Jump to content

Bhagavatatatparyanirnaya/C7/S4

From Grantha
Revision as of 06:57, 9 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ।भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥


'स्वतो भक्ता हिरण्याद्याः परावेशाद्धरौ द्विषःइति च ॥ ४ ॥
तस्मिन् महेन्द्रभवने महासुरोमहाबलो निर्जितलोक एकराट् ।


तमङ्ग मत्तं मधुनोरुगन्धिनाविवृत्तताम्राक्षमशेषधिष्ण्यपाः ।


'आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः ।मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः ।अतस्त्रय इति प्रोक्ताश्चत्वारो मानुषाः स्मृताः॥ इति स्कान्दे ॥'उपायनं ददुः सर्वे विना देवान् हिरण्यके। इति च ।'अयज्ञभागेष्वपि तु सुरशब्दः प्रदृश्यते ।यज्ञभागभुजस्त्वेव त्रय इत्यभिशब्दिताः॥ इति च ॥ १२-१३ ॥
यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ २८ ॥


निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २९ ॥


'यत्र क्व च यशस्थानमन्येषामिति केशवः ।सर्वत्रापि तु देवानामित्यन्यान्पूजयेत्क्वचित्॥ इति च ॥ २८-२९ ॥
यस्मिन् महागुणा राजन् गृह्यन्ते कविभिर्मुहुः ।न तेऽधुनाऽभिधीयन्ते यथा भगवतीश्वरे ॥ ३५ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये सप्तमस्कन्धे चतुर्थोऽध्यायः ॥
'अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् ।सम्यक्साम्यं तु मत्स्यादेरिति शास्त्रस्य निर्णयः॥ इति च ॥ ३५ ॥