Jump to content

Bhagavatatatparyanirnaya/C11/S18

From Grantha
Revision as of 07:04, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
विप्रस्य वै संन्यसतो देवा दारादिरूपिणः ।विघ्नं कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥


'असम्पूज्य न्यसिष्णूंस्तु देवा वै पातयन्त्यधः ।सुसम्पूज्य न्यसिष्णूंस्तु देवा एवानुजानते ।अथवा तद्यशोवृध्द्यै विघ्नन्तीव पुनःपुनः ।तात्पर्याद्विघि्नतो देवैर्नोत्थातुं शक्नुयात्क्वचित्॥ इति देवहार्दे ॥१४॥
यदेतदात्मनि जगन्मनोवाक्प्राणसम्भृतम् ।सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥


'त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् ।अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः ॥अचेतनत्वान्नैवैतत्प्रयोजकतया स्मरेत् ।चेतनत्वं स्वतन्त्रत्वं स चैको विष्णुरेव तु ॥आयस्तु फलमुद्दिष्टं प्रोक्तं मायेति निष्फलम् ।फलाल्पत्वात्तु मायैषा सम्प्रोक्ता त्रिगुणादिका ॥महाफलप्रदत्वात्तु विष्णुराय इतीरितः॥ इति निवृत्ते ॥ २७ ॥
वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।शुष्कवादविवादेन कञ्चित्पक्षं न संश्रयेत् ॥ ३० ॥


'वेदेन सह वादो यो वेदवाद इतीरितः ।तर्केण वेदस्यान्यार्थकल्पनं तं विदो विदुः ॥तन्न कुर्यात्कदाचिच्च तत्कुर्वन्वेदहा भवेत्॥ इति च ।'योगसाङ्ख्यकणादाक्षपादा वै हेतुवादिनः ।पश्वीशशाक्तबुद्धाद्या पाषण्डा इति कीर्तिता॥ इति च ॥ ३० ॥
एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।खं यद्वदुदपात्रेषु भूतान्येकात्मकानि च ॥ ३३ ॥


'भूतानामेक एवात्ताऽथैको भूतेषु सन्ततः ।एको भूतानि चादत्ते तस्मादेकात्मकानि तु॥ इति भद्रमाने ॥'घटादिषु महाकाशो निर्विशेषश्च सन्ततः ।घटावयवरूपस्तु तथैवान्यो घटानुगः ॥घटनाशेऽप्यनाशः सन्मध्यमाकाश इष्यते ।एकदेशाभिमानित्वादित्याकाशास्त्रयः स्मृताः ॥महाकाशो विघ्नराजो विघ्नास्तत्र तु मध्यमाः ।क्षुद्रविघ्नास्तदितर एवमात्मा त्रिधा स्मृतः ॥महाखवत्परस्त्वात्मा जीवा मध्यखवत्स्मृताः ।घटानुगखवत्प्रोक्ता असुरा नित्यदुःखिनः ॥महाकाशवशाः सर्वे आकाशा इतरे स्मृताः ।परमात्मवशे तद्वज्जीवाः सर्वेऽपि संस्थिताः ॥एवं विष्ण्वात्मकमिदं जगत्पश्येद्यतिः सदा॥ इति विनिर्णये ॥३३॥
शौचमाचमनं स्नानं न तु चोदनया चरेत् ।अन्यांश्च नियमान् ज्ञानी यथाऽहं लीलयेश्वरः ॥ ३७ ॥


नहि तस्य विकल्पाख्या क्रिया मद्वीक्षया हता ।आदेहान्तात् क्वचित् ख्यातिस्ततः सम्पद्यते मया ॥३८॥


'स्वभावतो धर्मपरो न विधेश्चकितश्चरेत् ।अल्पं फलं च चकिते स्वभावे फलमुत्तमम्॥ इति च ॥वि कल्पनं विकल्पः ।'निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत् ।अज्ञो ज्ञस्य तु सङ्कल्पः स्वभावाद्विहितानुगः ॥शरीरधर्मिणः क्वापि निषिद्धेऽपि मनो व््राजेत् ।तथापि तस्य नानर्थो मोक्षे नैवान्यथा व््राजेत्॥ इति धर्मतत्त्वे ॥ ३७,३८ ॥
तावत् परिचरेद् भक्तः श्रद्धावाननसूयकः ।यावद् ब््राह्म विजानीयान्मामेव गुरुमादृतः ॥ ४० ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे अष्टादशोऽध्यायः ॥
'शुश्रूषेत्सहितस्तावद्यावज्ज्ञानोदयो गुरुम् ।ततः परं च शुश्रूषेद्यथा तस्य प््रिायं भवेत्॥ इति च ॥ ४० ॥