सूरिभिः प्राप्यत्वात् सूर्यम् ।
           रतिरूपं परं ज्योतिरनादेः केशवस्य यत् ।
           तत्प्रसादेन पश्यन्ति हृदि वासाद्रतिप्रदम् ॥
           यत्पूर्णं सर्वदा भाति वैकुण्ठे परतो दिवः ।
           तदुदाख्यं प्रपश्यन्तो निर्गत्य तमसो वयम् ॥
           ज्योतिरानन्दसद्रूपमुत्तमोत्तमसूत्तमम् ।
           देवानां दैवतं साक्षात्सूरिप्राप्यं परं पदम् ॥
           प्राप्ताः स्म वासुदेवाख्यमिति मन्त्रदृगब्रवीत् ॥
इति नारायणीये ॥ १७ ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥


तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुःपादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशो पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ २ ॥


वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥


प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥


चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥


श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ १८ ॥


मनःसंस्थस्तु यो देवः साक्षान्नारायणः प्रभुः ।
           स एवाकाशसंस्थश्च मन आकाशनामकः ॥
           मननान्मन आकाश आसमन्तात् प्रकाशनात् ।
           वासुदेवादिभेदेन स वागादिषु संस्थितः ॥
           अग्न्यादिषु च तन्नामा वागादिस्थः स एव तु ।
           अग्न्यादिस्थैः सहैवेशो भाति दुष्टांस्तपत्यथ ॥
           एवं विद्वांस्तमीशेशं यशोज्ञानसुखात्मताम् ।
           कीर्तिं च ब्रह्मसम्प्राप्त्या वरतां मुक्तिगामपि ॥
प्राप्य भाति तपत्यद्धा स्वाज्ञानादिकमेव च ॥ इति च ॥ १८ ॥
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् तत्सदासीत् तत्समभवत् तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥


तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं स मेधो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रोऽथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन् सर्वाणि च भूतानि च सर्वे च कामास्तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे चैव कामाः ॥ ३ ॥


स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥ १९ ॥


॥ इति श्रीमच्छान्दोग्योपनिषदि तृतीयोऽध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः ॥
अगम्यत्वादसन्नाम ब्रह्म नारायणाभिधम् ।
           प्रलये वासुदेवाख्यं गम्यं सदभवद्विदाम् ॥
           तत्प्रकृत्या समभवत् तत आण्डमजायत ।
           तस्मिन्नादित्यनामासावभवत् सूर्यमण्डले ॥
           नियन्तैव च सूर्यस्य भगवान् पुरुषोत्तमः ।
           तस्मिन्नादित्यनामानमादित्यस्थं जनार्दनम् ॥
           ब्रह्मोपासीत परमं सर्ववेदज्ञता ततः ॥ इति ब्रह्मतत्त्वे ।
           उलूलव उरूरव । अतिमहान्तो गायत्र्यादिघोषाः उप च निम्रेडेरन् । मुक्ते तस्मिन्नेव वसेयुः ।
           सूर्यबिम्बस्थिते विष्णौ जायमाने परात्मनि ।
           गायत्रीपूर्वकैर्वेदैर्ब्रह्माद्यास्समुपस्थिताः ॥
           उपतिष्ठन्त्यतो नित्यं गायत्र्यादिभिरञ्जसा ।
तद्विद्वान् मुक्त आवासो वेदानां सर्वदा भवेत् ॥इति च ॥ १९ ॥