Jump to content

Bhagavatatatparyanirnaya/C11/S7

From Grantha
Revision as of 07:04, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम् ॥ ७ ॥


विद्धि मायां मनोमयीम् । मन्मनःप्रधानप्रकृतिनिर्मिताम् ।'प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी ।ऋता सत्याऽमराऽजय्या लोकानामात्मसञ्ज्ञिता॥ इति मोक्षधर्मेषु ॥ ७ ॥
पुंसोऽयुक्तस्य नानार्थे भ््रामः स गुणदोषकृत् ।कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥


'स्वर्गाद्याश्च गुणाः सर्वे दोषाः सर्वे तथैव च ।आत्मनः कर्तृताभ््र•न्त्या जायन्ते नात्र संशयः ॥परमात्मानमेवैकं कर्तारं वेत्ति यः पुमान् ।स मुच्यतेऽस्मात् संसारात्परमात्मानमेति च॥ इति भारते ॥इदं मया क्रियते, इदं मया न क्रियते, इदं मया विपरीतं क्रियत इति बुद्धिभेदो रजस्तमोगुणनिमित्तो भ््रामः । सर्वं हि परमेश्वरः करोति ॥८॥
तस्माद् युक्तेन्द्रियग््र•मो युक्तचित्त इदं जगत् ।आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥


'आत्मशब्दोदितो ब््राह्मा परमात्माऽभिधो ह्यहम् ।सर्वं ब््राह्मणि वीक्षेत मयि ब््राह्माणमेव च॥ इति कालसंहितायाम् ॥ ९ ॥
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यते ॥ १० ॥


'आत्मभूतः आत्मवद्भूतः ।आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन॥ इति वचनात् ॥ १० ॥
दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।गुणबुद्ध्या च विहितं न करोति यथाऽर्भकः ॥ ११ ॥


सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चलः ।पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥


'कर्तृत्वमात्मनो यस्माज्ज्ञाननिष्ठो न मन्यते ।अतोऽकुर्वन्नपि सदा दोषबुध्द्या न निन्दितम् ॥गुणबुद्ध्या न विहितं किन्त्वीशप््रोरितोऽस्म्यहम् ।स एव च मयि स्थित्वा निन्द्यानिन्द्ये करोत्यजः ॥न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम् ।स्वतन्त्रत्वान्न चेशस्य येऽज्ञास्तेषु भवेदपि ॥इति मत्वा निवर्तेत निन्द्यात्कुर्याद्गुणानपि॥ इति बोद्धव्ये ॥'अनित्या मे गुणा न स्युर्दोषा नैव कथञ्चन ।इति मत्वा शुभं कुर्यान्निवर्तेदशुभादपि ॥ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात् ।किन्तु पूर्णगुणायैव न तु दोषापनुत्तये ॥न चाल्पगुणसिद्ध्यर्थं बालवत्कृतनिश्चयः॥ इति वैशारद्ये ॥'वैलक्षण्याद्धरेर्भिन्नं तत्तन्त्रत्वात्तदात्मकम् ।इति विश्वं प्रपश्यन्ति ज्ञाननिष्ठा हरेः प््रिायाः॥ इति सार्वज्ञ्ये ॥ ११,१२ ॥
उद्धव उवाच– योगेश योगविन्यास योगात्मन् योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥


योगो देवादिषु तेन न्यस्त इति योगविन्यासः ।'ज्ञानं तु योगशब्दोक्तं युज्यतेऽनेन यत्सुखम् ।क्वचिद्योग उपायः स्यात्क्वचिच्चित्तनिरोधनम्॥ इति दत्तात्रेययोगे ॥अत्र ज्ञानमुपायश्च ॥ १४ ॥
सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे ब््राह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥


