Bhagavatatatparyanirnaya/C6/S14
Appearance
मुक्तानामपि सिद्धानां नारायणपरायणः ।सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥
'नवकोट्यस्तु देवानामृषयः शतकोटयः ।नारायणायनाः सर्वे ये केचित्तत्परायणाः॥ इति च ।'नारायणायना देवा ऋष्याद्यास्तत्परायणाः ।ब्रह्माद्याः केचनैव स्युः सिद्धो योग्यसुखं लभन्॥ इति तन्त्रभागवते ॥ ५ ॥
अहो विधातस्त्वमतीव बालिशोयस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
न हि क्रमश्चेदिह मृत्युजन्मनोःशरीरिणामस्तु तदाऽऽत्मकर्मभिः ।
त्वं तात नार्हसि स मां कृपणामनाथांत्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।
उत्तिष्ठ तात त इमे शिशवो वयस्या-स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।
नाहं तनूज ददृशे हतमङ्गला तेमुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥
'सन्तापक्रोधरागादिष्वनर्थकवचः क्वचित्॥ इति शब्दनिर्णये ॥ ५३-५७ ॥