अभगवत्स्वरूपत्वात्तनुभृत्त्वम् । बहिरर्थापेक्षयैव च तेषां मोहः । परमसुख-साधनादन्योऽर्थो बहिरर्थः ।'अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा ।इच्छा च क्रीडयैवास्य न फलाय यतो विभोः ॥अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते ।ब््राह्मा निरभिमानत्वाच्छरीर्यप्यशरीरवान् ॥नित्यानन्दोपयोग्यन्यकामस्योज्झितितः सदा ।बहिरर्थविनिर्मुक्तस्तथापि तनुधारणात् ॥अमूढो मूढ इतिवदुच्यते च सरस्वती ।रुद्राद्यास्तन्वभीमानाद्बहिरर्थयुजस्तथा ॥सर्वेषां ब््राह्मपदवीयोग्यानां पूर्वमेव तु ।अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते ॥ब््राह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम् ।ब््राह्मगायत्रिभावे तु नांशावतरणं क्वचित् ॥शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते ।आपरोक्ष्येण पारोक्ष्यात्पूर्णज्ञानं सदैव तु ॥शतजन्मगतायाश्च आपरोक्ष्योज्झितिर्भवेत् ।क्वचित्क्वचित्सरस्वत्यामंशावतरणेष्विति॥ इति शक्तिविवेके ॥'अशरीरो वायुरभ््रां विद्युत्स्तनयित्नुरशरीराणि वा एतानि॥ इति च श्रुतिः।'श्रुतिभिस्तनितत्वात्तु स्तनयित्नुर्हरिः स्मृतः ।अभ््रां भूतानि भरणाच्छ्रीर्वायुर्भरतः स्मृतः ॥विद्युत्तु भारती प्रोक्ता एत एवाशरीरिणः ।व्यत्यासेनापि नाम स्यादेतेषां महतां सदा॥ इत्युभयनिरुक्ते ॥१७॥
तस्माद् भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डविकुण्ठधिष्ण्यम् । निर्वेदधीरहरहर्वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥


'विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः ।सेन्द्रैश्चतुर्भिः पार्थस्तु द्वाभ्यां तु बललक्ष्मणौ॥ इत्यंशविवेके ॥१८॥
श्री भगवानुवाच– प्रायेण मनुजा लोके लोकतत्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥


लोके तत्त्वे च विचक्षणाः ।'पारोक्ष्येणैव तत्त्वं तु लोकं चापि विदन्ति ये ।तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् ॥आपरोक्ष्यान्न च ज्ञानं तेषामुत्पद्यते क्वचित्॥ इति षाड्गुण्ये ॥१९॥
त्वं हि नः पृच्छतां ब््राह्मन्नात्मन्यानन्दकारणम् ।ब््राूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥


केवलात्मनः शरीरमात्रपरिग््राहस्य ॥ ३० ॥
शश्वत् परार्थसर्वेहां परार्थैकान्तसम्भवम् ।साधुः शिक्षेत भूमेश्च अनुशिक्षं व््रातान्तरम् ॥ ३८ ॥


परार्थैकान्तसम्भवम् । आत्मनो वृद्धिश्च परार्थेति ।'सज्जनार्थेऽनुमन्येत ऐहिकीं वृद्धिमात्मनः ।पारत्रिकीमैहिकीं च प्रीतये गुरुदेवयोः ॥देवतानां च सर्वेषां स्वोत्तमानां च सर्वशः॥ इति च ॥ ३८ ॥
अन्तर्बहिश्च स्थिरजङ्गमेषु ब््राह्मात्मभावेन समन्वयेन । व्याप्त्याऽव्यवच्छेदमसङ्गमात्मनो मुनिर्नभोवद् विततस्य भावयेत् ॥ ४२ ॥


'जीवान्तर्यामको विष्णुरात्मनामा समीरितः ।तस्य तु ब््राह्मरूपत्वाद्बहिरन्तस्तथैव च ।पश्येदाकाशवद्व्याप्तिमसङ्गत्वं च नित्यशः॥ इति तन्त्रभागवते ॥ ४२ ॥
तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥


'गुणान्जीवस्य चेष्टव्यान्सिद्धान्विष्णोर्गुणांस्तथा ।तत्तद्दृष्ट्या विचिन्वीत पृथगेव सुधीः सदा॥ इति लोकतत्त्वे ॥ ४३ ॥
स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थवन्नृणाम् ।मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥ ४४ ॥


'मधुनाम सुखं विन्द्यान्माधुर्यं सुखहेतुता ।सुखे रतिर्वां सम्प्रोक्ता शब्दतत्त्वविचक्षणैः॥ इति शब्दनिर्णये ॥४४॥
तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः ।सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ ४५ ॥


दूरत एव भजनीयः ।'पराभवो धर्षणं स्यादवज्ञानमथापि वा ।न तत्सत्सु सदा कुर्यात्सह शय्यासनं न चइति सद्गुणे ॥ ४५ ॥
क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।भुङ्क्त्े सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥


स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।प्रविष्ट ईयते तत्तत्स्वरूपोऽग्निरिवैधसि ॥ ४७ ॥


'जीवस्य छन्नतां शिक्षेत्प्रविष्टत्वं परात्मनः ।तत्तद्गुणविडम्बं च वह्नेः सर्वमथापि वा ॥अल्पदारौ यथाऽल्पोऽग्निरेवमल्पशरीरगः ।दृश्यते परमात्माऽपि स्थूलः स्थूलशरीरगः॥ इति वैभवे ॥ ४६,४७ ॥
कालनद्योघवेगेन भूतानां प्रभवाप्ययौ ।नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम् ॥ ४९ ॥


'अवयव्यवयवानां च गुणानां गुणिनस्तथा ।शक्तिशक्तिमतोश्चैव क्रियायास्तद्वतस्तथा ॥स्वरूपांशांशिनोश्चैव नित्याभेदो जनार्दने ।जीवस्वरूपेषु तथा तथैव प्रकृतावपि ॥चिद्रूपायामतोऽनंशा अगुणा अक्रिया इति ।हीना अवयवैश्चेति कथ्यन्ते तेऽत्यभेदतः ॥पृथग्गुणाद्यभावाच्च नित्यत्वादुभयोरपि ।विष्णोरचिन्त्यशक्तेश्च सर्वं सम्भवति ध््राुवम् ॥क्रियादेरपि नित्यत्वं व्यक्त्यव्यक्तिविशेषणम् ।भावाभावविशेषेण व्यवहारश्च तादृशः ॥विशेषस्य विशिष्टस्याप्यभेदस्तद्वदेव तु ।सर्वं चाचिन्त्यशक्तित्वाद्युज्यते परमेश्वरे ॥तच्छक्त्यैव तु जीवेषु चिद्रूपप्रकृतावपि ।भेदाभेदौ तदन्यत्र ह्युभयोरपि दर्शनात् ॥कार्यकारणयोश्चापि निमित्तं कारणं विना॥ इति ब््राह्मतर्के ।'आत्मनि चैवं विचित्राश्च हि।'सर्वोपेता च तद्दर्शनात्।'सर्वधर्मो-पपत्तेश्च।'स्वाभाविकी ज्ञानबलक्रिया च।'यत्रा सप्त ऋषीन्पर एकमाहुः॥ इत्यादेश्च ॥'विना दोषांच्छ्रुतमद्धाऽवगम्यं तथा स्मृतं परमे सत्यरूपम् ।नैवासत्यं क्वचिदस्मिन्परेशे सर्वं युक्तं पूर्णशक्तेः सदैव॥ इति च विश्वम्भरश्रुतिः ।तस्मादेकस्मिन्नपि शरीरे भेदाभेदात्प्रभवाप्ययौ युज्येते । न च विरोधः । स्थूलसूक्ष्मवत् । आपेक्षिकमत्रापि युज्यते ॥ ४९ ॥
बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः ।लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कवत् ॥ ५१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे सप्तमोऽध्यायः ॥
'बुद्धिसंस्थस्त्वात्मभेदो व्यक्तस्थो जीव उच्यते ।तेनैव सह संस्थानात्परात्मा स्थूलबुद्धिभिः ॥जीववल्लक्ष्यते विष्णुर्यथैवाम्बुस्थितार्कवत् ।परमार्कः पारिमाण्डिल्याद्वर्तुलत्वादिना तथा ।अर्कस्वरूपानभिज्ञैः शिरः पादादिवर्जितः ।अचेतनश्च कल्प्येत तत्तेजोमात्रदर्शिभिः ।सूर्यदेहादिभिन्नं हि तेजोमण्डलमेव तु ।दृश्यते स्थूलमतिभिरेवमेव जनार्दनः॥ इति प्रभासके ॥ ५१ ॥